भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.143

5.143.1

केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् ।
अब्रवीदभिसम्पूज्य कृष्णं तं मधुसूदनम् ॥

5.143.2

जानन्मां किं महाबाहो सम्मोहयितुमिच्छसि ।
योयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः ॥

5.143.3

निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ।
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥

5.143.4

असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् ।
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥

5.143.5

राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥

5.143.6

स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन ।
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥

5.143.7

पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे ।
संसन्त इव वार्ष्णेय विविधा रोमहर्षणाः ॥

5.143.8

प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥

5.143.9

कृत्वा चाङ्गारको वक्रं ज्योष्ठायां मधुसूदन । अनुराधां प्रार्थयते मैत्रं सन्गमयन्निव ।

5.143.10

नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् ।
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥

5.143.11

सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च ।
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥

5.143.12

निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥

5.143.13

प्रादुर्भूतेषु चैतेषु भयमाहुरुपास्थितम् ।
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥

5.143.14

अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते ।
वाजिनां वारणानां च मनुष्याणां च केशव ॥

5.143.15

धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन ।
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥

5.143.16

प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते ।
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥

5.143.17

अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव ।
वाचश्चाप्यशरीरिण्यस्तकत्पराभवलक्षणम् ॥

5.143.18

मयूराः पुण्यशकुना हंससारसचातकाः ।
जीवञ्जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ॥

5.143.19

गृध्राः कङ्का बकाः श्येना यातुधानास्तथा वृकाः ।
मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान् ॥

5.143.20

धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निःस्वनः ।
अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥

5.143.21

उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा ।
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥

5.143.22

मांसशोणितवर्षं च वृष्टं देवेन माधव ।
तथा गन्धर्वनगरं भानुमत्समुपस्थितम् ॥

5.143.23

सप्राकारं सपरिखं सवप्रं चारुतोरणम् ।
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति ॥

5.143.24

उदयास्तमने सन्ध्ये वेदयन्ती महद्भयम् ।
शिवा च वाशते घोरं तत्पराभवलक्षणम् ॥

5.143.25

एकपक्षाक्षिचरणाः पक्षिणो मधुसूदन ।
उत्सृजन्ति महद्धोरं तत्पराभवलक्षणम् ॥

5.143.26

कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः ।
सन्ध्यामिमुखा यान्ति तत्पराभवलक्षणम् ॥

5.143.27

ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन ।
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥

5.143.28

पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा . आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ।

5.143.29

उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः ॥ प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव ।

5.143.30

महद्भयं वेदयन्ति तस्मिन्नुत्पातदर्शने ॥ सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः ।

5.143.31

अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥ श्वेतोष्णीषाश्च दृश्यन्ते सर्वे वै शुक्लवाससः ।

5.143.32

आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥ तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला ।

5.143.33

आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥ अस्थिसञ्चयमारूढश्चामितौजा यधिष्ठिरः ।

5.143.34

सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥ युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम् ।

5.143.35

उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः ।
गदापाणिर्नरव्याघ्रो ग्रसन्निव महीमिमाम् ॥

5.143.36

क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे ।
विदितं मे हृषीकेश श्रिया परमया ज्वलन् ॥

5.143.37

पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः ।
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥

5.143.38

यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः ।
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥

5.143.39

नकुलः सहदेवश्च सात्यकिश्च महारथः ।
शुक्लकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥

5.143.40

अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् ।
त्रय एते मया दृष्टाः पाण्डुरच्छत्रवाससः ॥

5.143.41

श्वेतोष्णीषाश्च दृश्यन्ते त्रय एते जनार्दन ।
धार्तराष्ट्रेषु सैन्येषु तान्विजानीहि केशव ॥

5.143.42

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥

5.143.43

उष्ट्रप्रयुक्तमारूढौ भीष्मद्रोणौ महारथौ ।
मया सार्धं महाबाहो धार्तराष्ट्रेण वा विभो ॥

5.143.44

अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन ।
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥

5.143.45

अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् ।
गाण्डिवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥
कृष्ण उवाच ।

5.143.46

अपस्थितविनाशेयं नूनमद्य वसुन्धरा ।
यथा हि मे वचः कर्ण नोपैति हृदयं तव ॥

5.143.47

सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥
कर्ण उवाच ।

5.143.48

अपि त्वां कृष्ण पश्यामो जीवन्तोऽस्मान्महारणात् ।
समुत्तीर्णा महाबाहो वीरक्षत्रविनाशनात् ॥

5.143.49

अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् ।
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥
वैशम्पायन उवाच ।

5.143.50

इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् ।
विसर्जितः केशवेन रथोपस्थादवातरत् ॥

5.143.51

ततः स्वरथामस्थाय जाम्बूनदविभूषितम् ।
महात्मा वै निववृते राधेयो दीनमानसः ॥

5.143.52

ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः ।
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc