भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.5

4.5.1

कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ ।
मम चापि यथा बुद्धिरुचिता हि विनिश्चयात् ॥

4.5.2

पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु ।
सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥

4.5.3

इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् ।
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥

4.5.4

इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका ।
पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह ॥

4.5.5

सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः . अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि ।
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति ॥
वैशम्पायन उवाच ।

4.5.6

एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक् ।
धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत् ॥

4.5.7

तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् ।
धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान् ॥
धौम्य उवाच ।

4.5.8

विदितं वै यथा सर्वं लोके वृत्तमिदं नृप ।
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ॥

4.5.9

अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत । हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः ।
यथा राजकुलं प्राप्य चरन्प्रोष्य न रिष्यति ॥

4.5.10

दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि ।
अमानितेन मानार्ह गूढेन परिवत्सरम् ॥

4.5.11

दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत् ।
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ॥

4.5.12

तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् ॥

4.5.13

असूयन्ति हि राजानो जनाननृतवादिनः ।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥

4.5.14

विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि ।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥

4.5.15

पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान ।
भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः ॥

4.5.16

सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् ।
राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत ॥

4.5.17

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत मेधावी कृशानपि कदाचन ॥

4.5.18

एतत्रयं च पुरुषं निर्दहेदवमानितम् ।
राजा तस्माद्बुधैर्नित्यं पूजनीयः प्रयत्नतः ॥

4.5.19

नातिवर्तेत मर्यादां पुरुषो राजसम्मतः ।
व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः ॥

4.5.20

न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम ।
समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः ॥

4.5.21

गच्छन्नपि परां भूतिं भूमिपालनियोजितः ।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥

4.5.22

धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् ।
तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः ॥

4.5.23

यत्रोपविष्टः सन्कल्पं नोपहन्याद्बलीयसः ।
तदासनं राजकुले ईप्सेत पुरुषो वसन् ॥

4.5.24

यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् ।
न तत्रोपविशेज्जातु यो राजवसतिं वसेत् ॥

4.5.25

स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ ।
न त्वेवासनमन्यस्य प्रार्थयेत कदाचन ॥

4.5.26

परासनगतं ह्येनं परस्य परिचारकाः ।
परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः ॥

4.5.27

नित्यं विप्रतिषिद्धं तत्पुरस्तादासनं मतम् ।
अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते ॥

4.5.28

दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः । तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः ।
राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते ॥

4.5.29

मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः ।
सन्ग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत् ॥

4.5.30

पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत् ।
नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान् ॥

4.5.31

नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा ।
आरोहेत्सम्मतोऽस्मीति यो राजवसतिं वसेत् ॥

4.5.32

यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् ।
उत्थाने नित्यसन्कल्पो निस्तन्द्रीः सन्घतात्मवान् ॥

4.5.33

परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् ।
दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत् ॥

4.5.34

अन्येषु प्रेष्यमाणेषु पुरस्ताद्धीर उत्पतेत् ।
करिष्याम्यहमित्येव यः स राजसु सिध्यति ॥

4.5.35

उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा ।
आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति ॥

4.5.36

नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः . मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः ।
ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति ॥

4.5.37

नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः ।
समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत् ॥

4.5.38

अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा ।
दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् ॥

4.5.39

इतिहासपुराणज्ञः कुशलः सत्कथासु च ।
वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत् ॥

4.5.40

न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् ।
यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम् ॥

4.5.41

नैषां कर्मसु संयुक्तो धनं किञ्चिदुपस्पृशेत् ।
प्राप्नुयादाददानो वा बन्धं वा वधमेव वा ॥

4.5.42

हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः ।
अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति ॥

4.5.43

श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि ।
पापीयांसं प्रकुर्वीरञ्शीलमेषां तथाविधम् ॥

4.5.44

नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथञ्चन ।
रक्षणं तु न सेवेत यो राजवसतिं वसेत् ॥

4.5.45

यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् ।
बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः ॥

4.5.46

शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः ।
जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः ॥

4.5.47

हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित् ।
नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत् ॥ 47 ॥

4.5.48

हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् ।
तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः ॥

4.5.49

अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः ।
वर्तमानं यथावच्च कुत्सयेयुरसंशयम् ॥

4.5.50

तस्माद्गम्भीरमात्मानं कृत्वा हर्षं नियम्य च ।
नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः ॥

4.5.51

यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम् ।
एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत् ॥

4.5.52

या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम् ।
उभयेषां समस्तानां शृणु राजोपजीविनाम् ॥

4.5.53

न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा ।
अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम् ॥

4.5.54

मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत् ।
अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः ॥

4.5.55

अराजानं हि रत्नानि राजकान्तानि राजवत् ।
भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम् ॥

4.5.56

तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता ।
तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् ॥

4.5.57

न चापत्येन सम्प्रीतिं राज्ञः कुर्वीत केनचित् ।
अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत् ॥

4.5.58

एतां हि सेवमानस्य नरसीमां चतुर्विधाम् ।
द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः ॥

4.5.59

एतैस्तु विपरीता या नरसीमा नराधमैः ।
तथा कुर्वीत संसर्गं न विरोधं कथञ्चन ॥

4.5.60

बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः ।
साधु मन्येत संसर्गं न विरोधं कथञ्चन ॥

4.5.61

ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः ।
प्रथमं छिद्यते मूलं द्वितीयं जायते भयम् ॥

4.5.62

उद्धतानां च यो वेषः कुहकानां च यो भवेत् . राजवेषं च विस्पष्टं सेवमानो न वर्धते ।
इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः ॥

4.5.63

अपुम्भिश्चैव पुम्भिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः ।
शक्ये सति न सम्भाषां जातु कुर्वीत कर्हिचित् ॥

4.5.64

प्रतिसम्भाषमाणो हि त्रिभिरेतैरचेतनः ।
श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः ॥

4.5.65

ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव ।
तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित् ॥

4.5.66

न चान्याचरितां भूमिमसन्दिष्टो महीपतेः ।
उपसेवेत मेधावी यो राजवसतिं वसेत् ॥

4.5.67

न च सन्दर्शने राज्ञां प्रबन्धमभिसञ्जपेत् ।
अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥

4.5.68

अर्थकामा च या नारी राजानं स्यादुपस्थिता ।
अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः ॥

4.5.69

तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः ।
तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः ॥

4.5.70

न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता ।
स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम् ॥

4.5.71

न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत् ।
न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत् ॥

4.5.72

भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम् ।
न च गाढं विजृम्भेत जातु राज्ञः समीपतः ॥

4.5.73

न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च ।
स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः ॥

4.5.74

अथ सन्दृश्यमानेषु प्रियेषु च हितेषु च ।
श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा ॥

4.5.75

न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत् ।
पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत् ॥

4.5.76

अप्रमत्तो हि राजानं रञ्जयेच्छीलसम्पदा ।
उत्थानेन तु मेधावी शौचेन विविधेन च ॥

4.5.77

स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते ।
असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते ॥

4.5.78

राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥

4.5.79

तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः ।
मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम् ॥

4.5.80

कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम् ॥

4.5.81

एष वः समुदाचारः समुद्दिष्टो यथाविधि ।
यथार्थान्सम्प्रपत्स्यन्ते पार्थ राजोपजीविनः ॥

4.5.82

संवत्सरमिमं तावदेवंशीला बुभूषथः ।
ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥
वैशम्पायन उवाच ।

4.5.83

तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम् ।
प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परन्तपाः ॥

4.5.84

तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत् ।
भवाय राज्यलाभाय वीर्याय विजयाय च ॥

4.5.84

ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च ।
स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च ॥

4.5.85

स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान् । इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता ।

4.5.86

युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc