भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.14

4.14.1

ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता । वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा ।
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ॥ 1 ॥

4.14.2

वासश्च परिधायैकं कृष्णा सुमलिनं महत् ।
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥ 2 ॥

4.14.3

प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता ।
तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ॥ 3 ॥

4.14.4

अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि । सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता ।
कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ॥ 4 ॥
वैशम्पायन उवाच ।

4.14.5

तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा ।
न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ॥ 5 ॥

4.14.6

विराटस्य तु कैकेयी भार्या परमसम्मता ।
आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ॥ 6 ॥

4.14.7

सा समीक्ष्य तथारूपामनाथामेकवाससम् ।
स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ॥ 7 ॥

4.14.8

विराटभार्या तां देवी कारुण्याज्जातसम्भ्रमा ।
अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ॥ 8 ॥

4.14.9

अपनीय ततः सर्वा आनयध्वमिहैव ताम् । यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा ।
तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ ॥ 9 ॥

4.14.10

तास्तथोक्ता उपागम्य द्रौपदीं परिसन्गताः ।
आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् ॥ 10 ॥

4.14.11

भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले । त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि ।
आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः ॥ 11 ॥

4.14.12

तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा ।
ईप्सितर्थातिलाभेन हृष्टाऽयाता गृहोत्तमम् ॥ 12 ॥

4.14.13

राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता ।
सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् ॥ 13 ॥

4.14.14

कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा । कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च ।
जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना ॥ 14 ॥

4.14.15

सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा ।
ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा ॥ 15 ॥

4.14.16

अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता ।
ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे ॥ 16 ॥

4.14.17

रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव ।
नानावर्णविचित्रां च सर्वाभरणभूषिताम् ॥ 17 ॥

4.14.18

सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम् ।
बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे ॥ 18 ॥

4.14.19

सुदेष्णां राजमहिषीं सर्वालन्कारभूषिताम् ।
श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ॥ 19 ॥

4.14.20

ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः ।
परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ॥ 20 ॥

4.14.21

निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम् । गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम् ।
अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ॥ 21 ॥

4.14.22

न ह्रस्वां नातिमहतीं जातां बहुतृणे वने ।
ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ॥ 22 ॥

4.14.23

तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम् ।
लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ॥ 23 ॥

4.14.24

रोहिणीमिव ताराणां दीप्तामग्निशिखामिव ।
पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ॥ 24 ॥

4.14.25

सुलभामिव नागीनां मृगीणामिव किन्नरीम् ।
गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ॥ 25 ॥

4.14.26

तामचिन्त्यतमां लोके इलामिव यशस्विनीम् ।
सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां ॥ 26 ॥

4.14.27

सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् ।
सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ॥ 27 ॥

4.14.28

का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता ।
कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ॥ 28 ॥

4.14.29

गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता ।
स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥ 29 ॥

4.14.30

शुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा ।
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ॥ 30 ॥

4.14.31

कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ।
दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता ॥ 31 ॥

4.14.32

अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी ।
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी ॥ 32 ॥

4.14.33

तेनतेनैव सम्पन्ना काश्मीरीव तुरन्गमा ।
इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः ॥ 33 ॥

4.14.34

देवि देवेषु विख्याता ब्रूहि का त्वमिहागता ।
तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् ॥ 34 ॥

4.14.35

त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम् ।
न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् ॥ 35 ॥

4.14.36

प्रवालपुष्पस्तबकैराचिता वनदेवताः ।
त्वामेव हि निरीक्षन्ते विस्मिता रूपसम्पदा ॥ 36 ॥

4.14.37

अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः ।
सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः ॥ 37 ॥

4.14.38

न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी ।
दृष्टपूर्वा श्रुता वाऽपि चक्षुपा विद्यते शुभा ॥ 38 ॥
द्रौपद्युवाच ।

4.14.39

नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी ।
सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना ॥ 39 ॥

4.14.40

पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे ।
केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता ॥ 40 ॥

4.14.41

तत्र द्वादशवर्षाणि वन्यमूलफलाशना ।
चराम्यनिलया सुभ्रूः सा तवान्तिकमागता ॥ 41 ॥

4.14.42

जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन् ।
मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः ॥ 42 ॥

4.14.43

सिन्धुवारकजातीनां रचयाम्यवतंसकान् । पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् ।
ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः ॥ 43 ॥

4.14.44

आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम् ।
कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा ॥ 44 ॥

4.14.45

तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता । मालिनी चेति मे नाम स्वयं देवी चकार ह ।
कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी ॥ 45 ॥

4.14.46

न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने ।
व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः ॥ 46 ॥

4.14.47

योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा ।
न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः ॥ 47 ॥

4.14.48

साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च ।
शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः ॥ 48 ॥

4.14.49

भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी ।
विचरामि महीं दुर्गां यत्र सायन्निवेशना ॥ 49 ॥

4.14.50

वीरपत्नी यदा देवी चरमाणेषु भर्तृषु । साऽहं विवत्सा विधिना गन्धमादनपर्वतात् ।
शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि ॥ 50 ॥

4.14.51

माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः ।
त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता ॥ 51 ॥

4.14.52

गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ ।
तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् ॥ 52 ॥
वैशम्पायन उवाच ।

4.14.53

एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता ।
साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् ॥ 53 ॥

4.14.54

न भरेयमहं भद्रे संशयो मम विद्यते ।
राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति ॥ 54 ॥

4.14.55

साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि ।
एष दोषोस्ति सुश्रोणि कथं वाभीरु मन्यसे ॥ 55 ॥

4.14.56

स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि ।
त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि ॥ 56 ॥

4.14.57

वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि ।
विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः ॥ 57 ॥

4.14.58

बिभर्षि परमं रूपमतिमानुषमद्भुतम् । तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः ।
तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि ॥ 58 ॥

4.14.59

राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः ।
मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा ॥ 59 ॥

4.14.60

यं हि त्वमनवद्याङ्गी नरमायतलोचने ।
सुप्रसन्ना हि वीक्षेथाः स कामवरागो भवेत् ॥ 60 ॥

4.14.61

सुस्नाताऽलन्कृता हि त्वं यमीक्षेथा हि मानुषम् ।
ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः ॥ 61 ॥

4.14.62

न शोको न च सन्तापो न क्रोधो नानृतं वदे ।
यं त्वं सर्वातवद्याङ्गि भजेथाः समलन्कृता ॥ 62 ॥

4.14.63

न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत् । यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती ॥ 63 ।

4.14.64

पञ्चत्वमपि सम्प्राप्तं यं च त्वं परिपस्वजेः ।
बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः ॥ 64 ॥

4.14.65

यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः ।
अतिजीवेस्य सर्वेषु देवेष्विव पुरन्दरः ॥ 65 ॥

4.14.66

अध्यारोहेद्यथा वृक्षं यथा वाऽरुह्य तक्षति ।
राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम ॥ 66 ॥

4.14.67

यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः ।
तथाविधमहं मन्ये तव सुभ्रु समागमम् ॥ 67 ॥

4.14.68

अनुमानये त्वां सैरन्ध्रि नावमन्ये कथञ्चन ।
भर्तृशीलभयाद्भद्रे तव वासं न रोचये ॥ 68 ॥
सैरन्ध्र्युवाच ।

4.14.69

नाहं शक्या विराटेन यद्वा चान्येन केनचित् ।
देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ॥ 69 ॥

4.14.70

गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः ।
पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ॥ 70 ॥

4.14.71

यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा ।
स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ॥ 71 ॥

4.14.72

यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि । सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका ।
दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ॥ 72 ॥

4.14.73

न तस्य त्रिदशा देवा नासुरा न च पन्नगाः ।
तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ॥ 73 ॥

4.14.74

सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा ।
नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ॥ 74 ॥

4.14.75

यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् ।
प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ॥ 75 ॥

4.14.76

यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः ।
तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ॥ 76 ॥

4.14.77

न चाप्यहं चालयितुं शक्या केनचिदङ्गने । दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः ।
एवं निवसमानायां मयि मा ते भयं हि भूत् ॥ 77 ॥
वैशम्पायन उवाच ।

4.14.78

एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत् ।
वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ॥ 78 ॥

4.14.79

कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि ।
प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् ॥ 79 ॥

4.14.80

एवमाचारसम्पन्ना एवं देवपरायणा ।
रक्ष्या त्वमसि भूतानां सावित्रीवद्विजन्मनाम् ॥ 80 ॥

4.14.81

देवता इव कल्याणि पूजिता वरवर्णिनी । वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते ।
सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् ॥ 81 ॥
वैशम्पायन उवाच ।

4.14.82

सुदेष्णयैवमुक्ता सा सम्प्रीता चारुहासिनी ।
निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् ॥ 82 ॥

4.14.83

याज्ञसेनी सुदेष्णां तु शुश्रूपन्ती विशाम्पते ।
अवसत्परिचारार्हा सुदुःखं जनमेजय ॥ 83 ॥

4.14.84

एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना ।
अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्रथो भस्मनि गूढतेजसः ॥ 84 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc