भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.163

5.163.1

दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभ ।
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ॥

5.163.2

स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः ।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥

5.163.3

स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् ।
अभीतो युध्यते शत्रून्स वै पुरुष उच्यते ॥

5.163.4

परवीर्यं समाश्रित्य यः समाह्वयते परान् ।
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ॥

5.163.5

स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः ।
स्वयं कापुरुषो मूढ परांश्च क्षेप्तुमिच्छसि ॥

5.163.6

यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् ।
मरणाय महाप्रज्ञं दीक्षयित्वा विकत्थसे ॥

5.163.7

भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन ।
न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति हि ॥

5.163.8

यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे । हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ।

5.163.9

कैतव्य गत्वा भरतान्समेत्य सुयोधनं धार्तराष्ट्रं वदस्व ।
तथेत्युवाचार्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः ॥

5.163.10

यद्वा ब्रवीद्वाक्यमदीनसत्वो मध्ये कुरून्हर्षयन्सत्यसन्धः ।
अहं हन्ता सृञ्जयानामनीकं साल्वेयकांश्चेति ममैष भारः । कैतव्य गत्वा भरतान्समेत्य सुयोधनं धार्तराष्ट्रं वदस्व ॥

5.163.11

हन्यामहं द्रोणमृतेऽपि लोकं न ते भयं विद्यते पाण्डवेभ्यः ।
ततो हि ते लब्धमतं च राज्य- मापद्गताः पाण्डवाश्चेति भावः ॥

5.163.12

स दर्पपूर्णो न समीक्षसे त्व- मनर्थमात्मन्यपि वर्तमानम् ।
तस्मादहं ते प्रथमं समूहे हन्ता समक्ष कुरुवृद्धमेव ॥

5.163.13

सूर्योदये युक्तसेनः प्रतीक्ष्य ध्वजी रथी रक्षत सत्यसन्धम् ।
अहं हि वः पश्यतां द्विपमेनं भीष्मं रथात्पातयिष्यामि बाणैः ॥

5.163.14

श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः ।
आचितं शरजालेन मया दृष्ट्वा पितामहम् ॥

5.163.15

यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः ।
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ॥

5.163.16

अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् ।
सत्यां प्रतिज्ञामचिराद्द्रक्ष्यसे तां सुयोधन ॥

5.163.17

अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा ।
नैष्ठुर्यस्यावलेपस्य आत्मसम्भावनस्य च ॥

5.163.18

नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च ।
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥

5.163.19

दर्शनस्य च चक्रस्य कृत्स्नस्यापनयस्य च ।
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ॥

5.163.20

वासुदेवद्वितीये हि मयि क्रुद्धे नराधम ।
आशा ते जीविते मूढ राज्ये वा केन हेतुना ॥

5.163.21

शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते ।
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ॥

5.163.22

भ्रातॄणां निधनं श्रुत्वा पुत्राणां च सुयोधन ।
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ॥

5.163.23

न द्वितीयां प्रतिज्ञां हि प्रतिजानामि कैतव ।
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ॥

5.163.24

युधिष्ठिरोऽपि कैतव्यमुलूकमिदमब्रवीत् ।
उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम् ॥

5.163.25

स्वेन वृत्तेन मे वृत्तं नाधिगन्तुं त्वमर्हसि ।
उभयोरन्तरं वेद सूनृतानृतयोरपि ॥

5.163.26

न चाहं कामये पापमपि कीटपिपीलकयोः ।
किं पुनर्ज्ञातिषु वधं कामयेयं कथं च न ॥

5.163.27

एतदर्थं मया तात पञ्च ग्रामा वृताः पुरा ।
कथं तव सुदुर्बुद्धे न प्रेक्ष्ये व्यसनं महत् ॥

5.163.28

स त्वं कामपरीतात्मा मूढभावाच्च कत्थसे । तथैव वासुदेवस्य न गृह्णासि हितं वचः ।

5.163.29

किञ्चेदानीं बहूक्तेन युध्यस्व सह बान्धवैः । मम विप्रियकर्तारं कैतव्य सह बान्धवैः ।

5.163.30

मम विप्रियकर्तारं कैतव्य ब्रूहि कौरवम् ॥ श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् ।

5.163.31

भीमसेनस्ततो वाक्यं भूय आह नृपात्मजम् ॥ उलूक मद्वचो ब्रूहि दुर्मतिं पापपूरुषम् ।

5.163.32

शठं नैकृतिकं पापं दुराचारं सुयोधनम् ॥ गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये ।

5.163.33

प्रतिज्ञातं मया यच्च सभामध्ये नराधम ॥ कर्ताहं तद्वचः सत्यं सत्येनैव शपामि ते ।

5.163.34

दुःशासनस्य रुधिरं हत्वा पास्याम्यहं मृधे ॥ सक्थिनी तव भन्क्त्वैव हत्वा हि तव सोदनान् ।

5.163.35

सर्वेषां राजपुत्राणामभिमन्युरसंशयम् ।
कर्मणा तोषयिष्यामि भूयश्चैव वचः श्रृणु ॥

5.163.36

हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः ।
आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः ॥

5.163.37

नकुलस्तु ततो वाक्यमिदमाह महीपते ।
उलूक ब्रूहि कौरव्यं धार्तराष्ट्रं सुयोधनम् ॥

5.163.38

श्रुतं ते गदतो वाक्यं सर्वमेव यथातथम् । तथा कर्तास्मि कौरव्य यथा त्वमनुशासि मां ॥ 5-163-39असहदेवोऽपि नृपते इदमाह वचोऽर्थवत् . सुयोधन मतिर्या ते वृथैषा ते भविष्यति ॥

5.163.40

शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः ।
इमं च क्लेशमस्माकं हृष्टो यत्त्वं विकत्थसे ॥

5.163.41

विराटद्रुपदौ वृद्धावुलूकमिदमूचतुः . दासभावं नियच्छेव साधोरिति मतिः सदा ।
तौ च दासावदासौ वा पौरुषं यस्य यादृशम् ॥

5.163.42

शिखण्डी तु ततो वाक्यमुलूकमिदमब्रवीत् ।
वक्तव्यो भवता राजा पापेष्वभिरतः सदा ॥

5.163.43

पश्य त्वं मां रणे राजन्कुर्वाणं कर्म दारुणम् ।
यस्य वीर्यं समासाद्य मन्यसे विजयं युधि ॥

5.163.44

तमहं पातयिष्यामि रथात्तव पितामहम् ।
अहं भीष्मवधात्सृष्टो नूनं धात्रा महात्मना ॥

5.163.45

सोऽहं भीष्मं हनिष्यामि मिषतां सर्वधन्विनाम् ।
धृष्टद्युम्नोऽपि कैतव्यमुलूकमिदमब्रवीत् ॥

5.163.46

सुयोधनो मम वचो वक्तव्यो नृपतेः सुतः ।
अहं द्रोणं हनिष्यामि सगणं सहबान्धवम् ॥

5.163.47

अवश्यं च मया कार्यं पूर्वेषां चरितं महत् . कर्ता चाहं तथा कर्म यथा नान्यः करिष्यति

5.163.48

तमब्रवीद्धर्मराजः कारुण्यार्थं वचो महत् ।
नाहं ज्ञातिवधं राजन्कामयेयं कथञ्चन ॥

5.163.49

तवैव दोषाद्दुर्बुद्धे सर्वमेतत्त्वनावृतम् ।
स गच्छ माचिरं तात उलूक यदि मन्यसे ॥

5.163.50

इह वा तिष्ठ भद्रं ते वयं हि तव बान्धवाः ।
उलूकस्तु ततो राजन्धर्मपुत्रं युधिष्ठिरम् ॥

5.163.51

आमन्त्र्य प्रययौ तत्र यत्र राजा सुयोधनः ।
उलूकस्तत आगमक्य दुर्योधनममर्षणम् ॥

5.163.52

अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत् ।
वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम् ॥

5.163.53

नकुलस्य विराटस्य द्रुपदस्य च भारत . सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः ।
केशवार्जुनयोर्वाक्यं यथोक्तं सर्वमब्रवीत् ॥

5.163.54

कैतव्यस्य तु तद्वाक्यं निशम्य भरतर्षभः ।
दुःशासनं च कर्णं च शकुनिं चापि भारत ॥

5.163.55

आज्ञपयत राज्ञश्च बलं मित्रबलं तथा ।
यथा प्रागुदयात्सर्वे युक्तास्तिष्ठन्त्यनीकिनः ॥

5.163.56

ततः कर्णसमादिष्टा दूताः सन्त्वरिता रथैः ।
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ॥

5.163.57

तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् ।
आज्ञापयन्तो राज्ञश्च योगः प्रागुदयादिति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc