भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.59

3.59.1

इत्युक्तः स तदा देव्या नलो वचनमब्रवीत् । यथा राज्यन्तव पितुस्तथा मम नसंशयः ।
न तु तत्र गमिष्यामि विषमस्थः कथञ्चन ॥

3.59.2

कथं समृद्धो गत्वाऽहं तव हर्षविवर्धनः ।
परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥

3.59.3

इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः ।
सान्खयामास कल्याणीं वाससोर्धेन संवृताम् ॥

3.59.4

तावेकवस्त्रसंवीतावटमानावितस्ततः ।
क्षुत्पिपासापरिश्रान्तौ सभां काञ्चिदुपेयतुः ॥

3.59.5

तां सभामुपसम्प्राप्य तदा स निषधाधिपः ।
वैदर्भ्या सहितो राजा निषसाद महीतले ॥

3.59.6

स वै विवस्त्रो मलिनो विवर्णः पांसुगुण्ठितः ।
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥

3.59.7

ततः स्ववसनस्यान्तं दमयन्ती विशाम्पते । भूमावास्तीर्य सुष्वाप पतिमालिङ्ग्य शोभना ॥

3.59.8

दमयनत्यपि कल्याणी निद्रयाऽपहृता ततः ।
सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥

3.59.9

सुप्तायां दमयन्त्यां तु नलो राजा विशाम्पते ।
शोकोन्मथितचित्तः सन्न स्म शेते यथा पुरा ॥

3.59.10

स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः ।
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥

3.59.11

किं नु मे स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः ।
किन्नु मे मरणं श्रेयः परित्यागो जनस्य वा ॥

3.59.12

मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते ।
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥

3.59.13

मया निःसंशयं दुखमियं प्राप्स्यत्यनुव्रता ।
उत्सर्गेसंशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥
बृहदश्च उवाच ।

3.59.14

स विनिश्चित्य बहुधा विचार्य च पुनःपुनः ।
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिप ॥

3.59.15

न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि ।
यशस्विनी महाभागा मद्भक्तेयं पतिव्रता ॥

3.59.16

एवं तस् तदा बुद्धिर्दमयन्त्यां न्यवर्तत ।
कलिना दुष्टभावेन दमयन्त्या विसर्जने ॥

3.59.17

सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् ।
चिन्तयित्वाऽध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥

3.59.18

कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया ।
विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा ॥

3.59.19

परिधावन्नथ नल इतश्चेतश्च भारत ।
आससाद सभोद्देशे विकोशं स्वङ्गमुत्तमम् ॥

3.59.20

तेनार्धं वाससश्छित्त्वा निवस् च परन्तपः ।
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनाम् ॥

3.59.21

ततो निबद्धहृदयः पुनरागम् तां सभाम् ।
दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिपः ॥

3.59.22

यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् ।
सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥

3.59.23

इयं वस्त्रावकर्तेन संवीता चारुहासिनी ।
उन्मत्तेव मया हीना कथं बुद्ध्वा भविष्यति ॥

3.59.24

कथमेका सती भमी मया विरहिता शुभा ।
चरिष्यति वने घोरे मृगव्यालनिषेविते ॥

3.59.25

आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ ।
रक्षन्तु त्वां महाभागे धर्मेणासि समावृता ॥

3.59.26

एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुषि ।
कलिनाऽपहृतज्ञानो नलः प्रातिपष्ठदुद्यतः ॥

3.59.27

गत्वागत्वा नलो राजा पुनरेति सभां मुहुः ।
आकृष्यमाणः कलिना सौहृदेनावकृष्यते ॥

3.59.28

द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा ।
दोलेव मुहुरायाति याति चैव मुहुर्मुहुः ॥

3.59.29

अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः ।
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥

3.59.30

नष्टात्मा कलिनाऽविष्टस्तत्तद्विगणयन्मुहुः । जगामैकां वने शून्ये भार्यामुत्सृज्य मोहितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc