भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.7

4.7.1

स राजधानीं सम्प्राप्य पार्थिवोऽर्जुनमब्रवीत् । इमानि पुरुषव्याघ्र आयुधानि परन्तप ।
कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ॥ 1 ॥

4.7.2

सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि ।
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥ 2 ॥

4.7.3

गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम् ।
कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष ॥ 3 ॥

4.7.4

यदीद ॥ धनुरादाय चरेम सजने पुरे ।
क्षिप्र नः प्रतिजानीयुर्मनुष्या नात्र संशयः ॥ 4 ॥

4.7.5

एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च ।
भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् ॥ 5 ॥

4.7.6

तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा ।
प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् ॥ 6 ॥
वैशम्पायन उवाच ।

4.7.7

अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः ।
उवाच धर्मपुत्रं तमर्जुनः परवीरहा ॥ 7 ॥

4.7.8

इयं वने मनुष्येन्द्र महती दृश्यते शमी ।
भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥ 8 ॥

4.7.9

उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते ।
विपुलाऽकीर्णशाखा च वायसैरुपसेविता ॥ 9 ॥

4.7.10

स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ॥ 10 ॥

4.7.11

समीपे च श्मशानस्य गृहं नास्य विशेषतः ।
समासज्यायुधान्यस्यां गच्छामो नगरं नृप ॥ 11 ॥

4.7.12

न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ॥ 12 ॥

4.7.13

धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम् । उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् ।
अस्यामायुधमासज्य गच्छाम नगरं वयम् ॥ 13 ॥

4.7.14

एवं परिहरिष्यन्ति मनुष्या वनचारिणः ।
अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ॥ 14 ॥
वैशम्पायन उवाच ।

4.7.15

एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः ।
प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ ॥ 15 ॥

4.7.16

तानि सर्वाणि सन्नह्य पञ्च पञ्चाचलोपमाः ।
आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ॥ 16 ॥

4.7.17

ततो युधिष्ठिरो राजा सहदेवमुवाच ह ।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ 17 ॥

4.7.18

इति सन्दिश्य तं पार्थः पुनरेव धनञ्जयम् ।
अब्रवीदायुधानीह निधातुं भरतर्षभः ॥ 18 ॥
वैशम्पायन उवाच ।

4.7.19

येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् . निवातकवचांश्चापि पौलोमांश्च परन्तपः ।
कालकेयांश्च दुर्धाषान्सर्वांश्चैकरथोऽजयत् ॥ 19 ॥

4.7.20

स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः । तदुदग्रं महाघोरं सपत्नगणमूदनम् ।
अपज्यमकरोत्पार्थो गाण्डीवं च भयन्करम् ॥ 20 ॥

4.7.21

येन वीरः कुरुक्षेत्रमभ्यरक्षत्परन्तपः ।
जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः ॥ 21 ॥

4.7.22

धर्मपुत्रो महातेजाः सर्वलोकवशन्करम् ।
भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् ॥ 22 ॥

4.7.23

वित्रासनं दानवानां राक्षसानां च नित्यशः ।
धनूरत्नं महातेजा जृम्भयामास पाण्डवः ॥ 23 ॥

4.7.24

पाञ्चालान्येन सन्ग्रामे भीमसेनोऽजयत्पुरा ।
प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये ॥ 24 ॥

4.7.25

निशम्य यस्य विष्कारं विद्रवन्ति रणे परे ।
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥ 25 ॥

4.7.26

सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् ।
येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने ॥ 26 ॥

4.7.27

दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः ।
त्रिगर्तान्येन सन्ग्रामे जित्वा त्रैगर्तमानयत् ॥ 27 ॥

4.7.28

इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् ।
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥ 28 ॥

4.7.29

नकुलं पुनराहूय धर्मराजो युधिष्ठिरः ।
उवाच येन सन्ग्रामे सर्वशत्रूञ्जिघांससि ॥ 29 ॥

4.7.30

सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् ।
सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ॥ 30 ॥

4.7.31

तवानुरूपं सुकृतं चापमेतदलङ्कृतम् ।
तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ 31 ॥
वैशम्पायन उवाच ।

4.7.32

अजयत्पश्चिमामाशां धनुषा येन पाण्डवः ।
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ॥ 32 ॥

4.7.33

तस्य मौर्वीमपाकर्षच्छूरः सन्क्रन्दनो युधि ।
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ॥ 33 ॥

4.7.34

सहदेवं च सम्प्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत् ।
कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ॥ 34 ॥

4.7.35

येनैव शत्रून्समरे अधाक्षीररिमर्दन ।
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ 35 ॥
वैशम्पायन उवाच ।

4.7.36

दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः ।
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥ 36 ॥

4.7.37

दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् . विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि ।
आयुधानि कलापांश्च गदाश्च निदधुः सह ॥ 37 ॥

4.7.38

अथाब्रवीद्धर्मराजः सहदेवं परन्तपः ।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ 38 ॥

4.7.39

इदं गोमृगमभ्याशे गतसत्वमचेतनम् ।
एतदुत्कृत्य वै वीर धनूम्पि परिवेष्टय ॥ 39 ॥

4.7.40

एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् ।
शमीमारुह्य त्वरितो धनूम्पि परिवेष्टयत् ॥ 40 ॥

4.7.41

शीतवातातपभयाद्वर्पत्राणाय दुर्जयः । तानि वीरो यथा जानन्निरावाधानि सर्वशः ।
पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् ॥ 41 ॥

4.7.42

यत्र चापश्यत स वै तिरोवर्पाणि वर्पति ।
तत्र तानि दृढैः पाशैः सुगाढं पर्यवन्धत ॥ 42 ॥

4.7.43

ततः परमदूरस्थमुञ्छवृत्तिकलेवरम् ।
प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् ॥ 43 ॥

4.7.44

तच्चानीय धनुर्मध्ये निबबन्धु पाण्डवाः ।
उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् ॥ 44 ॥

4.7.45

अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः ।
दूरात्परिहरिष्यन्ति सशवेयं शमी इति ॥ 45 ॥

4.7.46

अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः ।
रञ्जुभिः सुकृतं प्राज्ञ विनिर्वध्नीहि पाण्डव ॥ 46 ॥

4.7.47

यानि चात्र विशालानि रूढमूलानि मन्यसे ।
तेपामुपरि बध्नीहि इदं विप्रकलवरम् ॥ 47 ॥
वैशम्पायन उवाच ।

4.7.48

तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् ॥ 48 ॥

4.7.49

युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च ।
ब्रह्माणामिन्द्रं वरदं कुबेरं वरुणानिलौ ॥ 49 ॥

4.7.50

रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च . पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा ।
वसूश्चं मरुतश्चैव ज्वलनं चातितेजसम् ॥ 50 ॥

4.7.51

दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि ।
तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेपां शरणं गतोऽहम् ॥ 51 ॥

4.7.52

सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै ।
न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् ॥ 52 ॥

4.7.53

एष न्यासो मया दत्तः सोममूर्यानिलान्तिके ।
मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे ॥ 53 ॥

4.7.54

नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः । आमर्षान्नित्यसन्क्रुद्धो धृतराष्ट्रसुतान्प्रति ।
अपूर्णकाले प्रहरेत्क्रोधसञ्जातमत्सरः ॥ 54 ॥

4.7.55

पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा ।
समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे ॥ 55 ॥

4.7.56

एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः ।
मदायत्तमिदं सर्वं जीवितं च न संशयः ॥ 56 ॥

4.7.57

वैशम्पायन उवाच ।

4.7.57

दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम् ।
नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह ॥ 57 ॥

4.7.58

आगोपालाविपालेभ्यः कर्षकेभ्यः परन्तप ।
आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः ॥ 58 ॥

4.7.59

अशीतिशतवर्पेयं माताऽस्माकमिहान्तिके . बहुकालपरीणामा मृत्योस्तु वशमेयुपी ।
न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः ॥ 59 ॥

4.7.60

यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया ।
तमेवमृचुर्धर्मज्ञाः कुलधर्मो न ईदृशः ॥ 60 ॥

4.7.61

विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् ।
स्वर्गतेयमिहास्माकं जननी शोकविह्वला ॥ 61 ॥

4.7.62

वने विचरमाणानां लुब्धानां वनचारिणाम् ।
कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा ॥ 62 ॥

4.7.63

एवं ते सुकृतं कृत्वा समन्तादवघुष्य च ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि ॥ 63 ॥

4.7.64

युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा ।
ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा ॥ 64 ॥

4.7.65

मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा ।
अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् ॥ 65 ॥

4.7.66

अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः . जयो जयेशो विजयो जयत्सेनो जयद्बलः ।

4.7.67

आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् ॥ 66 ॥ ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् ।

4.7.68

अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥ 67 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc