भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.291

3.291.1

ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते ।
निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ॥

3.291.2

संवृतोराक्षसैर्घेरैर्विविधायुधपाणिभिः ।
अभिदुद्राव रामं स पोथयन्हरियूथपान् ॥

3.291.3

तमाद्रवन्तं सन्क्रुद्ध मैन्दनीलनलाङ्गदाः ।
हनुमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ॥

3.291.4

ते दशग्रीवसैन्यं तदृक्षवानरपुङ्गवाः ।
द्रुमैर्विध्वंसयाञ्चक्रुर्दशग्रीवस्य पश्यतः ॥

3.291.5

ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः ।
मायावी चासृजन्मायां रावणो राक्षसाधिपः ॥

3.291.6

तस्य देहविनिष्क्रान्ताः शतशोऽथ सहस्रशः ।
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ॥

3.291.7

तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् ।
अथ भूयोपि मायां स व्यदधाद्राक्षसाधिपः ॥

3.291.8

कृत्वा रामस् रूपाणि लक्ष्मणस्य च भारत ।
अभिदुद्राव रामं च लक्ष्मणं च दशाननः ॥

3.291.9

ततस्ते राममर्च्छन्तो लक्ष्मणं च क्षपाचराः ।
अभिपेतुस्तदा रामं प्रगृहीतशरासनाः ॥

3.291.10

तां दृष्ट्वाराक्षसेन्द्रस् मायामिक्ष्वाकुनन्दनः ।
उवाच रामः सौमित्रिमसम्भ्रान्तो बृहद्वचः ॥

3.291.11

जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् ।
इत्युक्त्वाऽभ्यहनद्रामो लक्ष्मणश्चात्मरूपकान् ॥

3.291.12

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ।
उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥
मातलिरुवाच ।

3.291.13

अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः ।
त्वदर्थमिह सम्प्राप्तः सन्देशाद्वै शतक्रतोः ॥

3.291.14

अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् ।
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ॥

3.291.15

तदनन नरव्याघ्र मया यत्तेन संयुगे ।
स्यन्दनेन जहिक्षिप्रं रावणं मा चिरं कृथाः ॥

3.291.16

इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः ।
मायैषाराक्षसस्येति तमुवाच विबीषणः ॥

3.291.17

नेयं माया नरव्याघ्ररावणस् दुरात्मनः ।
तदातिष्ठ रथंशीघ्रमिमसैन्द्रं महाद्युते ॥

3.291.18

ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् ।
रथेनाभिपपाताथ दशग्रीवं रुषाऽन्वितः ॥

3.291.19

हाहाकुतानि भूतानि रावणे समभिद्रुते ।
सिंहनादाः सपटहादिति दिव्यास्तथाऽनदन् ॥

3.291.20

[दशकन्धरराजसून्वोस्तथा युद्धमभून्महत् । अलब्धोपममन्यत्रतयोरेव तथाऽभवत् ॥ ]

3.291.21

सरामाय महाघोरं विससर्ज निशाचरः ।
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डभिवोद्यतम् ॥

3.291.22

तच्छूलं सत्वरं रामश्चच्छेद निशितैः शरैः ।
तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ॥

3.291.23

ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्छरान् ।
सहस्रायुतशो रामे शस्त्राणि विविधानि च ॥

3.291.24

ततो भुशुण्डीः शूलानि मुसलानि परश्वथान् ।
शक्तीश्च विविधाकाराः शतघ्नीश्च शितान्क्षुरान् ॥

3.291.25

तां मायांविविधां दृष्ट्वा दशग्रीवस्य रक्षसः ।
भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ॥

3.291.26

ततः सुपत्रं सुमुखंहेमपुङ्गं शरोत्तमम् ।
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ॥

3.291.27

तं प्रेक्ष्यबाणं रामेण ब्रह्मास्त्रेणानुमन्त्रितम् ।
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ॥

3.291.28

अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः ।
ब्रह्मास्त्रोदीरणाच्छत्रोर्देवदानवकिन्नराः ॥

3.291.29

ततः ससर्ज तं रामः शरमप्रतिमौजसम् ।
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ॥

3.291.30

मुक्तमात्रेण रामेण दूराकृष्टेन भारत । स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः ।
प्रजज्वाल महाज्वालेनाग्निनाभिपरिप्लुतः ॥

3.291.31

ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः ।
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥

3.291.32

तत्यजुस्तं महाभागं पञ्चभूतानि रावणम् ।
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ॥

3.291.33

शरीरधातवो ह्यस् मासं रुधिरमेव च । नेशुर्ब्रह्मास्त्रनिर्दग्दा न च भस्माप्यदृश्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc