भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.19

4.19.1

अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम् ।
मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् ॥ 1 ॥

4.19.2

रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च ।
सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत् ॥ 2 ॥

4.19.3

इत्येवं मृगशवाक्षी सुश्रोणी धर्मचारिणी ।
उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा ॥ 3 ॥

4.19.4

तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ।
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ॥ 4 ॥

4.19.5

तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥ 5 ॥

4.19.6

प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनःपुनः ।
विलम्बमाना विवशा कीचकस्य निवेशनम् ॥ 6 ॥

4.19.7

तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम् ।
उत्पपातासनात्तूर्णं नावं लब्ध्वेव पारगः ॥ 7 ॥

4.19.8

श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः ।
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम ॥ 8 ॥

4.19.9

स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे ।
कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् ॥ 9 ॥

4.19.10

प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान् । सर्वरत्नमयीं मालां कुण्डले च हिरण्मये ॥ 10 ।

4.19.11

वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम् । प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि ।
प्रीत्या मे कुरु मद्माक्षि प्रसादं प्रियदर्शने ॥ 11 ॥

4.19.12

स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम् ।
अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् ॥ 12 ॥

4.19.13

भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम् ।
उपसर्प वरारोहे मेरुमर्कप्रभा यथा ॥ 13 ॥
वैशम्पायन उवाच ।

4.19.14

स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम् ।
अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसम्मतः ॥ 14 ॥

4.19.15

कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी ।
अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि ॥ 15 ॥

4.19.16

नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी ।
गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् ॥ 16 ॥

4.19.17

यत्र गच्छन्ति बहवः परदाराभिमर्शकाः ।
नराः सम्भिन्नमर्यादाः कीटवच्चाशुभाश्रयाः ॥ 17 ॥

4.19.18

अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् ।
तस्यै नयिष्ये मदिरां भगिनी तृषिता तव ॥ 18 ॥

4.19.19

पिपासिता च कैकेयी तूर्णं मामादिशत्ततः ।
दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् ॥ 19 ॥
कीचक उवाच ।

4.19.20

अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम् ।
किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता ॥ 20 ॥
वैशम्पायन उवाच ।

4.19.21

इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत् । सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् ।
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥ 21 ॥

4.19.22

तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् ।
पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत् ॥ 22 ॥

4.19.23

सभायां पश्यतो राज्ञो विराटस्य महात्मनः ।
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यतां ॥ 23 ॥

4.19.24

तस्याः पादाभितप्ताया मुखाद्रुधिरमास्रवत् ॥ 24 ॥

4.19.25

ततो दिवाकरेणाशु राक्षसः सन्नियोजितः ।
स कीचकमपोवाह वातवेगेन भारत ॥ 25 ॥

4.19.26

स पपात तदा भूमौ रक्षोबलसमीरितः ।
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ 26 ॥

4.19.27

तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः । न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन् ।
किमियं वध्यते बाला कृपणा चाप्यबान्धवा ॥ 27 ॥

4.19.28

तस्यामासन्हि ते पार्थाः सभायां भ्रातरस्तथा ।
अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधं ॥ 28 ॥

4.19.29

तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत । धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी ।
सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत ॥ 29 ॥

4.19.30

तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः ।
दन्तैर्दन्तांस्तदा रोपान्निष्पिपेष महामनाः ॥ 30 ॥

4.19.31

भूयः सञ्चरितः क्रुद्धः सहसोत्थाय चासनात् ।
निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत ॥ 31 ॥

4.19.32

वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः ।
आकारेणैव भीमं स प्रत्यपेधद्युधिष्ठिरः ॥ 32 ॥

4.19.33

तस्य राजा शनैः सञ्ज्ञां कुन्तीपुत्रो युधिष्ठिरः ।
चकार भीमसेनस्य रोषाविष्टस्य धीमतः ॥ 33 ॥

4.19.34

प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः ॥ 34 ॥

4.19.35

सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः ।
नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च ॥ 35 ॥

4.19.36

यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः ।
समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति ॥ 36 ॥

4.19.37

यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत् ।
न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् ॥ 37 ॥

4.19.38

न क्रोधकालसमयः सूद मा चापलं कृथाः ।
अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु ॥ 38 ॥

4.19.39

अथाङ्गुष्ठेनावमृद्गादङ्गुष्ठं तत्र धर्मराट् ।
प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् ॥ 39 ॥

4.19.40

भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः । सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् ।
इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः ॥ 40 ॥

4.19.41

भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम् ।
द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः ॥ 41 ॥

4.19.42

कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा ।
सभाद्वारमुपगम्य रुदन्ती वाक्यमब्रवीत् ॥ 42 ॥

4.19.43

अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः । आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम् ।
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥ 43 ॥

4.19.44

प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम् ।
कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् ॥ 44 ॥

4.19.45

स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम् ।
प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः ॥ 45 ॥

4.19.46

विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना ।
राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि ॥ 46 ॥

4.19.47

राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् ॥ 47 ॥

4.19.48

अहं त्वनपराध्यन्ती कीचकेन दुरात्मना ।
पश्यतस्ते महाराज हता पादेन दासिवात् ॥ 48 ॥

4.19.49

त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले ।
अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय ॥ 49 ॥

4.19.50

रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर ।
मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् ॥ 50 ॥

4.19.51

यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः ।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ 51 ॥

4.19.52

मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम् ।
त्वं किलैवंविधो जातः कुले धर्मपरायणे ॥ 52 ॥

4.19.53

अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप ।
त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् ॥ 53 ॥

4.19.54

अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः ।
प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते ॥ 54 ॥

4.19.55

अकार्याणामनारम्भात्कार्याणामनुपालनात् ।
प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः ॥ 55 ॥

4.19.56

कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः ।
प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः ॥ 56 ॥

4.19.57

नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात् ।
प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् ॥ 57 ॥

4.19.58

अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते ।
द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा ॥ 58 ॥

4.19.59

धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा ।
क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः ॥ 59 ॥

4.19.60

प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम् ।
एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि ॥ 60 ॥

4.19.61

अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम् ।
कल्याणकारी कल्याणं पापकारी च पापकम् ॥ 61 ॥

4.19.62

तेन गच्छति संसर्गं स्वर्गाय नरकाय वा । सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः ।
पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः ॥ 62 ॥

4.19.63

एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम् ।
शक्रोप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत् ॥ 63 ॥

4.19.64

यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना ।
तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव ॥ 64 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc