भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.89

3.89.1

एवं सम्भाषमाणे तु धौम्ये कौरवनन्दन ।
लोमशः स महातेजा ऋषिस्तत्राजगाम ह ॥

3.89.2

तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते ।
उपातिष्ठन्महाभागं दिवि शक्रमिवामराः ॥

3.89.3

समभ्यर्च्य यथान्यायं धर्मपुत्रो युधिष्ठिरः ।
पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥

3.89.4

स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः ।
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥

3.89.5

सञ्चरन्नस्मि कौन्तेय सर्वांल्लोकान्यदृच्छया ।
गतः शक्रस्य भवनं तत्रापश्यं सुरेश्वरम् ॥

3.89.6

तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् ।
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ॥

3.89.7

आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ।
आह मां तत्र देवेशो गच्छ पाण्डुसुतान्प्रति ॥

3.89.8

सोऽहमभ्यागतः क्षिप्रं दिदृक्षस्त्वां सहानुजम् ।
वचनात्पुरुहूतस्य पार्थस् च महात्मनः ॥

3.89.9

आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ।
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु ॥

3.89.10

यत्त्वयोक्तो महाबाहुरस्त्रार्थं भरतर्षभ ।
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं विभो ॥

3.89.11

यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागमत् ।
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना ॥

3.89.12

तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् ।
वज्रमस्त्राणि चान्यानि दण्डादीनि युधिष्ठिर ॥

3.89.13

यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ।
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ॥

3.89.14

विश्वावसोस्तु तनयाद्गीतं नृत्यं च साम च ।
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥

3.89.15

एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमात्मवान् ।
सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥

3.89.16

यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् ।
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ॥

3.89.17

भवान्मनुष्यलोकेऽपि गमिष्यति न संशयः ।
ब्रूयाद्युधिष्ठिरं तत्रवचनान्मे द्विजोत्तम ॥

3.89.18

आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः ।
सुरकार्यं महत्कृत्वा यदशक्यं दिवौकसैः ॥

3.89.19

तपसाऽपि त्वमात्मानं योजय भ्रातृभिः सह ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥

3.89.20

अहं च कर्णं जानामि यथावद्भरतर्षभ ।
सत्यसन्धं महोत्साहं महावीर्यं महाबलम् ॥

3.89.21

महाहवेष्वप्रतिमं महायुद्धविशारदम् ।
महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम् ॥

3.89.22

महेश्वरसुतप्रख्यमादित्यतनयं प्रभुम् ।
तथाऽर्जुनमतिस्कन्धं सहजोल्वणपौरुणम् ॥

3.89.23

न स पार्तस्य सन्ग्रामे कलामर्हति षोडशीम् ॥

3.89.24

यच्चापि ते भयं कर्णान्मनसिस्थमरिन्दम ।
तच्चाप्यपहरिष्यामि सव्यसाचिन्युपागते ॥

3.89.25

यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति ।
स महर्षिर्लोमशस्ते कथयिष्यत्यसंशयम् ॥

3.89.26

यच्च किञ्चित्तपोयुक्तं फलं तीर्थेषु भारत । ब्रह्मर्षिरेष ब्रूयात्ते न तच्छ्रद्धेयमन्यथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc