भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.85

3.85.1

तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः ।
अश्वासयंस्तथा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥

3.85.2

ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ ।
दिशस्तीर्थानि शैलांश्च शृणु मे वदतोऽनघ ॥

3.85.3

याञ्श्रुत्वा गदतो राजन्विशोको भवितासि ह ।
द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर ॥

3.85.4

श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव ।
गत्वा शतगुणं चैव तेभ्य एव नरोत्तम ॥

3.85.5

शृणु पूर्वां दिशं राजन्देवर्षिगणसेविताम् ।
रम्यां ते कथयिष्यामि युधिष्ठिर यथास्मृति ॥

3.85.6

तस्यां रदेवर्षिजुष्टायां नैमिषं नाम भारत ।
यत्रतीर्थानि देवानां पुण्यानि च पृथक् पृथक् ॥

3.85.7

यत्र सा गोमती पुण्या रम्या देवर्षिसेविता ।
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥

3.85.8

तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः ।
शिवं ब्रह्मसरो यत्रसेवितं त्रिदशर्षिभिः ॥

3.85.9

यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः ।
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥

3.85.10

गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ।
उत्तारयति सन्तत्या दश पूर्वान्दशावरान् ॥

3.85.11

महानदी च तत्रैव तथा गयशिरो नृप ।
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ॥

3.85.12

यत्रदत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ।
सा च पुण्यजला तत्र फल्गुनामा महानदी ॥

3.85.13

बहुमूलफला चापि कौशिकी भरतर्षभ ।
विश्वामित्रोऽध्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥

3.85.14

गङ्गा यत्रनदी पुण्या यस्यास्तीरे भगीरथः ।
अयजत्तत्रबहुभिः क्रतुभिर्भूरिदक्षिणैः ॥

3.85.15

पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् ।
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ॥

3.85.16

यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ।
विश्वामित्रस्य तां दृष्ट्वा चिभूतिमतिमानुषीम् ॥

3.85.17

कान्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ।
ततः क्षत्रादपाक्रामद्ब्राह्मणोस्मीति चाब्रवीत् ॥

3.85.18

पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् ।
गङ्गायमुनयोर्वीर सन्गमं लोकविश्रुतम् ॥

3.85.19

यत्रायजत भूतात्मा पूर्वमेव पितामहः ।
प्रयागमिति विख्यातं तस्माद्भरतसत्तम ॥

3.85.20

अगस्त्यस्य तु राजेन्द्र तत्राश्रमवरो नृप ।
तत्तथा तापसारण्यं तापसैरुपशोभितम् ॥

3.85.21

हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे महान् ।
आगस्त्यपर्वतोरभ्यः पुण्यो गिरिवः शिवः ॥

3.85.22

महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ।
अयजत्तत्रकौन्तेय पूर्वमेव पितामहः ॥

3.85.23

यत्रभागीरथी पुण्यां सरस्यासीद्युधिष्ठिर । यत्र सा ब्रह्मशालेति पुण्याख्याता विशाम्पते ।
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥

3.85.24

पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः ।
केदारश्च मतङ्गस्य महानाश्रम उत्तमः ॥

3.85.25

कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः ।
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥

3.85.26

यत्र देववनं पुण्यं तापसैरुपशोभितम् ।
बाहुदा च नदी यत्रनन्दा च गिरिमूर्धनि ॥

3.85.27

तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च ।
प्राच्यां दिशि महाराज कीर्तितानि मया तव ॥

3.85.28

तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु । सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc