भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.256

3.256.1

जित्वा तु पृथिवीं राजन्सूतपुत्रो जनाधिप ।
अब्रवीत्परवीरघ्नो दुर्योधनमिदं वचः ॥

3.256.2

दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव ।
श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिन्दम ॥

3.256.3

तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम ।
तां पालय यथा शक्रो हतशत्रुर्महामनाः ॥
वैशम्पायन उवाच ।

3.256.4

एवमुक्तस्तु कर्णेन कर्णं राजाऽब्रवीत्पुनः ।
न किञ्चिद्दुर्लभं तस्य यस् त्वं पुरुषर्षभ ॥

3.256.5

सहायश्चानुरक्तश्च मदर्थं च समुद्यतः ।
अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ॥

3.256.6

राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा ।
कमम स्पृहा समुत्पन्ना तां सम्पादय सूतज ॥

3.256.7

एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् ।
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ॥

3.256.8

आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि ।
सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ॥

3.256.9

ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः ।
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिन्दम ॥

3.256.10

बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः ।
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ॥

3.256.11

एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशाम्पते ।
पुरोहितं समानाय्य वचनं चेदमब्रवीत् ॥

3.256.12

राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् ।
आहरस्व यथाशास्त्रं यथान्यायं यथाक्रमम् ॥

3.256.13

स एवमुक्तो नृपतिमुवाच द्विजसत्तमः ॥

3.256.14

ब्राह्मणैः सहितो राजन्ये तत्रासन्समागताः । न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे ।
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ॥

3.256.15

दीर्घायुर्जीवति च ते धृतराष्ट्रः पिता नृप ।
अतश्चापि विरुद्धस्ते क्रतुरेणष नृपोत्तमः ॥

3.256.16

अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो ।
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ॥

3.256.17

य इमे पृथिवीपालाः करदास्तव पार्थिव ।
ते करान्सम्प्रयच्छन्तु सुवर्णं च कृताकृतम् ॥

3.256.18

तेन ते क्रियतामद्यलाङ्गलं नृपसत्तम ।
यज्ञवाटस् ते भूमिः कृष्यतां तेन भारत ॥

3.256.19

तत्र यज्ञो नृपश्रेष्टः प्रभूतान्नः सुसंस्कृतः ।
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ॥

3.256.20

एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः ।
एतेन नेष्टवान्कश्चिदृतेविष्णुं पुरातनम् ॥

3.256.21

राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः ।
अस्माकं रोचते चैव श्रेयश्च तव भारत ॥

3.256.22

निर्विघ्नश्च भवत्येष सफला स्यात्स्पृहा तव ।
तस्मादेष महाबाहो तव यज्ञः प्रवर्तताम् ॥

3.256.23

एवमुकत्स्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः ।
कर्णं च सौबलं चैव भ्रातॄश्चैवेदमब्रवीत् ॥

3.256.24

रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः ।
रोचते यदि युष्माकं तस्मात्प्रब्रूत माचिरम् ॥

3.256.25

एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् ।
सन्दिदेश ततोराजाव्यापारस्थान्यथाक्रमम् ॥

3.256.26

हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः । यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc