भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.73

3.73.1

केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशाम्पते ।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥

3.73.2

गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥

3.73.3

यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि ।
तत्रसञ्चेष्टमानस्य संलक्षेथा विचेष्टितम् ॥

3.73.4

न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि । याचते न जलं देयं सकृच्चात्वरमाणया ।
एतत्सर्वं समीक्ष्यत्वं चरितं मे निवेदय ॥

3.73.5

निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम् ।
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥

3.73.6

दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी ।
निशाम्याथ हयज्ञस्य लिङ्गानि पुनरागमत् ॥

3.73.7

सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् ।
निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम् ॥
केशिन्युवाच ।

3.73.8

दृढं शुच्यपदानोसौ न मया मानुषः क्वचित् ।
दृष्टपूर्वः श्रुतो वाऽपि दमयन्ति तथाविधः ॥

3.73.9

ह्रस्वमासाद्य तु द्वारं नासौ विनमते क्वचित् । तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ।
सन्कटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥

3.73.10

ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः । ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः ।
प्रेषितं तत्रराज्ञा तु मांसं बहु च पाशवम् ॥

3.73.11

तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः ।
ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः ॥

3.73.12

ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः ।
तृणमुष्टिं समादाय सवितुस्तं समादधत् ॥

3.73.13

अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः ।
तदद्भुततमं दृष्ट्वा विस्मिताऽमिहागता ॥

3.73.14

अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया ।
यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे ॥

3.73.15

छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् ।
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥

3.73.16

यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः । मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा ।
भूय एव सुगन्धीनि हृपितानि भवन्ति हि ॥

3.73.17

एतान्यद्भुतकल्पानि दृष्ट्वाऽहं भृशविस्मिता ।
चेष्टितानि विशालाक्षि बाहुकस्य समीपतः ॥
बृहदश्व उवाच ।

3.73.18

दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥

3.73.19

सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् ।
केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत् ॥

3.73.20

पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् ।
महानसाच्छ्रितं मांसमानयस्वेह भामिनि ॥

3.73.21

सा दृष्ट्वाबाहुके व्यग्रे तन्मांसमपकृष्य च । अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी ।
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥

3.73.22

साऽशिता नलसिद्धस् मांसस्य बहुशः पुरा ।
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता ॥

3.73.23

वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः ।
मिथुनं प्रेषयामास केशिन्या सह भारत् ॥

3.73.24

इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः ।
अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत् ॥

3.73.25

बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ ।
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह ॥

3.73.26

नैषधो दर्शयित्वा तु विकारमसकृत्तदा ।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥

3.73.27

इदं च मदृशं भद्रे मिथुनं मम पुत्रयोः ।
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥

3.73.28

बहुशः सम्पतन्तीं त्वां जनः शङ्केत दोषतः । वयञ्च देशातिथयो गच्छ भद्रे यथासुखम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc