भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.303

3.303.1

भगवन्तमहं भक्तो यथा मां वेत्थ गोपते ।
तथा परमतिग्मांशो नास्त्यदेयं कथञ्चन ॥

3.303.2

न मे दारा न मेपुत्रा न चात्मा सुहृदो न च ।
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ॥

3.303.3

इष्टानां च महात्मानो भक्तानां च न संशयः ।
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ॥

3.303.4

इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि ।
जानीत इतिवै कृत्वा भगवानाह मद्धितम् ॥

3.303.5

भूयश्च शिरसा याचे प्रसाद्य च पुनःपुनः ।
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ॥

3.303.6

बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् ।
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ॥

3.303.7

प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ।
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति ॥

3.303.8

व्येतु सन्तापजं दुःखं तव भास्कर मानसम् ।
अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम् ॥

3.303.9

तवापि विदितं देव ममाप्यस्त्रबलं महत् ।
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ॥

3.303.10

इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम ।
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ॥
सूर्य उवाच ।

3.303.11

यदि तात ददास्येते वज्रिणे कुण्डले शुभे ।
त्वमप्येनमथो ब्रूया विजयार्थं महाबल ॥

3.303.12

नियमेन प्रदद्यास्त्वं कुण्डलेवै शतक्रतोः ।
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ॥

3.303.13

अर्जुनन विनाशं हि तव दानवसूदनः ।
प्रार्तयानो रणे वत्स कुण्डले ते जिहीर्षति ॥

3.303.14

स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः ।
अभ्यर्थयेथा देवेशममोघार्थं पुरन्दरम् ॥

3.303.15

अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् ।
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ॥

3.303.16

इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले ।
तया त्वं कर्ण सन्ग्रामे हनिष्यसि रणे रिपून् ॥

3.303.17

नाहत्वा हि महाबाहो शत्रूनेति करं पुनः ।
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ॥
वैशम्पायन उवाच ।

3.303.18

एवमुक्त्वा सहस्रांशुः सहसाऽन्तरधीयत ।
कर्णस्तु बुबुधे राजन्स्वप्नान्ते प्रव्यथन्निव ॥

3.303.19

प्रतिबुद्धस्तु राधेयः स्वप्नं सञ्चिन्त्य भारत ।
चकार निश्चयं राजञ्शक्त्यर्थं वदतांवर ॥

3.303.20

यदि मामिन्द्र आयाति कुण्डलार्थं परन्तप ।
शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह ॥

3.303.21

स कृत्वा प्रातरुत्थाय कार्याणि भरतर्षभ ।
ब्राह्मणान्वाचयित्वा च यथाकार्यमुपाक्रमत् ॥

3.303.22

विधिना राजशार्दूल मुहूर्तमजपत्तदा ।
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ॥

3.303.23

यथा दृष्टं यथातत्त्वं यथोक्तमुभयोर्निसि ।
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ॥

3.303.24

तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः ।
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ॥

3.303.25

ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा । शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc