भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.182

5.182.1

ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते ।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥

5.182.2

ततोऽभ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः ।
ववर्ष शरजालानि मयि मेध इवाचले ॥

5.182.3

ततः सूतो मम सुहृच्छरवर्षेण ताडितः ।
अपयातो रथोपस्थान्मनो मम विषादयन् ॥

5.182.4

ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत् ।
पृथिव्यां च शराघातान्निपपात मुमोह च ॥

5.182.5

ततः सूतो जहात्प्राणान्रामबाणप्रपीडितः ।
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥

5.182.6

ततः सूते हते तस्मिन्क्षिपतस्तस्य मे शरान् ।
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसम्मितम् ॥

5.182.7

ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥

5.182.8

स मे भुजान्तरे राजन्निपत्य रुधिराशनः ।
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥

5.182.9

मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।
मेघवद्विननादोच्चैर्जहृषे च पुनः पुनः ॥

5.182.10

तथा तु पतिते राजन्मयि रामो मुदा युतः ।
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥

5.182.11

मम तत्राभवन्ये तु कुरवः पार्श्वतः स्थिताः . आगता अपि युद्धं तञ्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि ॥

5.182.12

ततोऽपश्यं पतितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान् ।
ते मां समन्तात्परिर्वाय तस्थुः स्वबाहुभिः परिधार्याजिमध्ये ॥

5.182.13

रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।
अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ॥

5.182.14

श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ।
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ॥

5.182.15

मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् । ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥

5.182.16

हयाश्च मे सन्गृहीतास्तयाऽस- न्महानद्या संयति कौरवेन्द्र ।
पादौ जनन्याः प्रतिगृह्य चाहं तथा पितॄणां रथमभ्यरोहम् ॥

5.182.17

ररक्ष सा मां सरथं हयांश्चोपस्काराणि च ।
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥

5.182.18

ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः ।
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥

5.182.19

ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् ।
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥

5.182.20

ततो जगाम वसुधां मम बाणप्रपीडितः ।
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥

5.182.21

ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥

5.182.22

उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः । 5-182-22बर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥

5.182.23

ववुश्च वाताः परुषाश्चलिता च वसुन्धरा ।
गृध्रा बलाश्च कङ्काश्च परिपेतुर्गुदा युताः ॥

5.182.24

दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।
अनाहता दुन्दुभयो विनेदुर्भृशनिःस्वनाः ॥

5.182.25

एतदौत्पातिकं सर्वं घोरमासीद्भयन्करम् ।
विसञ्ज्ञकल्पे धरणीं गते रामे महात्मनि ॥

5.182.26

ततो वै सहसोत्थाय रामो मामभ्यवर्तत ।
पुनर्युद्धाय कौरव्य विह्वलः क्रोधमूर्छितः ॥

5.182.27

आददानो महाबाहुः कार्मुकं तालसन्निभम् ।
ततो मय्याददानं तं राममेव न्यवारयन् ॥

5.182.28

महर्षयः कृपायुक्ताः क्रोधाविष्टोऽपि भार्गवः ।
समाहरदमेयात्मा शरं कालानलोपमम् ॥

5.182.29

सतो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगूढः
निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयाव- ॥

5.182.30

एवं राजन्नवहारो बभूव ततः पुनर्विमलेऽभूत्सुघोरम् ।
कल्यन्कल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc