भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.11

5.11.1

ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदिवेश्वराः ।
अयं वै नहुपः श्रीमान्देवराज्येऽभिषिच्यताम् ॥

5.11.2

तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा ।
ते गत्वा त्वब्रुवन्सर्वे राजा नो भव पार्थिव ॥

5.11.3

स तानुवाच नहुषो देवानृपिगणांस्तथा ।
पितृभिः सहितान्राजन्परिप्सन्हितमात्मनः ॥

5.11.4

दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने ।
बलवाञ्ज्ञायतां कश्चिद्बलं शक्रे हि नित्यदा ॥

5.11.5

तमब्रुवन्पुनः सर्वे देवा ऋषिपुरोगमाः ।
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥

5.11.6

परस्परभयं घोरमस्माकं हि न संशयः ।
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥

5.11.7

देवदानवयक्षाणामृषीणां रक्षसां तथा । पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् ।

5.11.8

तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि ।
धर्मं पुरस्कृत्य सदा सरवलोकाधिपो भव ॥

5.11.9

ब्रह्मर्षीश्चापि देवांश्च गोपायस्व त्रिविष्टपे ।
शल्य उवाच ।
अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे ॥

5.11.10

धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत् ।
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे ॥

5.11.11

धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ।
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च ॥

5.11.12

कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते ।
सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥

5.11.13

अप्सरोभिः परिवृतो देवकन्यासमावृतः ।
नहुषो देवराजोऽथ क्रीडन्बहुविधं तदा ॥

5.11.14

श्रृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः ।
वादित्राणि च सर्वाणि गीतं च मधुरस्वनम् ॥

5.11.15

विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः ।
ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः ॥

5.11.16

मारुतः सुरभिर्वाति मनोज्ञः सत्वशीतलः ।
एवं विक्रीडतस्तस्य नहुषस्य दुरात्मनः ॥

5.11.17

सम्प्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया ।
स तां सन्दृश्य दुष्टात्मा प्राह सर्वान्सभासदः ॥

5.11.18

इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति ।
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः ॥

5.11.19

आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ।
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह ॥

5.11.20

रक्ष मां नहुषाद्ब्रह्मंस्त्वामस्मि शरणं गता ।
सर्वलक्षणसम्पन्नां ब्रह्मंस्त्वं मां प्रभाषसे ॥

5.11.21

देवराजस्य दयितामत्यन्तं सुखभागिनीम् ।
अवैधव्येन युक्तां चाप्येकपत्नीं पतिव्रदाम् ॥

5.11.22

उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ।
नोक्तपूर्वं च भगवन्मृषा ते किञ्चिदीश्वर ॥

5.11.23

तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम ।
बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् ॥

5.11.24

यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् ।
द्रक्ष्यसे देवराजं तमिन्द्रं शीघ्रमिहागतम् ॥

5.11.25

न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते ।
समानयिष्ये शक्रेण नचिराद्भवतीमहम् ॥

5.11.26

अथ शुश्राव नहुष इन्द्राणीं शरणीं गताम् ।
बृहस्पतेरङ्गिरसश्रुक्रोध स नृपस्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc