भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.23

4.23.1

अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि ।
वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ 1 ॥

4.23.2

विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप ।
आसे कालमुपासीना सर्वदुःखसहा पुनः ॥ 2 ॥

4.23.3

अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च ।
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 3 ॥

4.23.4

चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च ।
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 4 ॥

4.23.5

य एव हेतुर्भवति पुरुषस्य जयावहः ।
पराजये च हेतुः स इति च प्रतिपालये ॥ 5 ॥

4.23.6

दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते ।
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥ 6 ॥

4.23.7

न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम् ।
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥ 7 ॥

4.23.8

स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति ।
इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः ॥ 8 ॥

4.23.9

दैवेन किल यस्यार्थः सुनीतोपि विपद्यते ।
सदा दैवागमे यत्नस्तेन कार्यो विजानता ॥ 9 ॥

4.23.10

किन्नु मे वचनस्याद्य कथितस्य प्रयोजनम् ।
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ॥ 10 ॥

4.23.11

महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च ।
इमामवस्थां सम्प्राप्ता मदन्या का जिजीविषेत् ॥ 11 ॥

4.23.12

कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत ।
पाण्डवेयांश्च सम्प्राप्तो मम शोको ह्यरिन्दम ॥ 12 ॥

4.23.13

भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता ।
एवं समुदिता नारी कान्वेयं दुःखभागिनी ॥ 13 ॥

4.23.14

नूनं बालतया धातुर्मया वै विप्रियं कृतम् ।
तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ॥ 14 ॥

4.23.15

वर्णं विकारमपि मे पश्य पाण्डव यादृशम् ।
ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ॥ 15 ॥

4.23.16

त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा ।
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे ॥ 16 ॥

4.23.17

तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः ।
भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ॥ 17 ॥

4.23.18

अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः ।
विनिपातमिमं पश्य युष्माकमविचिन्तितम् ॥ 18 ॥

4.23.19

यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा ।
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ॥ 19 ॥

4.23.20

पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा ।
युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ॥ 20 ॥

4.23.21

यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी ।
आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ॥ 21 ॥

4.23.22

यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः ।
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥ 22 ॥

4.23.23

इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् । या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः ।
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं ॥ 23 ॥

4.23.24

पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा ।
इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ॥ 24 ॥

4.23.25

बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन ।
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किन्करी ॥ 25 ॥

4.23.26

किन्नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा ।
नान्यपिष्टं विराटस्य चन्दनं किल रोचते ॥ 26 ॥
वैशम्पायन उवाच ।

4.23.27

सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी ।
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ॥ 27 ॥

4.23.28

सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः ।
हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ॥ 28 ॥

4.23.29

नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा ।
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ॥ 29 ॥

4.23.30

कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम् । विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम् ।
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ॥ 30 ॥

4.23.31

पापे निपतितायाश्च किं फलं जीवितेन मे ।
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ॥ 31 ॥

4.23.32

ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः ।
मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ 32 ॥

4.23.33

तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् ।
ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ 32 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc