भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.12

4.12.1

अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति ।
तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ 1 ॥

4.12.2

स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट् ।
दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा ॥ 2 ॥

4.12.3

को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम् ।
प्रियो हि मे दर्शनतोपि सम्मतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् ॥ 3 ॥

4.12.4

अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः ।
प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ॥ 4 ॥

4.12.5

वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात् ।
ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ॥ 5 ॥

4.12.6

तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः ।
तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि ॥ 6 ॥
विराट उवाच ।

4.12.7

ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि ।
कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् ॥ 7 ॥
नकुल उवाच ।

4.12.8

पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः ।
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ 8 ॥

4.12.9

अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः ।
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ 9 ॥

4.12.10

न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः ।
जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ 10 ॥

4.12.11

मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता ।
सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् ॥ 11 ॥

4.12.12

युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात् ।
शतसाहस्रकोटीनामश्वानामस्मि रक्षिता ॥ 12 ॥
विराट उवाच ।

4.12.13

यदस्ति किञ्चिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै ।
ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥ 13 ॥

4.12.14

इदं तवेष्टं विहितं सुरोपम ॥ .हि यत्ते प्रसमीक्षितं वरम् ।
॥ .ऽनुरूपं हयकर्म दृश्यते विभाति राजेव न कर्म वाजिनाम् ॥ 14 ॥

4.12.15

युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् ।
कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः ॥ 15 ॥
वैशम्पायन उवाच ।

4.12.16

तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः ।
न चैवमन्येऽपि विदुः कथञ्चन प्रियाभिरामं विचरन्तमन्तरा ॥ 16 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc