भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.184

5.184.1

ततो रात्रौ व्यतीतायां प्रतिबुद्धोऽस्मि भारत ।
ततः सञ्चिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् ॥

5.184.2

ततः समभवद्युद्धं मम तस्य च भारत ।
तुमुलं सर्वभूतानां रोमहर्षणमद्भुतम् ॥

5.184.3

ततो बाणमयं वर्षं ववर्ष मयि भार्गवः ।
न्यवारयमहं तच्च शरजालेन भारत ॥

5.184.4

ततः परमसन्क्रुद्धः पुनरेव महातपाः ।
ह्यस्तनेन च कोपेन शक्तिं वै प्राहिणोन्मयि ॥

5.184.5

इन्द्राशनिसमस्पर्शां यमदण्डसमप्रभाम् ।
ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः ॥

5.184.6

ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा ।
सा ममाभ्यवधीत्तूर्णं जत्रुदेशे कुरूद्वह ॥

5.184.7

अथास्रमस्रवद्धोरं गिरेर्गैरिकधातुवात् ।
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण ॥

5.184.8

ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः ।
चिक्षेप मृत्युसन्काशं बाणं सर्पविषोपमम् ॥

5.184.9

स तेनाभिहतो वीरो ललाटे द्विजसत्तमः ।
अशोभत महाराज शश्रृङ्ग इव पर्वतः ॥

5.184.10

स संरब्धः समावृत्य शरं कालान्तकोपमम् ।
सन्दधे बलवत्कृष्य घोरं शत्रनिबर्हणम् ॥

5.184.11

स वक्षसि पापतोग्रः शरो व्याल इव श्वसन् ।
महीं राजंस्ततश्चाहमगमं रुधिराविलः ॥

5.184.12

सम्प्राप्य तु पुनः सञ्ज्ञां जामदघ्न्याय धीमते ।
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव ॥

5.184.13

सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे ।
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् ॥

5.184.14

तत एनं परिष्वज्य सखा विप्रो महातपाः ।
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा ॥

5.184.15

समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः ।
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः ॥

5.184.16

ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् ।
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् ॥

5.184.17

तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः ।
असम्प्राप्यैव रामं च मां च भारतसत्तम ॥

5.184.18

ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् ।
भूतानि चैव सर्वाणि जग्मुरार्तिं विशाम्पते ॥

5.184.19

ऋषयश्च सगन्धर्वा देवताश्चैव भारत ।
सन्तापं परमं जग्मुरस्त्रतेजोभिपीडिताः ॥

5.184.20

ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
सन्तप्तानि च भूतानि विषादन्क जग्मुरुत्तमम् ॥

5.184.21

प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश ।
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा ॥

5.184.22

ततो हाहाकृते लोके सदेवासुरराक्षसे ।
इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत ॥

5.184.23

प्रस्वापमस्त्रं त्वरितो वचनाद्ब्रह्मवादिनाम् ।
चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc