भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.275

3.275.1

प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ ।
रक्षसा जानकी तस्य हृता भार्या बलीयसा ॥

3.275.2

आश्रमाद्राक्षसेन्द्रेण रावणेन दुरात्मना ।
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ॥

3.275.3

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः ।
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ॥
युधिष्ठिर उवाच ।

3.275.4

कस्मिन्नामः कुले जातः किंवीर्यः किम्पराक्रमः ।
रावणः कस्य पुत्रो वा किं वैरं तस् तेन ह ॥

3.275.5

एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि । त्वया प्रत्यक्षोदृष्टं यथासर्वमशेषतः ।
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ॥
मार्कण्डेय उवाच ।

3.275.6

अजोनामाभवद्राजा महानिक्ष्वाकुवंशजः ।
तस् पुत्रो दशरथःशश्वत्स्वाध्यायवाञ्छुचिः ॥

3.275.7

अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः ।
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ॥

3.275.8

रामस्य माता कौसल्या कैकेयी भरतस्य तु ।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परन्तपौ ॥

3.275.9

विदेहराजो जनकः सीता तस्यात्मजा विमो ।
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ॥

3.275.10

एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् ।
रावणस्यापि ते जन्म व्याख्यास्यामि रजनेश्वर ॥

3.275.11

पितामहो रावणस्य साक्षाद्देवः प्रजापतिः ।
स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ॥

3.275.12

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः ।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ॥

3.275.13

पितरं स समुत्सृज्य पितामहमुपस्थितः ।
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ॥

3.275.14

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः ।
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ॥

3.275.15

पितामहस्तुप्रीतात्मा ददौ वैश्रवणस् ह ।
अमरत्वं धनेशत्वं लोकपालत्वमेव च ॥

3.275.16

ईशानन तथा सख्यं पुत्रं च नलकूवरम् ।
राजधानीनिवेसं च लङ्कांरक्षोगणान्विताम् ॥

3.275.17

विमानं पुष्पकं नाम कामगं च ददौ प्रभुः । यक्षाणामाधिपत्यञ्च राजराजत्वमेव च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc