भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.26

4.26.1

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ॥ 1 ॥

4.26.2

नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः ।
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥ 2 ॥

4.26.3

मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति ।
कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ॥ 3 ॥
वैशम्पायन उवाच ।

4.26.4

एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः ।
अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ॥ 4 ॥

4.26.5

अवदातेन मृदुना पटेनाच्छादितस्तथा ।
द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ॥ 5 ॥

4.26.6

स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् ।
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥ 6 ॥

4.26.7

कीचकस्तु शिरःस्नातो निशायां समलन्कृतः ।
सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ॥ 7 ॥

4.26.8

तदेव नर्तनागारं पाञ्चाली यदभाषत ।
तां मन्यमानः सन्केते सैरन्ध्रीं काममोहितः ॥ 8 ॥

4.26.9

प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम् ।
पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् ॥ 9 ॥

4.26.10

शयानं शयने तत्र मृत्युं मूढः परामृशत् ।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ॥ 10 ॥

4.26.11

एकान्ते भीममासाद्य कीचकः कालचोदितः ।
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥ 11 ॥

4.26.12

प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते ।
त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ॥ 12 ॥

4.26.13

अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः ।
बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ॥ 13 ॥

4.26.14

अहं रूपेण सम्पन्नः स्नातो गुरुविभूषितः । नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः ।
रूपस्य तन्मया प्राप्तं फलं कमललोचने ॥ 14 ॥
भीम उवाच ।

4.26.15

दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽत्मानं प्रशंससि ॥ 15 ॥

4.26.16

त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता । अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज ।
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता ॥ 16 ॥

4.26.17

उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि ।
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥ 17 ॥

4.26.18

स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः ।
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ॥ 18 ॥
वैशम्पायन उवाच ।

4.26.19

इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः ।
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ॥ 19 ॥

4.26.20

अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि ।
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ॥ 20 ॥

4.26.21

निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति ।
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ॥ 21 ॥

4.26.22

ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ 22 ॥

4.26.23

गृहीत्वा कीचकं भीमो विरराज महाबलः ।
गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा ॥ 23 ॥

4.26.24

स केशेषु परामृष्टो बलेन बलिनां वरः ।
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥ 24 ॥

4.26.25

बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः ।
वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव ॥ 25 ॥

4.26.26

कीचकानां तु मुख्यस्य नराणामुत्तमस्य च ।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ 26 ॥

4.26.27

शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ ।
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ ॥ 27 ॥

4.26.28

गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ ।
वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ ॥ 28 ॥

4.26.29

ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् ।
कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि ॥ 29 ॥

4.26.30

पातितो भीमसेनस्तु कीचकेन बलीयसा ।
उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥ 30 ॥

4.26.31

स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ ।
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये ॥ 31 ॥

4.26.32

ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम् ।
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः ॥ 32 ॥

4.26.33

तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली ।
कीचको रोषरक्ताक्षो न चचाल पदात्पदम् ॥ 33 ॥

4.26.34

मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः ।
कीचको भीमसेनेन पश्चात्पश्चादहीयत ॥ 34 ॥

4.26.35

तं हीयमानं विज्ञाय भीमसेनो महाबलः ।
वक्षस्यानीय वेगेन प्रममाथ विचेतसम् ॥ 35 ॥

4.26.36

क्रोधाविष्टो विनिश्चस्य पुनश्चैनं वृकोदरः ।
जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा ॥ 36 ॥

4.26.37

गृहीत्वा कीचकं भीमो विरराज महाबलः ।
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् ॥ 37 ॥

4.26.38

पुनश्चातिबलस्तत्र कीचको बलदर्पितः ।
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना ॥ 38 ॥

4.26.39

मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम् ।
कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि ॥ 39 ॥

4.26.40

आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् ।
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः ॥ 40 ॥

4.26.41

स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् ॥ 41 ॥

4.26.42

तत्राग्निं स्वयमुज्ज्वाल्य पाणिसन्घर्षजं बली ।
कष्णायै दर्शयामास भीमसेनो महाबलः ॥ 42 ॥

4.26.43

उवाच च महातेजा द्रौपदीं योषितां वराम् । त्वयि कामुकमत्यन्तं पापिनं पारदारिकम् ।
पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः ॥ 43 ॥

4.26.44

प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् . एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा ।
यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च ॥ 44 ॥

4.26.45

एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा ।
विज्ञापनार्थमन्येषां विरराम महाहवम् ॥ 45 ॥

4.26.46

तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम् ।
आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् ॥ 46 ॥

4.26.47

स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम् ।
सुखोपविष्टः शयने भीमो भीमपराक्रमः ॥ 47 ॥

4.26.48

ततः कृष्णा यदा मेने गतं भीमं महानसम् . कीचकं घातयित्वा च द्रौपदी योषितां वरा ।
प्रहृष्टा गतसन्त्रासा सभापालानुवाच ह ॥ 48 ॥

4.26.49

कीचको निहतः शेते गन्धर्वैः पतिभिर्मम ।
परस्त्रीकामसन्तप्तं समागच्छन्त पश्यत ॥ 49 ॥

4.26.50

तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः ।
सहसैव समुत्तस्थुरुल्कामादाय सर्वशः ॥ 50 ॥

4.26.51

तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः । ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम् ।
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥ 51 ॥

4.26.52

पार्ष्णिपामिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् ॥ 52 ॥

4.26.53

क्वास्य ग्रीवा क्व चरमौ क्व पामी क्व शिरः क्व दृक् ।
इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा ॥ 53 ॥

4.26.54

अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् ।
निरीक्षन्ते ततः सर्वे परं विस्मयमागताः ॥ 54 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc