भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.71

3.71.1

ततो विदर्भान्सम्प्राप्तं सायाह्ने सत्यविक्रमम् ।
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥

3.71.2

स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् ।
नादयन्रथघोषेण सर्वाः स विदिशो दिशः ॥

3.71.3

ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः ।
श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ ॥

3.71.4

दमयन्ती तु शुश्राव रथघोषं नलस्य तम् ।
यथा मेघस्य नदतो गम्भीरं जलदागमे ॥

3.71.5

परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम् । नलेन सन्गृहीतेषु पुरेव नलवाजिषु ।
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥

3.71.6

प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः ।
हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः ॥

3.71.7

तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा ।
प्रवेदुरुन्मुखा राजन्दृष्ट्वेव जलदोदयम् ॥
दमयन्त्युवाच ।

3.71.8

यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम् ।
ममाह्लादयते चेतो नल एव महीपतिः ॥

3.71.9

अद्य नन्द्राभवक्रं तं न पश्यामि नलं यदि ।
असंख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः ॥

3.71.10

यदि वै तस्य वीरस्य हाह्वोर्नाद्याहमन्तरम् ।
प्रविशामि सुखस्पर्शं नभविष्याम्यसंशयम् ॥

3.71.11

यदि मां मेघनिर्घोषो नोपगच्छति नैषधः ।
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥

3.71.12

यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः ।
नाभिगच्छतिराजेन्द्रो विनङ्क्ष्यामि न संशयः ॥

3.71.13

न स्मराम्यनृतं किञ्चिन्न स्मराम्यपकारताम् ।
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥

3.71.14

प्रभुः क्षमावान्वीरश्च दाता चाप्यधिको नृपैः ।
अहो नीचानुवर्ती च क्लीबवन्मम नैषध ॥

3.71.15

गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥

3.71.16

एवं विलपमाना सा नष्टसञ्ज्ञेव भारत ।
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥

3.71.17

ततो मध्यमकक्षायां ददर्श रथमास्थितम् ।
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥

3.71.18

ततोऽवतीर्य वार्ष्णएयो बाहुकश्च रथोत्तमात् ।
हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥

3.71.19

सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः ।
उपतस्थे महाराजं भीमं भीमपराक्रमम् ॥

3.71.20

तं भीमः प्रतिजग्राह पूजया परया मुदा ।
स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः ॥

3.71.21

स तत्र कुण्डिने रम्ये वसमानो महीपतिः । न च किञ्चित्तदाऽपश्यत्प्रेक्षमाणो मुहुर्मुहुः ।
स तु राज्ञा समागम्य विदर्भपतिना तदा ॥

3.71.22

किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टः स भारत ।
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥

3.71.23

ऋतुपर्णोपि राजा स धीमान्सत्यपराक्रमः ।
राजानं राजपुत्रं वा न स्म पश्यति कञ्चन ॥

3.71.24

नैव स्वयंवरकथां न च विप्रसमागमम् ।
न चान्यं कञ्चिदारम्भं स्वयंवरविधिं प्रति ॥

3.71.25

ततो विगणयद्राजा मनसा कोसलाधिपः ।
आगतोस्मीत्युवाचैनं भवन्तमभिवादुकः ॥

3.71.26

राजापि च स्मयन्भीमो मनसा समचिन्तयत् । अधिकं योजनशतं तस्यागमनकारणम् ।
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ॥

3.71.27

अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ।
पश्चादुदर्के ज्ञास्याप्रि कारणं यद्भविष्यति ॥

3.71.28

नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् ।
विश्राम्यतामित्युवाच क्लान्तोसीति पुनःपुनः ॥

3.71.29

स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः ।
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥

3.71.30

ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे ।
बाहुको रथमादाय रथशालामुपागमत् ॥

3.71.31

स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः ।
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥

3.71.32

दमयन्त्यपि शोकार्ता दृष्ट्वा भागस्वरिं नृपम् ।
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥

3.71.33

चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः ।
नलस्येव महानासीन्न च पश्यामि नैषधम् ॥

3.71.34

वार्ष्णोयेन भवेन्नूनं विद्या सैवोपशिक्षिता ।
तेनाद्य रथनिर्घोषो नलस्येव महानभूत् ॥

3.71.35

कआहोस्विदृतुपर्णोऽपि यथा राजा नलस्यथा ।
यथाऽयंरथनिर्घोषो नैषधस्येव लक्ष्यते ॥

3.71.36

एवं सा तर्कयित्वा तु दमयन्ती विशाम्पते । दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc