भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.57

4.57.1

अश्वत्थामा ततस्तत्र कर्णं सम्प्रेक्ष्य वीर्यवान् ।
उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् ॥

4.57.2

कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे ।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥

4.57.3

एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः ।
सन्ग्रामशिरसो मध्ये दृम्भते केसरी यथा ॥

4.57.4

शूरोसि यदि सन्ग्रामे दर्शयस्व सभां विना ॥

4.57.5

यद्यशक्तोसि सन्ग्रामे पार्थेनाद्भुतकर्मणा । पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता ।
मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् ॥
वैशम्पायन उवाच ।

4.57.6

एवमुक्तस्तथा कर्णः क्रोधादुद््वृत्य लोचने ।
द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ ॥

4.57.7

नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥

4.57.8

सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् ।
गर्जतां जायते दर्पः स्वरश्च न विषीदति ॥

4.57.9

पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा ।
युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः ॥
वैशम्पायन उवाच ।

4.57.10

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः ॥

4.57.11

महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः ।
उवाच स महाराज राजा दुर्योधनस्तदा ॥

4.57.12

न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि ।
तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु ॥

4.57.13

एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु ।
अयशो नातिवर्तेत लोकयोरुभयोरपि ॥

4.57.14

किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम् ।
तस्मात्पार्थेन सन्ग्रामं कुर्महे न पलायनम् ॥

4.57.15

एतावदुक्त्वा राजा वै ह्यभियानमियेष सः । तथा दशसहस्राणि वीराणां हि धनुष्मताम् ।
अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् ॥

4.57.16

वर्मिता वाजिनस्तत्र सम्भृताश्च पदातिभिः . भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः ।

4.57.17

अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः ।
अभ्यद्रवन्सुसन्क्रुद्धाश्चापहस्तोद्यतायुधाः ॥

4.57.18

पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन् ।
द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् ॥

4.57.19

अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः ।
इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥

4.57.20

ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनञ्जयम् ।
शरौघानभिवर्षन्तो नादयन्तो दिशो दश ॥

4.57.21

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् ॥

4.57.22

यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ।
तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः ॥

4.57.23

न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम् ।
अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम् ॥

4.57.24

दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च । शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात् ।
ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया ॥

4.57.25

इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके । दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ ।
न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा ॥

4.57.26

समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान् । वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् ।
त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि ।

4.57.27

कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः ।
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ॥

4.57.28

तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः ।
तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः ॥

4.57.29

अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः ।
पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् ॥

4.57.30

सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च ।
छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः ॥

4.57.31

ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश ।
रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः ॥

4.57.32

निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः ।
शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः ॥

4.57.33

चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान् ।
मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः ॥

4.57.34

कौरवाणां गजानां च शरीरैर्गतचेतसाम् ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् ॥

4.57.35

अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव ।
बडबामुखसम्भूतः कालाग्निरिव संवृतः ॥

4.57.36

यथा युगान्तसमये सर्वं स्थावरजङ्गमम् ।
कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी ॥

4.57.37

तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च ।
दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले ॥

4.57.38

रणे शक्तिममित्राणां प्रणीयोपनिनाय सः ।
चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव ॥

4.57.39

सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे . शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् ।
दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् ॥

4.57.40

खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव ।
अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः ॥

4.57.41

अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना ।
तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु ॥

4.57.42

वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् ।
किरीटं सूर्यसन्काशं वैयाघ्रमथ चर्म च ॥

4.57.43

ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः ।
नीहारेणेव भूतानि छन्नानीह चकाशिरे ॥

4.57.44

सकृदेव न तं शेकुः कथमभ्यसितुं परे ।
अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् ॥

4.57.45

तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे ।
द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा ॥

4.57.46

स तद्धि क्षोभयामास विगाह्यारिबलं रथी ।
अनन्तवेगो भुजगः क्रीडन्निव महार्णवे ॥

4.57.47

अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा ।
सन्नादः श्रूयते भूतैर्धनुषश्च किरीटिनः ॥

4.57.48

सञ्च्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः ।
संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः ॥

4.57.49

दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः ।
सततं दृश्यते युद्धे सायकासनमण्डलम् ॥

4.57.50

पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन ।
नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः ॥

4.57.51

महागजसहस्रस्य युगपन्मृद्गतो वनम् ।
कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् ॥

4.57.52

नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह ।
हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे ॥

4.57.53

घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे ।
कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः ॥

4.57.54

कुरुसेनाशरीराणि पार्थेनानाहतान्यपि ।
पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् ॥

4.57.55

ओषधीनां शिरांसीव कालपक्तिसमन्वयात् ।
अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् ॥

4.57.56

चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि ॥

4.57.57

अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित् ।
चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् ॥

4.57.58

लोहितेनापि सम्पृक्तैः पांसुभिः पवनोद्धतैः ।
तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः ॥

4.57.59

लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः ।
लोहितेषु निमग्नास्ते निहताश्च किरीटिना ॥

4.57.60

बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः ।
आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं ॥

4.57.61

अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः ।
निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः ॥

4.57.62

तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान् ।
दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् ॥

4.57.63

स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत् ।
अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः ॥

4.57.64

दुःसहं दशभिर्बाणैरर्जुनः समविध्यत . दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः ।
भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे ॥

4.57.65

स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च ।
वासविर्द्विषतां मध्ये विव्याध परमेषुणा ॥

4.57.66

स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः ।
अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना ॥

4.57.67

ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः . सारथेश्च शिरः कायादपाहरदरिन्दमः ।
अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् ॥

4.57.68

तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे ।
हताश्वसूते विरथे ततोऽनीकमभज्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc