भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.54

4.54.1

तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।
उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ॥

4.54.2

ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥

4.54.3

त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः ।
सन्नामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ॥

4.54.4

राजानं नात्र पश्यामि रथानीके व्यवस्थितम् ।
दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः ॥

4.54.5

उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम् ।
गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ॥

4.54.6

गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय . यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ॥
वैशम्पायन उवाच ।

4.54.7

इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ॥

4.54.8

ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम् ।
द्वाभ्यान्द्वाभ्यां तथाऽचार्यं द्रोणं प्रथमतः क्रमात् ॥

4.54.9

द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत् ।
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् ॥

4.54.10

महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् . न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् ।
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ॥

4.54.11

एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते ।
मेघःक सविद्युत्स्तनितो रोरवीति च वानरः ॥

4.54.12

आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ॥

4.54.13

अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् ।
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ॥

4.54.14

दारयन्निव तेजस्वी वसुधां वासवात्मजः . एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः ।

4.54.15

श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ॥ इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ ।

4.54.16

रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ॥ इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः ।

4.54.17

संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ॥ चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः ।

4.54.18

अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ॥ निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् ।

4.54.19

अभिवादयते पार्थः पूजयन्मामरिन्दमः ॥ अमर्षेण हि सम्पूर्णो दुःखेन प्रतिबोधितः ।

4.54.20

अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ॥ द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च ।

4.54.21

ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ॥ रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी ।

4.54.22

खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc