भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.21

4.21.1

अहो दुःखतरं प्राप्ता कीचकेन पदा हता ।
पतिव्रता महाभागा द्रौपदी योषितांवरा ॥ 1 ॥

4.21.2

दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम् ।
नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता ॥ 2 ॥

4.21.3

किमर्थमिह सम्प्राप्ता कीचकेन दुरात्मना ।
नाशपत्तं महाभागा कृष्णा पादेन ताडिता ॥ 3 ॥

4.21.4

तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी ।
केशपांशे परामृष्टा मर्षयन्ती ह्यशक्तवत् ॥ 4 ॥

4.21.5

नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम ।
कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् ॥ 5 ॥

4.21.6

कस्य वंशे समुद्भूतः स च दुर्ललितो मुने ।
बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः ॥ 6 ॥

4.21.7

दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् ।
नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति ॥ 7 ॥
वैशम्पायन उवाच ।

4.21.8

त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः ।
एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव ॥ 8 ॥

4.21.9

ब्राह्मण्यां क्षत्रियाञ्जातः सूतो भवति पार्थिव ।
प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ॥ 9 ॥

4.21.10

रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम् ।
क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते ॥ 10 ॥

4.21.11

सह सूतेन सम्बन्धः कृतः पूर्वं नराधिपैः ।
तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ॥ 11 ॥

4.21.12

तेषां तु सूतविषयः सूतानां नामतः कृतः ।
उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा ॥ 12 ॥

4.21.13

सूतानामधिपो राजा केकयो नाम विश्रुतः ।
राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् ॥ 13 ॥

4.21.14

पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा ।
कीचका इति विख्याताः शतं षट् चैव भारत ॥ 14 ॥

4.21.15

तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो ।
अग्रजो बलसम्मत्तस्तेनासीत्सूतषट्शतम् ॥ 15 ॥

4.21.16

मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत् ।
तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् ॥ 16 ॥

4.21.17

तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा ।
सुरथायां मृतायां तु कौसल्यां श्वेतमातरि ॥ 17 ॥

4.21.18

श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि ।
सुदेष्णां महिषीं लब्ध्वा राज दुःखमपानुदत् ॥ 18 ॥

4.21.19

उत्तरं चोत्तरां चैव विराटात्पृथिवीपते ।
सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये ॥ 19 ॥

4.21.20

मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम् ।
सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ॥ 20 ॥

4.21.21

भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः ।
विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ॥ 21 ॥

4.21.22

कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः ।
जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ॥ 22 ॥

4.21.23

स हि सर्वास्रसम्पन्नो बलवान्भीमविक्रमः ।
कीचको नष्टमर्यादो बभूव भयदो नृणाम् ॥ 23 ॥

4.21.24

तं प्राप्य बलसम्मत्तं विराटः पृथिवीपतिः ।
जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ॥ 24 ॥

4.21.25

मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान् ।
मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ॥ 25 ॥

4.21.26

करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा ।
पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ॥ 26 ॥

4.21.27

अन्ये च बहवः शूरा नानाजनपदेश्वराः ।
कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ॥ 27 ॥

4.21.28

तमेवंवीर्यसम्पन्नं नागायुतसमं बले ।
विराटस्तत्र सेनायाश्चकार पतिमात्मनः ॥ 28 ॥

4.21.29

विराटभ्रातरश्चैव दश दाशरथेः समाः ।
ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ॥ 29 ॥

4.21.30

एवंविधबलो भीमः कीचकस्ते च तद्विधाः ।
राज्ञः स्याला महात्मानो विराटस्य हितैषिणः ॥ 30 ॥

4.21.31

एतत्ते कथितं सर्वं कीचकस्य पराक्रमम् ।
द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु ॥ 31 ॥

4.21.32

रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च ।
जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् ॥ 32 ॥

4.21.33

क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः ।
क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः ॥ 33 ॥

4.21.34

क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत ॥ 34 ॥

4.21.35

भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम् ।
नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत ॥ 35 ॥

4.21.36

पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम् ।
क्रोधाग्निनाऽप्यदह्यन्त तदा लञ्जाव्यपेक्षया ॥ 36 ॥

4.21.37

अथ भीमो महाबाहुः मूदयिष्यंस्तु कीचकम् ।
वारितो धर्मपुत्रेण वेलयेव महोदधिः ॥ 37 ॥

4.21.38

सन्धार्य मनसा रोषं दिवारात्रं विनिश्वसन् ।
महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् ॥ 38 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc