भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.29

4.29.1

कीचके तु हते राजा विराटः परवीरहा ।
शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः ॥ 1 ॥

4.29.2

कीचकस्य वधं घोरं सानुजस्य विशाम्पते ।
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ॥ 2 ॥

4.29.3

तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः ।
वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः ॥ 3 ॥

4.29.4

साम्पराये परिक्रुष्टो बलवान्दुर्जयो रणे । आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः ।
स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि ॥ 4 ॥

4.29.5

इत्यजल्पन्महाराज कीचकस्य विनाशनम् ।
देशेदेशे मनुष्याश्च विस्मितः कीचके हते ॥ 5 ॥

4.29.6

अथ वैः धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।
मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च ॥ 6 ॥

4.29.7

संविधाय यथाऽदिष्टं यथादेशं प्रदर्शकाः ।
कृतसन्केतनाः सर्वे न्यवर्तन्त पुरं ततः ॥ 7 ॥

4.29.8

आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम् ।
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ॥ 8 ॥

4.29.9

द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ।
सन्गतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः ॥ 9 ॥

4.29.10

प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा ।
आसीनं सूर्यसन्काशे काञ्चने परमासने ॥ 10 ॥

4.29.11

उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् ।
विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः ॥ 11 ॥

4.29.12

अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः ।
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥ 12 ॥

4.29.13

कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा ।
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥ 13 ॥

4.29.14

निर्जने व्यालसन्कीर्णे नानाभ्रमरसन्कुले ।
लताप्रतानगहने नानागुल्मसमावृते ॥ 14 ॥

4.29.15

न च विद्मो गता येन पार्थाः सुदृढविक्रमाः ।
मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च ॥ 15 ॥

4.29.16

गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च ।
जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च ॥ 16 ॥

4.29.17

नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान् ।
अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ ॥ 17 ॥

4.29.18

गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु ।
नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च ॥ 18 ॥

4.29.19

गह्वरेषु च दुर्गेषु ग्रामेषू पवनेषु च ।
दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च ॥
गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे ॥ 19 ॥

4.29.20

वत्मन्यन्विच्छमानास्तु रथानां रथिसत्तम ।
कञ्चित्कालं मनुष्येन्द्र सूताननुगता वयम् ॥ 20 ॥

4.29.21

मृगयित्वा यथान्यायं विदितार्थाश्च तत्वतः ।
प्राप्ता द्वारवतीं सूता विना पार्थैः परन्तप ॥ 21 ॥

4.29.22

न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः ।
नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान् ॥ 22 ॥

4.29.23

निर्वृतो भव नष्टास्ते स्वस्थो भव परन्तप ।
सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ ॥ 23 ॥

4.29.24

सर्वा च पृथिवी कृत्स्ना सशैलवनकानना . सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता ।
अन्वेषिता च सर्वत्र न च पश्यामा पाण्डवान् ॥ 24 ॥

4.29.25

पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशाम्पते ।
अन्वेषणे पाण्डवानां भूयः किं करवामहे ॥ 25 ॥

4.29.26

इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु ॥ 26 ॥

4.29.27

येन त्रिगर्ता निहता बलेन बहुशो नृप । सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा ।
स हतः पतितः शेते गन्धर्वैर्निशि भारत ॥ 27 ॥

4.29.28

स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः ।
सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः ॥ 28 ॥

4.29.29

उत्साहवान्महावीर्यो नीतिमान्बलवानपि ।
युद्धज्ञो रिपुवीर्यघ्नःक सिंहतुल्यपराक्रमः ॥ 29 ॥

4.29.30

प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान् ।
विजितारिर्महायुद्धे प्रचण्डो मानतत्परः ॥ 30 ॥

4.29.31

नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः ।
पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः ॥ 31 ॥

4.29.32

स हतो निशि गन्धैर्वः स्त्रीनिमित्तं नराधिप । अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः ।
सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः ॥ 32 ॥

4.29.33

गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी ।
सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद्बली ॥ 33 ॥

4.29.34

इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि ॥ 34 ॥

4.29.35

बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः । अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति ।
चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः ॥ 35 ॥

4.29.36

निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह ।
एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप ॥ 36 ॥

4.29.37

प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् ।
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥ 37 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc