भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.87

3.87.1

अवन्तीषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि ।
यानि तत्रपवित्राणि पुण्यान्यायतनानि च ॥

3.87.2

प्रियङ्ग्वाम्रवणोपेता वानीरफलमालिनी ।
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ॥

3.87.3

त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः ॥

3.87.4

नर्मदायां कुरुश्रेष्ठ सहसिद्धर्षिचारणैः ।
स्नातुमायान्ति पुण्यौधैः सदा वारिषु भारत ॥

3.87.5

निरेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः ।
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ॥

3.87.6

वैढूर्यशिखरो नाम पुण्यो गिरिवरः शिवः ।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥

3.87.7

तस्य शैलस्य शिखरे सरः पुण्यं महीपते ।
फुल्लपद्मं महाराज देवगन्धर्वसेवितम् ॥

3.87.8

बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते ।
पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते ॥

3.87.9

ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् ।
विश्चामित्रेण तपसा निर्मिता सर्वपावनी ॥

3.87.10

यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः ।
पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ॥

3.87.11

तत्रपुण्यो ह्रदः ख्यातो मैनाकश्चैव पर्वतः ।
बहुमूलफलोपेतस्त्वमितो नाम पर्वतः ॥

3.87.12

आश्रमः कक्षसेनस्य पुण्यस्तत्रयुधिष्ठिरः । च्यवनस्याश्रमश्चैव विख्यातस्तत्रपाण्डव ।
तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो ॥

3.87.13

जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् ।
आश्रम शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः ॥

3.87.14

ततः पुण्यतमा राजन्सततं तापसैर्युता । केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप ।
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ॥

3.87.15

पितामहसरः पुण्यं पुष्करं नाम नामतः ।
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ॥

3.87.16

अप्यत्र संश्रयार्थाय प्रजापतिरथो जगौ ।
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनांवर ॥

3.87.17

मनसाऽप्यभिकामस्य पुष्कराणि मनखिनः । विप्रणश्यन्ति पापानि नाकपृष्ठे च मोदते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc