भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.105

5.105.1

गरुडस्तत्र शुश्राव यथावृत्तं महाबलः ।
आयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥

5.105.2

पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः ।
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ॥
गरुड उवाच ।

5.105.3

भगवन्किमवज्ञानाद्वृत्तिः प्रतिहता मम ।
कामकारवरं दत्त्वा पुनश्चलितवानसि ॥

5.105.4

निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे ।
आहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥

5.105.5

वृतश्चैष महानागः स्थापितः समयश्च मे ।
अनेन च मया देव भर्तव्यः प्रसवो महान् ॥

5.105.6

एतस्मिंस्तु तथाभूते नान्यं हिंसितुमुत्सहे ।
क्रीडसे कामकारेण देवराज यथेच्छकम् ॥

5.105.7

सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम ।
ये च भृत्या मम गृहे प्रीतिमान्भव वासव ॥
कण्व उवाच ।

5.105.8

श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा । त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत् ।
गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत् ॥
इन्द्र उवाच ।

5.105.9

न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि । दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना ।
श्रत्वा पुरन्दरेणोक्तमुवाच विनतासुतः ॥

5.105.10

एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् ।
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ॥

5.105.11

त्वयि तिष्ठति देवेश न विष्णुः कारणं मम ।
त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम् ॥

5.105.12

ममापि दक्षस्य सुता जननी कश्यपः पिता ।
अहमत्युत्सहे लोकान्समन्ताद्वोढुमोजसा ॥

5.105.13

असह्यं सर्वभूतानां ममापि विपुलं बलम् ।
मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे ॥

5.105.14

श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः ।
प्रस्रुतः कालकाक्षश्च मयाऽपि दितिजा हताः ॥

5.105.15

यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् ।
वहामि चैवानुजं ते तेन मामवमन्यसे ॥

5.105.16

कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः ।
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवं ॥

5.105.17

अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः ।
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥

5.105.18

अदित्यां य इमे जाता बलविक्रमशालिनः ।
त्वमेषां किल सर्वेषां बलेन बलवत्तरः ॥

5.105.19

सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः ।
विमृश त्वं शनैस्तात कोऽन्वत्र बलवानिति ॥
कण्व उवाच ।

5.105.20

स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम् ।
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥

5.105.21

गरुत्मन्मन्यसेत्मानं बलवन्तं सुदुर्बलम् ।
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥

5.105.22

त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे ।
अहमेवात्मनात्मानं वहामि त्वां च धारये ॥

5.105.23

न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् . इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह ।
यद्येनं धारयस्येकं सफलं ते विकत्थितम् ॥

5.105.24

इत्युक्त्वा भगवांस्तस्य स्कन्धे बाहुं समासजत् . आरोपितं समुद्वोढुं भारं तं नाशकद्बलात् ।
निपपात स भारार्तो विहलो नष्टचेतनः ॥

5.105.25

यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह ।
एकस्या देहशाखायास्तावद्भारममन्यत ॥

5.105.26

न त्वेनं पीडयामास बलेन बलवत्तरः ।
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ॥

5.105.27

व्यात्तास्यः स्रस्तकायश्च विचेता विह्वलः खगः ।
मुमोच पत्राणि तदा गुरुभारप्रपीडितः ॥

5.105.28

स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः ।
विचेता विह्वलो दीनः किञ्चिद्वचनमब्रवीत् ॥

5.105.29

भगवँल्लोकसारस्य सदृशेन वपुष्मता ।
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ॥

5.105.30

क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः ।
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥

5.105.31

न हि ज्ञातं बलं देव मया ते परम विभो ।
तेन मन्याम्यहं वीर्यमात्मनो न समं परैः ॥
कण्व उवाच ।

5.105.32

ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः ।
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ॥

5.105.33

पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि ।
ततः प्रभृति राजेन्द्र सहसर्पेण वर्तते ॥

5.105.34

एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः ।
गरुडो बलवान्राजन्वैनतेयो महायशाः ॥
कण्व उवाच ।

5.105.35

तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे ।
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ॥

5.105.36

भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः ।
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥

5.105.37

विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ ।
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः ॥

5.105.38

तदलं ते विरोधेन शमं गच्छ नृपात्मज ।
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ॥

5.105.39

प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः ।
माहात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधरः ॥
वैशम्पायन उवाच ।

5.105.40

दुर्योधनस्तु तच्छ्रुत्वा निश्वसन्भृकुटीमुखः ।
राधेयमभिसम्प्रेक्ष्य जहास स्वनवत्तदा ॥

5.105.41

कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः ।
ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ॥

5.105.42

यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः ।
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ॥

5.105.43

ततः कण्वोऽब्रवीत्क्रुद्धो दुर्योधनमपण्डितम् . यस्मादूकं ताडयसि ऊरौ मृत्युर्भविष्यति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc