भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.26

3.26.1

वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु ।
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ॥

3.26.2

ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः ।
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ॥

3.26.3

यजुषामृचां साम्नां च गद्यानां चैव सर्वशः ।
आसीदुच्चार्यमाणानां निःस्वनो हृदयन्गमः ॥

3.26.4

ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्च धीमताम् ।
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ॥

3.26.5

अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् ।
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ॥

3.26.6

पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् ।
होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम् ॥

3.26.7

चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः ।
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ॥

3.26.8

आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः ।
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः सन्गतास्त्वया ॥

3.26.9

इदं तु वचनं पार्थ शृण्वेकाग्रमना मम ।
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ॥

3.26.10

ब्राह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।
उदीर्णे दहतः शत्रून्वनानीवाग्निमारुतौ ॥

3.26.11

नाब्राह्मणस्तात चिरं बुभूषे- दिच्छन्नमं लोकममुं च जेतुम् ।
विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं हन्ति नृपः सपत्नान् ॥

3.26.12

चरन्नैश्रेयसं धर्मं प्रजापालनकारितम् ।
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ॥

3.26.13

अनूनमासीदसुरस्य कामै- वैरोचनेः श्रीरपि चाक्षयाऽसीत् ।
लब्ध्वा महीं ब्राह्मणसम्प्रयोगा- त्तेष्वाचरन्दुष्टमयथो व्यनश्यत् ॥

3.26.14

नाब्राह्मणं भूमिरियं सभूति- र्वर्णं द्वितीयं भजते चिराय ।
समुद्रनेमिर्नमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतम् ॥

3.26.15

कुञ्चरस्येव सन्ग्रामे परिगृह्याङ्कुशग्रहम् ।
ब्राह्माणैर्विप्रहीनस्य क्षत्रस्य क्षीयते बलम् ॥

3.26.16

ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् ।
तौ यदा चरतः सार्धं तदा लोकः प्रसीदती ॥

3.26.17

यथा हि सुमहानग्निः कक्षं दहति सानिलः ।
तथा दहति राजन्यो ब्राह्मणेन समं रिपुम् ॥

3.26.18

ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत् ।
अलब्धस्य च लाभाय लब्धस्य परिवृद्धये ॥

3.26.19

अलब्धलाभाय च लब्धवृद्धये । यथार्हतीर्थप्रतिपादनाय ।
यशस्विनं वेदविदं विपश्चितं बहुश्रुं ब्राह्मणमेव वासयेत् ॥

3.26.20

ब्राह्मणेषूत्तमा भक्तिस्तव नित्यं युधिष्ठिर ।
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ॥
वैशम्पायन उवाच ।

3.26.21

ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमम्पूजयन् ।
युधिष्ठिरं स्तूयमाने भूयः सुमनसोऽभवन् ॥

3.26.22

द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः ।
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ॥

3.26.23

कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः ।
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ॥

3.26.24

कृतवाक्च सुवाश्चैव बृहदश्चो विभावसुः ।
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ॥

3.26.25

एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः । अजातशत्रुमानर्चुः पुरन्दरमिवर्षयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc