भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.158

5.158.1

एतस्मिन्नैव काले तु भीष्मकस्य महात्मनः ।
हिरण्यरोम्णो नृपतेः साक्षादिन्द्रसखस्य वै ॥

5.158.2

आकूतीनामधिपतिर्भोजस्यातियशस्विनः ।
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥

5.158.3

यः किम्पुरुषसिंहस्य गन्धमादनवासिनः ।
कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान् ॥

5.158.4

यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा ।
शार्ङ्गेण च महाबाहुः सम्मितं दिव्यलक्षणम् ॥

5.158.5

त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् . वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ।
शार्ङ्ग तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ॥

5.158.6

धारयामास तत्कृष्णः परसेनाभयावहम् ।
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ॥

5.158.7

द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ।
सञ्छिद्य मौरवान्पाशान्निहत्य मुरमोजसा ॥

5.158.8

निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ।
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ॥

5.158.9

प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ।
रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम् ॥

5.158.10

विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ।
नामृष्यत पुरा योऽसौ स्वबाहुलगर्वितः ॥

5.158.11

रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ।
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्ये जनार्दनम् ॥

5.158.12

ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरः ।
सेनया चतुरङ्गिण्या महत्या दूरपातया ॥

5.158.13

विचित्रायुधवर्मिण्या गङ्ग्येव प्रवृद्धया ।
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ॥

5.158.14

व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ।
यत्रैव कृष्णेन रणे निर्जितः परवीरहा ॥

5.158.15

तत्र भोजकटं नाम कृतं नगरमुत्तमम् ।
सैन्येन महता तेन प्रभूतगजवाजिना ॥

5.158.16

पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ।
स भोजराजः सैन्येन महता परिवारितः ॥

5.158.17

अक्षौहिण्या महावीर्यः पाण्डवान्क्षिप्रमागमत् ।
ततः स कवची धन्वी तली खङ्गी शरासनी ॥

5.158.18

रथेनादित्यवर्णेन प्रविवेश महाचमूम् ।
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ॥

5.158.19

युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ।
स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः ॥

5.158.20

प्रतिगृह्य तु तान्सर्वान्विश्रान्तः सहसैनिकः ।
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ॥

5.158.21

सहायोस्मि स्थितो युद्धे यदि भीतोसि पाण्डव ।
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥

5.158.22

न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन ।
हनिष्यामिरणे भागं यन्मे दास्यसि पाण्डव ॥

5.158.23

अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः ।
अथवा सर्व एवैते तिष्ठन्तु वसुधाधिपाः ॥

5.158.24

निहत्य समरे शत्रूंस्तव दास्यामि मेदिनीम् ।
इत्युक्तो धर्मराजस्य केशवस्य च सन्निधौ ॥

5.158.25

श्रृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः . वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् ।
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥

5.158.26

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥

5.158.27

तथा प्रतिभये तस्मिन्देवदानवसन्कुले ।
खाण्डवे युध्यमानस्य कः सहायस्तदावभवत् ॥

5.158.28

निवातकवचैर्युद्धे कालकेयैश्च दानवैः ।
तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥

5.158.29

तथा विराटनगरे कुरुभिः सह सङ्गरे ।
युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम ॥

5.158.30

उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् ।
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥

5.158.31

धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् ।
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥

5.158.32

कौरवामां कुले जातः पाण्डोः पुत्रो विशेषतः ।
द्रोणं व्यपदिशञ्छिष्यो वासुदेवसहायवान् ॥

5.158.33

कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीति यशोहरम् ।
वचनं नरशार्दूल वज्रायुधसमस्वनम् ॥

5.158.34

नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे ।
यथाकामं यथायोगं गच्छ वात्रैव तिष्ठ वा ॥
वैशम्पायन उवाच

5.158.35

तच्छ्रुत्वा वचनं तस्य विजयस्य च धीमतः . विनिवर्त्य ततो रुक्मी सेनां सागरसन्निभाम् ।
दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥

5.158.36

तथैव चाभिगम्यैनमुवाच वसुधाधिपः ।
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥

5.158.37

द्वावेव तु महाराज तस्माद्युद्धादपेयतुः ।
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिप ॥

5.158.38

गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा ।
उपाविशन्पाण्डवेया मन्त्राय पुनरेव च ॥

5.158.39

समितिर्धर्मराजस्य सा पार्थिवसमाकुला ।
शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc