भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.8

3.8.1

धतराष्ट्र महाप्राज्ञ निबोध वचनं मम ।
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम् ॥

3.8.2

न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् ।
निकृत्त्या निकृताश्चैव दुर्योधनपुरोगमैः ॥

3.8.3

ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे ।
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ॥

3.8.4

तदयं किन्नु पापात्मा तव पुत्रः सुमन्दधीः ।
पाण्डवान्नित्यसन्क्रुद्धो राज्यहेतोर्जिघांसति ॥

3.8.5

वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः ।
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति ॥

3.8.6

यथाऽह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् ।
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥

3.8.7

विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः ।
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥

3.8.8

समीक्षा यादृशी ह्मस्य पाण्डवान्प्रति भारत ।
उपेक्ष्यमाणा सा राजन्महान्तमनयं व्रजेत् ॥

3.8.9

अथवाऽयं सुमन्दात्मा वनं गच्छतु ते सुतः ।
पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥

3.8.10

ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः ।
यदि स्यात्कृतकृत्यस्त्वं भवेथाः पुरषर्षभ ॥

3.8.11

अथवा जायमानस्य यच्छीलमनुजायते ।
श्रूयते तन्महाराज नामृतस्यापसर्पति ॥

3.8.12

कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोपिवा । भवान्वाऽत्र परं कार्यं पुरा चार्थो निवर्तते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc