भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.15

5.15.1

एवमुक्तः स भगवाञ्शच्या तां पुनरब्रवीत् ।
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ॥

5.15.2

विवर्द्धितश्च ऋषिभिर्हव्यकव्यैश्च भामिनि ।
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ॥

5.15.3

गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् ।
गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे ॥

5.15.4

ऋषियानेन दिव्येन मामुपैहि जगत्पते ।
एवं तव वशे प्रीता भविष्यामीति तं वद ॥

5.15.5

इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा ।
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ॥

5.15.6

नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत् ।
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ॥

5.15.7

भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि ।
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे ॥

5.15.8

न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः ।
सत्येन वै पशे देवि करिष्ये वचनं तव ॥
इन्द्राण्युवाच ।

5.15.9

यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते ।
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिम ॥

5.15.10

कार्यं च हृदि मे यत्तद्देवराजावधारय ।
वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि ॥

5.15.11

वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव ।
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा ॥

5.15.12

इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप ।
यन्न विष्णोर्न रुद्रस्य न सुराणां न रक्षसाम् ॥

5.15.13

वहन्तु त्वां महाभागा ऋषयः सङ्गता विभो ।
सर्वे शिबिकया राजन्नेतद्धि मम रोचते ॥

5.15.14

नासुरेषु न देवेषु तुल्यो भवितुमर्हसि ।
सर्वेषां तेज आदत्से स्वेन वीर्येण दर्शनात् ॥

5.15.15

न ते प्रमुखतः स्थातुं कश्चिच्छक्नोति वीर्यवान् ।
शल्य उवाच ।
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल ।
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ॥
नहुष उवाच ।

5.15.16

अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि ।
दृढं मे रुचिरं देवि त्वद्वशोऽस्मि वरानने ॥

5.15.17

न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् ।
अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः ॥

5.15.18

मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् ।
देवदानवगन्धर्वाः किन्नरोरगराक्षसाः ॥

5.15.19

न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते ।
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ॥

5.15.20

अहमिन्द्रोऽस्मि देवानां लोकानां च महेश्वरः । मयि हव्यं च कव्यं च लोकाश्चैव सनातनाः ।
तस्मात्ते वचनं देवि करिष्यामि न संशयः ॥

5.15.21

सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा ।
पश्य माहात्म्ययोगं मे ऋद्धिं च वरवर्णिनि ॥
शल्य उवाच ।

5.15.22

एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् . 5-15-22ब् अथ सञ्चिन्त्य नहुषो बलवीर्येण भारत ॥

5.15.23

विसृज्य सुप्रतीकं च नागमैरावतं तथा ।
हंसयुक्तं विमानं च हरियुक्तं तथा रथम् ॥

5.15.24

स तु दर्पेण महता परिभूय महामुनीन् । विमाने योजयित्वा च ऋषीन्नियमामास्थितान् ॥

5.15.25

अब्रह्मण्यो बलोपेतो मत्तो मदबलेन च ।
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ॥

5.15.26

नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत् ।
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ॥

5.15.27

शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् ।
बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् ॥

5.15.28

न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः ।
न ह्येष स्थास्यति चिरं गत एष नराधमः ॥

5.15.29

अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे ।
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः ॥

5.15.30

शक्रं चाधिगमिष्यामि माभैस्त्वं भद्रमस्तु ते ।
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः ॥

5.15.31

बृहस्पतिर्महातेजा देवराजोपलब्धये ।
हुत्वाऽग्निं सोब्रवीद्राजञ्छक्र अन्विष्यतामिति ॥

5.15.32

तस्माच्च भगवान्देवः स्वयमेव हुताशनः ।
स्त्रीवेषमद्भुतं कृत्वा तत्रैवान्तरधीयत ॥

5.15.33

स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च । पृथिवीं चान्तरिक्षं च विचित्याथ मनोगतिः ।
निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ॥
अग्निरुवाच ।

5.15.34

बृहस्पते न पश्यामि देवराजमिह क्वचित् ।
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ॥

5.15.35

न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते ।
तमब्रवीद्देवगुरुरपो विश महाद्युते ॥
अग्निरुवाच ।

5.15.36

नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति ।
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेस्तु महाद्युते ॥

5.15.37

अद्य्भोऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc