भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.76

4.76.1

विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः ।
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥

4.76.2

प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये ।
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः ॥

4.76.3

उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन । प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे ।

4.76.4

वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे ॥

4.76.5

राजंस्त्वमसि सन्ग्रामे गृहीतस्तेन मोक्षितः ।
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया ॥

4.76.6

कुरवो निर्जिता यस्मात्सन्ग्रामेऽमिततेजसः ।
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः ॥

4.76.7

अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः ।
अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् ॥

4.76.8

पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः ।
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः ॥

4.76.9

तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः ॥

4.76.10

उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः . जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् ।
कुले च जन्म महति फल्गुनस्य च विक्रमम् ॥
वैशम्पायन उवाच ।

4.76.11

उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः ।
उत्तरं चापि सम्प्रेक्ष्य प्राप्तकालमचिन्तयत् ॥

4.76.12

ततो विराटः सामात्यः सहपुत्रः सबान्धवः । उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः ।
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः ॥
विराट उवाच ।

4.76.13

प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः ।
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः ॥

4.76.14

शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः ॥

4.76.15

यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः . अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा ।
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल ॥

4.76.16

यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव . सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव ।
वयं च सर्वे सामात्या भवन्तं शरणं गताः ॥
वैशम्पायन उवाच ।

4.76.17

तं धर्मराजः पतितं महीतले सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् ।
उवाच वाक्यं परलोकदर्शनः प्रनष्टमन्युर्गतशोकमत्सरः ॥

4.76.18

न मे भयं पार्थिव विद्यते मयि प्रतीतरूपोस्म्यनुचिन्त्य मानसम् ।
एतत्त्वया सम्यगिहोपपादितं द्विजैरमात्यैः सदृशैश्च पाण्डितैः . इमां च कन्यां समलन्कृतां भृशं समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम ॥

4.76.19

क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव ।
न चैव किञ्चित्पश्यामि विकृतं ते नराधिप ॥
वैशम्पायन उवाच ।

4.76.20

ततो विराटः परमामितुष्टः समेत्य राज्ञा समयं चकार ।
राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc