भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.28

3.28.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ॥

3.28.2

असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् ।
बलिः पप्रच्छ दैत्येनद्रं प्रह्लादं पितरं पितुः ॥

3.28.3

क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत ।
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ॥

3.28.4

श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् ।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥

3.28.5

तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः ।
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ॥
प्रह्लाद उवाच ।

3.28.6

न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।
इति तात विजानीहि द्वयमेतदसंशयम् ॥

3.28.7

यो नित्यं क्षमते तात बहून्दोषान्स विन्दति ।
भृत्याः परिभवन्त्येनमुदासीनास्तथाऽरयः ॥

3.28.8

सर्वभूतानि चाप्यस् न नमन्ते कदाचन ।
तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता ॥

3.28.9

अवज्ञाय हितं भृत्या भजन्ते बहुदोषताम् ।
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ॥

3.28.10

यानं वस्त्राण्यलन्काराञ्शयनान्यासनानि च ।
भोजनान्यथ पानानि सर्वोपकरणानि च ॥

3.28.11

आददीरन्नधिकृता यथाकाममचेतसः ।
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ॥

3.28.12

न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन ।
अव्रज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ॥

3.28.13

क्षमिणं तादृशं तान्त ब्रुवन्ति कटुकान्यपि ।
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ॥

3.28.14

अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः ।
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ॥

3.28.15

तथा च नित्यमुदिता यदि नाल्पमपीश्वरात् । अकृतोपद्रवः कश्चिन्महानपि न पूज्यते ।

3.28.16

पूजयन्ति नरा नागान्न तार्क्ष्यं नामघातिनम् ॥ एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् ।

3.28.17

अथ वैरोचने दोषानिमान्विद्ध्यक्षमांवताम् ॥
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ॥

3.28.18

अस्थाने यदि वा स्थाने सततं रजसावृतः ।
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ॥

3.28.19

मित्रैः सह विरोधं च प्राप्नुते तेजसाऽवृतः ।
आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ॥

3.28.20

सोऽवमानादर्थहानिमुपालम्भमनादरम् ।
सन्तापद्वेषमोहांश्च शत्रूंश्च लभते नरः ॥

3.28.21

क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयात् ।
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ॥

3.28.22

योपकर्तॄश्च हर्तॄश्च तेजसैवोपगच्छति ।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥

3.28.23

यस्मादुद्विजतेलोकः कथं तस्य भवो भवेत् ।
अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ॥

3.28.24

तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ।
कालेकाले तु सम्प्राप्ते मृदुस्तीक्ष्णोपि वा भवेत् ॥

3.28.25

काले मृदुर्यो भवति काले भवति दारुणः ।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥

3.28.26

क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् ।
ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः ॥

3.28.27

पूर्वोपकारी यस्ते स्यादपराधे गरीयसि ।
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ॥

3.28.28

अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम् ।
न हि सर्वत्र पाण्डित्वं सुलभं पुरुषेण वै ॥

3.28.29

अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् ।
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथाऽनृजून् ॥

3.28.30

सर्वस्यैकोपराधस्ते क्षन्तव्यः प्राणिनो भवेत् ।
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ॥

3.28.31

अजानता भवेत्कश्चिदपराधः कृतो यदि ।
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥

3.28.32

मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम् ।
नासाध्यं मृदुना किञ्चित्तस्मात्तीव्रतरं मृदु ॥

3.28.33

देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः । अन्वीक्ष्यकारणं चैव कार्यं तेजः क्षमापि वा ॥

3.28.34

नादेशकाले किञ्चित्स्याद्देशकालौ प्रतीक्षताम् ।
तथा लोकभयाच्चैव क्षन्तव्यमपराधितम् ॥

3.28.35

एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः ।
अतोऽन्यथाऽनुवर्तत्सु तेजसः काल उच्यते ॥

3.28.36

तदहं तेजसः कालं तव मन्ये नराधिप ।
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥

3.28.37

न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति ।
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ॥

3.28.38

मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः । काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc