भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.131

5.131.1

विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा ।
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥

5.131.2

एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन ।
परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥

5.131.3

इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः ।
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥

5.131.4

एवमुक्त्वा जाहासोच्चैः केशवः परवीरहा . तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ।
युगपच्च विनिष्पेतुः साक्षात्सर्वास्तु देवताः ॥

5.131.5

अङ्गुष्ठमात्रास्त्रिदशा बभूवुः पावकार्चिषः ।
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् ॥

5.131.6

लोकपाला भुजेष्वासन्नग्निरास्यादजायत ।
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि ॥

5.131.7

मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ।
बभूवुश्चैव यक्षाश्च गन्धर्वोरगराक्षसाः ॥

5.131.8

प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ ।
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥

5.131.9

भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः ।
अन्धका वृष्णयश्चैव प्रद्युम्नपरमुखास्ततः ॥

5.131.10

अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः ।
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ॥

5.131.11

अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च ।
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥

5.131.12

नेत्राभ्यां नासिकाभ्यां च श्रोत्राभ्यां च समन्ततः ।
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ॥

5.131.13

रोमकूपेषु च तथा सूर्यस्येव मरीचयः . सहस्रचरणः श्रीमाञ्शतबाहुः सहस्रदृक् ॥

5.131.14

तस्य वै नागलोकश्च गुल्फाधो ददृशे तदा ।
चन्द्रसूर्यौ तथा नेत्रे ग्रहः वै सर्वतः स्थिताः ॥

5.131.15

ऊर्ध्वलोकाश्च सर्वेऽपि कुक्षौ तस्य व्यवस्थिताः ।
सरितः सागराश्चैव स्वेदस्तस्य महात्मनः ॥

5.131.16

अस्थीनि पर्वताः सर्वे वृक्षा रोमाणि तस्य हि । निमेषणं रात्र्यहनी जिह्वायां शारदा तथा ॥

5.131.17

तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः ।
न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ॥

5.131.18

ऋत द्रोणं च भीष्मं च विदुरं च महामतिम् ।
सञ्जयं धृतराष्ट्रं च ऋषींश्चैव तपोधनान् ॥

5.131.19

प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ॥

5.131.20

धृतराष्ट्राय प्रददौ भगवान्दिव्यचक्षुषी ।
ददर्श परमं रूपं धृतराष्ट्रोऽम्बिकासुतः ॥

5.131.21

ततो देवाः सगन्धर्वाः किन्नराश्च महोरगाः . ऋषयश्च महाभागा लोकपालैः समन्विताः ।
प्रणम्य शिरसा देवं तुष्टुवुः प्राञ्जलिस्थिताः ॥

5.131.22

क्रोधं प्रभो संहर संहर स्वं रूपं च यद्दर्शितमात्मसंस्थम् ।
यावत्त्विमे देवगणैः समेता लोकाः समस्ता भुवि नाशमीयुः ॥

5.131.23

त्वं च कर्ता विकर्ता च त्वमेव परिरक्षसे ।
त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् ॥

5.131.24

कियन्मात्रा महीपालाः किंवीर्याः किम्पराक्रमाः . तेषामर्थे महाबाहो दिव्यं रूपं प्रदर्शिवान् ।
एवमुच्चारिता वाचः सह देवार्विभुं तदा ॥

5.131.25

तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले ।
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥
धृतराष्ट्र उवाच ।

5.131.26

त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो हितः ।
तस्मान्मे यादवश्रेष्ठ प्रसादं कर्तुमर्हसि ॥

5.131.27

भगवन्मम नेत्राभ्यामन्तर्धानं वृणे पुनः ।
भवन्तं दृष्टवानस्मि नान्यं द्रष्टुमिहोत्सहे ॥

5.131.28

ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन ॥

5.131.29

तत्राद्भुतं महाराज धृतराष्ट्रश्च चक्षुषी ।
लब्धवान्वासुदेवाच्च विश्वरूपदिदृक्षया ॥

5.131.30

लब्धचक्षुषमासीनं धृतराष्ट्रं नराधिपाः ।
विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम् ॥

5.131.31

चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे ।
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥

5.131.32

ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् ।
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः ॥

5.131.33

ततः सात्यकिमादाय पाणौ विदुरमेव च ।
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥

5.131.34

ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः ।
तस्मिन्कोलाहले वृत्ते तदद्भुतमिवाभवत् ॥

5.131.35

तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः ।
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतम् ॥

5.131.36

अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् ।
निश्चक्राम ततः शौरिः सधूम इव पावकः ॥

5.131.37

ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हेमजालविचित्रेण लघुना मेघनादिना ॥

5.131.38

सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना . शैब्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥ 5-131-39अतथैव रथमास्थाय कृतवर्मा महारथः . वृष्णीनां सम्मतो वीरो हार्दिक्यः समदृश्यत ॥

5.131.40

उपस्थितरथं शौरिं प्रयास्यन्तमरिन्दमम् ।
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥

5.131.41

यावद्बलं मे पुत्रेषु पश्यतस्ते जनार्दन ।
प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन ॥

5.131.42

कुरूणां शममिच्छन्तं यतमानं च केशव ।
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ॥

5.131.43

न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव ।
ज्ञातमेव हितं वाक्यं यन्मयोक्तः सुयोधनः ॥

5.131.44

जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः ।
शमे प्रयतमानं मां सर्वयत्नेन माधव ॥
वैशम्पायन उवाच ।

5.131.45

ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥

5.131.46

प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि ।
यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः ॥

5.131.47

वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः ।
आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ॥

5.131.48

आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ ।
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥

5.131.49

भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः ।
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥

5.131.50

ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
कुरूणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc