भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.53

3.53.1

सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् ।
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥

3.53.2

अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चना ।
तत्सर्वं तव विस्रब्धं कुरु प्रणयमीश्वर ॥

3.53.3

हंसानां वचनं यत्तु तन्मां दहति पार्थिव ।
त्वत्कृते हि मया वीर राजानः सन्निपातिताः ॥

3.53.4

यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद ।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥

3.53.5

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥

3.53.6

येषामहं लोककृतामीश्वराणां महात्मनाम् ।
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥

3.53.7

विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युच्छति ।
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥

3.53.8

विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा ।
भूषणानि तु दिव्यानि देवान्प्राप्य तु भुङ्क्ष्व वै ॥

3.53.9

य इमां पृथिवीं कृत्स्नां सन्क्षिप्य ग्रसते पुनः ।
हुताशमीशं देवानां का तं न वरयेत्पतिम् ॥

3.53.10

यस् दण्डभयात्सर्वे भूतग्रामाः समागताः ।
धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम् ॥

3.53.11

धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् ॥

3.53.12

क्रियतामविशङ्केन मनसा यदि मन्यसे ।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥

3.53.13

नैषधेनैवमुक्ता सा दमयन्ती बचोऽब्रवीत् ।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥

3.53.14

देवेभ्योऽहं नमस्कृत् यसर्वेभ्यः पृथिवीपते ।
वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते ॥

3.53.15

तामुवाच ततो राजा वेषमानां कृताञ्जलिम् ।
दौत्येनागत्य कल्याणि नोत्सहे स्वार्थमीप्सितं ॥

3.53.16

कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः ।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥

3.53.17

एष धर्मो यदि स्वार्थो ममापि भविता ततः ।
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् ॥

3.53.18

ततो बाष्पाकुलांवाचं दमयन्ती शुचिस्मिता ।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥

3.53.19

अस्त्युपायो मया दृष्टो निरपायो नरेश्वर ।
येन दोषो न भविता तव राजन्कथञ्चन ॥

3.53.20

त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः ।
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥

3.53.21

ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर ।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥

3.53.22

एवमुक्तस्तु वैदर्भ्या नलो राजा विशम्पते ।
आजगाम पुनस्तत्र यत्र देवाः समागताः ॥

3.53.23

तमपश्यंस्तथाऽयान्तं लोकपाला महेश्वराः ।
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम् ॥

3.53.24

कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता ।
किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ॥
नल उवाच ।

3.53.25

भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् ।
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥

3.53.26

प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः ।
ऋते तां पार्तिवसुतां भवतामेव तेजसा ॥

3.53.27

सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः ।
विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः ॥

3.53.28

वर्ण्यमानेषु च मया भवत्सु रुचिराननां ।
मामेव गतसन्कल्पा वृणीते सा सुरोत्तमाः ॥

3.53.29

अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः ।
त्वया सह नरव्याघ्र मम यत्रस्वयंवरः ॥

3.53.30

तेषामहं सन्निधौ त्वां वरयिष्यामि नैषध ।
एवं तव महाबाहो दोषो न भवितेति ह ॥

3.53.31

एतावदेव विबुधा यथावृत्तमुपाहृतम् । मया शेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc