भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.78

3.78.1

भगवान्काम्यकात्पार्थे गते मे प्रपितामहे ।
पाण्डवाः किमकुर्वंस्ते तमृते सव्यसाचिनम् ॥

3.78.2

स हि तेषां महेष्वासो गतिरासीदनीकजित् ।
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ॥

3.78.3

तेनेन्द्रसमवीर्येण सन्ग्रामेष्वनिवर्तिना ।
विनाभूता वने वीराः कथमासन्पितामहाः ॥
वैशम्पायन उवाच ।

3.78.4

गते तु पाण्डवेतात काम्यकात्सव्यसाचिनि ।
बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ॥

3.78.5

आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इवाण्डजाः ।
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ॥

3.78.6

वनं तु तदभूत्तेन हीनमक्लिष्टकर्मणा ।
कुबेरेण यथाहीनं वनं चैत्ररथं तथा ॥

3.78.7

तमृते ते नरव्याघ्राः पाण्डवा जनमेजय ।
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ॥

3.78.8

ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्वाणैर्महारथाः ।
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ॥

3.78.9

नित्यंहि पुरुषव्याघ्रा वन्याहारमरिन्दमाः ।
प्रविसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् ॥

3.78.10

एवं ते न्यवसंस्तत्रसोत्कणअठाः पुरुषर्षभाः ।
अहृष्टमनसः सर्वेगते राजन्धनञ्जये ॥

3.78.11

अथ विप्रोषितं राजन्पाञ्चाली मध्यमं पतिम् ।
स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥

3.78.12

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।
तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ॥

3.78.13

शून्यामिव प्रपश्यामि तत्रतत्र महीमिमाम् ।
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् ॥

3.78.14

न तथा रमणीयं वै तमृते सव्यसाचिनम् ।
नीलाम्बुदसमप्रख्यं मत्तमातङ्गगामिनम् ॥

3.78.15

तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे । यस्य वा धनुषो घोषः श्रूयते चाशनिस्वनः ।
न लभे शर्म वै राजन्स्मरन्ती सव्यसाचिनम् ॥

3.78.16

तथा लालप्यमानां तां निशाम्य परवीरहा ।
भीमसेनो महाराज द्रौपदीमिदमब्रवीत् ॥

3.78.17

मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे ।
तन्म प्रीणाति हृदयममृतप्राशनोपमम् ॥

3.78.18

यस्य दीर्घौ समौ पीनौ भुजौ परिघसन्निभौ ।
मौर्वीकृतकिणौ वृत्तौ खङ्गायुधधनुर्धरौ ॥

3.78.19

निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ ।
तमृते पुरुषव्याघ्रं नष्टसूर्यमिवाम्बरम् ॥

3.78.20

यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा ।
सुराणामपि यत्तानां पृतनासु न बिभ्यति ॥

3.78.21

यस्य बाहू समाश्रित्य वयं सर्वेमहात्मनः ।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥

3.78.22

तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् ।
पश्यामि च दिशः सर्वास्तिमिरेणावृता इव ॥

3.78.23

ततोऽब्रवीत्साश्रुकण्ठो नकुलः पाण्डुनन्दनः । यस्मिन्दिव्यानि कर्माणि कथयन्ति रणाजिरे ।
देवा अपि युधांश्रेष्ठं तमृतेका रतिर्वने ॥

3.78.24

उदीचीं चो दिशं गत्वा जित्वा युधि महाबलान् ।
गन्धर्वमुख्याञ्शतशो हर्याँल्लेबे महाद्युतिः ॥

3.78.25

राज्ञे तित्तिरिकल्माषाञ्श्रीमतोऽनिलरंहसः ।
प्रादाद्भात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ॥

3.78.26

तमृतेभीमधन्वानं भीमादवरजं वने ।
कामये काम्यके वासं नेदानीममरोपमम् ॥
सहदेव उवाच ।

3.78.27

यो धनानिन कन्याश्च युधि हित्वा महाबलान् । शतशो घातयित्वाऽरीन्पृतनामध्यगस्तदा ।
आजहार पुरा राज्ञे राजसूये महाक्रतौ ॥

3.78.28

यः समेतान्मृधे जित्वायादवानमितद्युतिः ।
सुभद्रामाजहारैको वासुदेवस्य सम्मते ॥

3.78.29

येनार्धराज्यमाच्छिद्य द्रुपदस्य महात्मनः ।
आचार्यदक्षिणा दत्ता रणे द्रोणश्यभारत ॥

3.78.30

तस्य जिष्णोर्बृसीं दृष्ट्वा सून्यत्रेव निवेशने ।
हृदयं मे महाराज न शाम्यात्रकदाचन ॥

3.78.31

विनादस्माद्विवासं तु रोचयेऽहमरिन्दम । न हि नस्तमृते वीरं रमणीयमिदं वनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc