महाभारत · अध्याय 3.252
प्रायोपविष्टं राजानं दुर्योधनममर्षणम् ।
उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ॥
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया ।
मया हृतां श्रियं स्फीतां तां मोहादपहासि किम् ॥
त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि ।
अद्य वाऽप्यवगन्छामि न वृद्धाः सेवितास्त्वया ॥
यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति ।
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ॥
अतिभीरुं मृदुं क्लीबं दीर्घसूत्रं प्रमादिनम् ।
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रिताः ॥
सत्कृतस्य हि ते शोको विपरीते कथं भवेत् ।
मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ॥
यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः ।
तत्र शोचसि राजेन्द्रविपरीतमिदं तव ॥
प्रसीदमा त्यजात्मानं तुष्टश्च सुकृतं स्मर । कप्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि ।
क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि ॥
सौभ्रात्रं पाण्डवैः कृत्वा समवस्ताप्य चैव तान् ।
पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्स्यसि ॥
वैशम्पायन उवाच ।
शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च ।
पादयोः पतितं वीरं विकृतं भ्रातृसौहृदात् ॥
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिन्दमम् ।
उत्थाप्य सम्परिष्वज्य प्रीत्याऽजिघ्रत मूर्धनि ॥
कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ । निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा ।
व्रीडयाऽभिपरीतात्मा नैराश्यमगमत्परम् ॥
सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् ।
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ॥
नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत ।
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने ॥
गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम ।
त एवमुक्ताः प्रत्यूच् राजानमरिमर्दनम् ॥
या गतिस्तव राजेन्द्र साऽस्माकमपि भारत ।
कथं वा सम्प्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ॥
वैशम्पायन उवाच ।
स सुहृद्भिरमात्यैश्च भातृभिः स्वजनेन च ।
बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ॥
दर्भास्तरणमास्तीर्य निश्चयाद्धृतराष्ट्रजः ।
संस्पृश्यापः शुचिर्भूत्वा भूतले समुपस्थितः ॥
कुशचीराम्बरधरः परं नियममास्थितः ।
वाग्यतो राजशार्दूलः स स्वर्गगतिकाम्यया ॥
मनसोपचितिं कृत्वा निरस् च बहिःक्रियाः ।
तस्थौप्रायोपवेशेऽथमतिं कृत्वा सुनिश्चयाम् ॥
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः ।
पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ॥
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै ।
आह्वानाय तदा चक्रुः कर्म वैतानसम्भवम् ॥
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः । अथर्ववेदप्रोक्तैश्च याश्चौपनिषदाः क्रियाः ।
मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ॥
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः ।
ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ॥
अध्वर्यवो दानवानां कर्म प्रावर्तयंस्ततः ॥
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता ।
कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ॥
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना ।
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ॥
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा ।
निमेषादगमच्चापि यत्र राजा सुयोधनः ॥
समादाय च राजानं प्रविवेश रसातलम् ।
दानवानां मुहूर्ताच्च पुरतस्तं न्यवेदयत् ॥
तमानीतं नृपं दृष्ट्वा रात्रौ सन्गत्य दानवाः ।
प्रहृष्टमनसः सर्वे किञ्चिदुत्फुल्ललोचनाः ॥
दृढमेनं परिष्यज्य दृष्ट्वा च कुशलं तदा । साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0