भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.84

3.84.1

भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः ।
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥

3.84.2

मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः ।
अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥

3.84.3

स हि वीरोऽनुरक्तश् समर्थश्च तपोधनः ।
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥

3.84.4

अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिविघातिनौ ।
अभिजानामि विक्रान्तौ तथा व्यासः परन्तपौ ॥

3.84.5

त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ ।
नारदोऽपितथा वेद योष्यशंसत्सदा मम ॥

3.84.6

तथाऽहमपि जानामि नरनारायणावृषी ।
शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः ॥

3.84.7

इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम् ।
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥

3.84.8

भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः ।
धृतराष्ट्रस्य पुत्रेण सुधृताः सुमहाबलाः ॥

3.84.9

सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा । सर्वे महारथा मुख्याः सर्वे जितपरिश्रमाः ।
योद्धुकामाश्च पार्थेन सततं ये महाबलाः ॥

3.84.10

स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः । योऽस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः ।
रजोधूमोऽस्त्रसम्पातो धार्तराष्ट्रानिलोद्धतः ॥

3.84.11

निसृष्ट इव कालेन युगान्तज्वलनो यथा ।
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥

3.84.12

तं स कुष्णानिलोद्धूतो दिव्यास्त्रज्वलनो महान् ।
श्वेतवाजिबलाकाभृद्गण्डीवेन्द्रायुधोल्बणः ॥

3.84.13

संरब्धः शरधाराभिः सुधीप्तं कर्णपावकम् ।
उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥

3.84.14

स साक्षादेव सर्वाणि शक्रात्परपुरञ्जयः ।
दिव्यान्यस्त्राणि वीभत्सुर्यथावत्प्रतिपत्स्यते ॥

3.84.15

अलं स तेषां सर्वेषामिति मे धीयते मतिः ।
नास्ति त्वतिक्रिया तस् रणेऽरीणां प्रतिक्रिया ॥

3.84.16

ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिन्दमम् ।
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥

3.84.17

वयं तु तमृते वीरं वनेऽस्मिन्द्विपदांवर ।
अवधानं न गच्छामः काम्यके सह कृष्णया ॥

3.84.18

भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि ।
आख्यातु रमणीयं च सेवितं पुण्यक्रमभिः ॥

3.84.19

यत्रकञ्चिद्वयं कालं वसन्तः सत्यविक्रमम् ।
प्रतीक्षामोऽर्जुनं वरं वृष्टिकामा इवाम्बुदम् ॥

3.84.20

विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान् ।
सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥

3.84.21

आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम् । वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशम्प्रति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc