भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.160

5.160.1

हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु ।
न्यविशन्त महाराज कौरवेया यथाविधि ॥

5.160.2

तत्र दुर्योधनो राजा निवेस्य बलमोजसा ।
सम्मानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च ॥

5.160.3

आरक्षस्य विधिं कृत्वा योधानां तत्र भारत ।
कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् ॥

5.160.4

आनाय्य नृपतिस्तत्र मन्त्रयामास भारत ।
तत्र दुर्योधनो राजा कर्णेन सह भारत ॥

5.160.5

सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ ।
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ॥

5.160.6

उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् ।
गत्वा मम वचो ब्रूहि वासुदेवस्य श्रृण्वतः ॥

5.160.7

इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् ।
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम् ॥

5.160.8

यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत् ।
वासुदेवसहायस्य गर्जतः सानुजस्य ते ॥

5.160.9

मध्ये करूणां कौन्तेय तस्य कालोयमागतः ।
यथावत्सम्प्रतिज्ञातं तत्सर्वं क्रियतामिति ॥

5.160.10

ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्यं वचनान्मम ॥

5.160.11

भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः । कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः ।
य इच्छसि जगत्सर्वं नश्यमानं नृशंसवत् ॥

5.160.12

अभयं सर्वभूतेभ्यो पाता त्वमिति मे मतिः ॥

5.160.13

श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ ।
प्रह्लादेनाथ भद्रं ते हृते राज्ये तु दैवतैः ॥

5.160.14

यस्य धर्मध्वजो नित्यं सुरा ध्वज इवोच्छ्रितः ।
प्रच्छन्नानि च पापानि बैडालं नाम तद्ब्रतम् ॥

5.160.15

अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम् ।
कथितं नारदेनेह पितुर्मम नराधिप ॥

5.160.16

मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु ।
ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीर कदाचन ॥

5.160.17

स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम् ।
करोमि धर्ममित्याह सर्वानेव शरीरिणः ॥

5.160.18

तस्य कालेन महता विस्त्रम्यं जग्मुरण्डजाः ।
समेत्य च प्रशंसन्ति मार्जारं तं विशाम्पते ॥

5.160.19

पूज्यमानस्तु तैः सर्वैः पक्षिभिः पक्षिभोजनः ।
आत्मकार्यं कृतं मेने चार्यायाश्च कृतं फलम् ॥

5.160.20

अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः ।
ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम् ॥

5.160.21

कार्येण महता युक्तं दम्भयुक्तेन भारत ।
तेषां मतिरियं राजन्नासीत्तत्र विनिश्चये ॥

5.160.22

बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम् ।
रक्षां करोतु सततं वृद्धबालस्य सर्वशः ॥

5.160.23

उपगम्य तु ते सर्वे बिडालमिदमब्रुवन् ।
भवत्प्रसादादिच्छामश्चर्तुं चैव यथासुखम् ॥

5.160.24

भवान्नो गतिरव्यग्रा भवान्नः परमः सुहृत् ।
ते वयं सहिताः सर्वे भवन्तं शरणं गताः ॥

5.160.25

भवान्धर्मपरो नित्यं भवान्धर्मे व्यवस्थितः ।
स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत् ॥

5.160.26

एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशाम्पते ।
प्रत्युवाच ततः सर्वान्मूषिकान्मूषिकान्तकृत् ॥

5.160.27

द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च ।
अवश्यं तु मया कार्यं वचनं भवतां हितम् ॥

5.160.28

युष्माभिरपि कर्तव्यं वचनं मम नित्यशः ।
तपसास्मि परिश्रान्तो दृढं नियमामास्थितः ॥

5.160.29

न चापि गमने शक्तिं काञ्चित्पश्यामि चिन्तयन् ।
सोस्मि नेयः सदा ताता नदीकूलमितःपरम् ॥

5.160.30

तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ ।
वृद्धबालमथो सर्वं मार्जाराय न्यवेदयन् ॥

5.160.31

ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन् ।
पीवरश्च सुवर्णश्च दृढबन्धश्च जायते ॥

5.160.32

मूषिकाणां गणश्चात्र भृशं सन्क्षीयतेऽथ सः ।
मार्जारो वर्धते चापि तेजोबलसमन्वितः ॥

5.160.33

ततस्ते मूषिकाः सर्वे समेत्यान्योन्यमब्रुवन् ।
मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम् ॥

5.160.34

ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः ।
अब्रवीद्वचनं राजन्मूषिकाणां महागणम् ॥

5.160.35

गच्छतां वो नदीतीरं सहितानां विशेषतः ।
पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु ॥

5.160.36

साधु साध्विति ते सर्वे पूजयाञ्चक्रिरे तदा ।
चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत् ॥

5.160.37

अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान् ।
ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा ॥

5.160.38

तत्र वृद्धतमः कश्चित्कोलिको नाम मूषिकः ।
अब्रवीद्वचनं राजञ्ज्ञातिमध्ये यथातथम् ॥

5.160.39

न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा ।
न मूलफलभक्षस्य विष्ठा भवति लोमशा ॥

5.160.40

अस्य गात्राणि वर्धन्ते गणश्च परिहीयते ।
अद्य सप्ताष्टदिवसान्डिण्डिकोपि न दृश्यते ॥

5.160.41

एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः ।
बिडालोपि स दुष्टात्मा जगामैव यथागतम् ॥

5.160.42

तथा त्वमपि दुष्टात्मन्बैडालं व्रतमास्थितः ।
चरसि ज्ञातिषु सदा बिडालोमूषिकेष्विव ॥

5.160.43

अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते ।
दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते ॥

5.160.44

त्यक्त्वा छद्म त्विदं राजन्क्षत्रधर्मं समाश्रितः ।
कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ ॥

5.160.45

बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम ।
देहि दानं द्विजातिभ्यः पितृभ्यश्चयथोचितम् ॥

5.160.46

क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः ।
प्रमार्जाश्रु रणे जित्वा सम्मानं परमावह ॥

5.160.47

पञ्चग्रामा वृता यत्नात्रास्माभिरपवर्जिताः ।
युध्यामहे कथं सङ्ख्ये कोपयेम च पाण्डवान् ॥

5.160.48

त्वत्कृते दुष्टभावस्य सन्त्यागो विदुरस्य च ।
जातुषे च गृहे दाहं स्मर तं पुरुषो भव ॥

5.160.49

यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि ।
अयमस्मि स्थितो राजञ्शमायसमराय च ॥

5.160.50

तस्यायमागतः कालः समरस्य नराधिप ।
एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर ॥

5.160.51

किं नु युद्धात्परं लाभं क्षत्रियो बहु मन्यते ।
किञ्च त्वं क्षत्रियकुले जातः सम्प्रथितो भुवि ॥

5.160.52

द्रोणादस्त्राणि सम्प्राप्य कृपाच्च भरतर्षभ ।
तुल्ययोनौ समबले वासुदेवं समाश्रितः ॥

5.160.53

ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः ।
आत्मार्थं पाण्डवार्थं च यत्तो मां प्रतियोधय ॥

5.160.54

सभामध्ये च यद्रूपं मायया कृतवानसि ।
तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव ॥

5.160.55

इन्द्रजालं च मायां वै कुहका वापि भीषणा ।
आत्तशस्त्रस्य सङ्ग्रमे वहन्ति प्रतिगर्जनाः ॥

5.160.56

वयमप्युत्सहेम द्यां खं च गच्छेम मायया ।
रसातलं विशामोपि ऐन्द्रं वा पुरमेव तु ॥

5.160.57

दर्शयेम च रूपाणि स्वशरीरे बहून्यपि ।
न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम् ॥

5.160.58

मनसैव हि भूतानि धातैव कुरुते वशे ।
यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे ॥

5.160.59

घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम् . आचचक्षे च मे सर्वं सञ्जयस्तव भाषितम् ।
मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना ॥

5.160.60

स सत्यसङ्गरो भूत्वा पाण्डवार्थे पराक्रमी ।
युद्ध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव ॥

5.160.61

यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः ।
करोति द्विषतां शोकं स जीवति सुजीवितम् ॥

5.160.62

अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः ।
अद्येदानीं विजानीमः सन्ति षण्डाः शश्रृङ्गकाः ॥

5.160.63

मद्विधो नापि नृपतिस्त्वयि युक्तः कथञ्चन ।
सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः ॥

5.160.64

तं च तूबरकं बालं बह्वाशिनमविद्यकम् ।
उलूक मद्वचो ब्रूहि असकृद्भीमसेनकम् ॥

5.160.65

विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा ।
बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम् ॥

5.160.66

प्रतिज्ञातं सभामध्ये न तन्मिथ्या त्वया पुरा ।
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥

5.160.67

यद्ब्रवीषि च कौन्तेय धार्तराष्ट्रानहं रणे ।
निहनिष्यामि तरसा तस्य कालोऽयमागतः ॥

5.160.68

त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत ।
क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव ॥

5.160.69

शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत ।
तद्वृथा च सभामध्ये वल्गितं ते वृकोदर ॥

5.160.70

उलूक नकुलं ब्रूहि वचनान्मम भारत ।
युध्द्यस्वाद्य स्थिरो भूत्वा पश्यामस्तव पौरुषम् ॥

5.160.71

युधिष्ठिरानुरागं च द्वेषं च मयि भारत ।
कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम् ॥

5.160.72

ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम ।
युद्ध्येदानीं रणे यत्तः क्लेशान्स्मर च पाण्डव ॥

5.160.73

विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम . न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः ।
तथार्थपतिभिर्भृत्या यतः सृष्टाः प्रजास्ततः ॥

5.160.74

अश्लाघ्योऽयं नरपतिर्युवयोरिति चागतम् ॥

5.160.75

ते यूयं संहता भूत्वा तद्वधार्थं ममापि च ।
आत्मार्थं पाण्डवार्थं च प्रयुद्ध्यध्वं मया सह ॥

5.160.76

धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम ।
एष ते समयः प्राप्तो लब्धव्यश्च त्वयापि सः ॥

5.160.77

द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम् ।
युद्ध्यस्व समुहृत्पापं कुरु कर्म सुदुष्करम् ॥

5.160.78

शिखण्डिनमथो ब्रूहि उलूक वचनान्मम ।
स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः ॥

5.160.79

गाङ्गेयो धन्विनां श्रेष्ठो युद्ध्येदानीं सुनिर्भयः ।
कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव ॥

5.160.80

एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत् ।
धनञ्जयं पुनर्ब्रूहि वासुदेवस्य श्रृण्वतः ॥

5.160.81

अस्मान्वा त्वं पराजित्य प्रसाधि पृतिवीमिमाम् ।
अथवा निर्जितोस्माभी रणे वीर शयिष्यसि ॥

5.160.82

राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव ।
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥

5.160.83

यदर्थं क्षत्रिया सूते सर्वं तदिदमागतम् ।
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ॥

5.160.84

पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् । परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च ।
हृदयं कस्य न स्फोटेदैश्वर्याद्धंशितस्य च ॥

5.160.85

कुले जातस्य शूरस्य परिवित्तेष्वगृध्यतः ।
आस्थितं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ॥

5.160.86

यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् ।
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥

5.160.87

अमित्राणां वशे स्थानं राज्यं च पुनरुद्धर ।
द्वावर्थौ युद्धकामस्य तस्मात्तत्कुरु पौरुषम् ॥

5.160.88

पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।
शक्योऽमर्षो मनुष्येण कर्तु पुरुषमानिना ॥

5.160.89

द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः ।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥

5.160.90

राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव ।
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥

5.160.91

अप्रियाणां च वचनं प्रब्रुवत्सु पुनः पुनः ।
अमर्षं दर्शयस्व त्वममर्षो ह्येव पौरुषम् ॥

5.160.92

क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् ।
इह ते दृश्यतां पार्थ युद्ध्यस्व पुरुषो भव ॥

5.160.93

लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् ।
पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः ॥

5.160.94

असमागम्य भीष्मेण संयुगे किं विकत्थसे ।
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥

5.160.95

एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव ।
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् ॥

5.160.96

द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि ।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥

5.160.97

ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः ।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥

5.160.98

द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा ।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥

5.160.99

अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् ।
युगं वा रिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥

5.160.100

को ह्यस्ति जीविताकाङ्क्षी पराप्येममरिमर्दनम् ।
पार्थो वा इतरो वापि कोन्यः स्वस्ति गृहान्व्रजेत् ॥

5.160.101

कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा ।
रणे जीवन्प्रमुच्येत पदा भूमिपुमस्पृशन् ॥

5.160.102

किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम् ।
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥

5.160.103

प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै- रुदीच्यकाम्भोजशकैः खशैश्च ।
साल्वैः समत्स्यैः कुरुमध्यदेश्यै- र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥

5.160.104

नानाजनौघं युधि सम्प्रवृद्धं गाङ्गं यथा वेगमपारणीयम् ।
मां च स्थितं नानाबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥

5.160.105

अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम् ।
जानीमो हि रणे पार्थ केतुं दिव्यं च भारत ॥

5.160.106

अकत्थमानो युद्ध्यस्व कत्थसेऽर्जुन किं बहु ।
पर्यायात्सिद्धिरेतस्य नैतत्सिध्याति कत्थनात् ॥

5.160.107

यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय ।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥

5.160.108

जनामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् ।
जानाम्यहं त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि ॥

5.160.109

न तु पर्यायधर्मेम सिद्धिं प्राप्नोति मानवः ।
मनसैवानुकूलानि धातैव कुरुते वशे ॥

5.160.110

त्रयोदशसमा भुक्तं राज्यं विलपतस्तव ।
भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम् ॥

5.160.111

क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः ।
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन ॥

5.160.112

सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात् ।
न वै मोक्षस्तदा यो भूद्विना कृष्णमनिन्दितां ॥

5.160.113

सा वो दास्ये समापन्नान्मोचयामास पार्षती ।
अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् ॥

5.160.114

अवोचं यत्षण्डतिलानहं वस्तथयमेव तत् ।
धृता हि वेमी पार्थेन विराटनगरे तदा ॥

5.160.115

सूदकर्मणि च श्रान्तं विराटस्य महानसे ।
भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम् ॥

5.160.116

एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः ।
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि ॥

5.160.117

न भयाद्वासुदेवस्य न चापि तव फल्गुन ।
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥

5.160.118

न माया हीन्द्रजालं वा कुहका वापि भीषणा ।
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ॥

5.160.119

वासुदेवसहस्रं वा फाल्गुनानां शतानि वा ।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥

5.160.120

संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् ।
तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम् ॥

5.160.121

शारद्वतमहामीनं विविंशतिमहोरगम् ।
बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम् ॥

5.160.122

भीष्मवेगमपर्यन्तं द्रोणग्राहदुरसदम् ।
कर्णशल्यझषावर्तं काम्भोजबडबामुखम् ॥

5.160.123

दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् ।
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥

5.160.124

शश्त्रौघमक्षय्यमभिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः ।
भविष्यसि त्वं हतसर्वबान्धव- स्तदा मनस्ते परितापमेष्यति ॥

5.160.125

तदा मनस्ते त्रिदिवादिवाशुचे- र्निवर्तिता पार्थ महीप्रशासनात् ।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc