भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.233

3.233.1

भगवञ्श्रोतुमिच्छामि नामानि च महात्मनः ।
तरिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम ॥
वैशम्पायन उवाच ।

3.233.2

इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ ।
उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥

3.233.3

आगेयश्चैव स्कनदश्च दीप्तकीर्तिरनामयः ।
मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥

3.233.4

कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः ।
शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥

3.233.5

अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ।
दीप्तशक्तिः प्रशान्तात्मा नद्रकुक्कुटमोहनः ॥

3.233.6

षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः ।
कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥

3.233.7

प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ।
सुव्रतो ललितश्चैवबालक्रीडनकप्रियः ॥

3.233.8

खचारी ब्रह्मचारी च शूरः शरवणोद्भवः । विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा ।
वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तु ॥

3.233.9

नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत् ।
स्वर्गं कीर्तिं धनं चैव स लभेन्नात्र संशयः ॥
मार्कण्डेय उवाच ।

3.233.10

स्तोष्यामि देवैरृषिभिश्च जुष्टं शक्त्या गुहन्नामभिरप्रमेयम् ।
षडाननं शक्तिधरं सुवीरं निबोध चैतानि कुरुप्रवीर ॥

3.233.11

ब्रह्मण्यो वै ब्रहमजो ब्रह्मविच्च ब्रह्मेशयो ब्रह्मवतांवरिष्ठः ।
ब्रह्मप्रियो ब्राह्मणसर्वमन्त्री त्वं ब्रह्मणां ब्राह्मणानाञ्च नेता ॥

3.233.12

स्वाहा स्वधा त्वम्परमं पवित्रं मन्त्रस्तुतस्त्वम्प्रथितः षडर्चिः ।
संवत्सरस्त्वमृतवश्च षड्वै मासार्धमासाश्चदिनं दिशश्च ॥

3.233.13

त्वम्पुष्कराक्षस्त्वरविन्दवक्रः सहस्रचक्षोसि सहस्रबाहुः ।
त्वं लोकपालः परमं हविश्च त्वं भावनः सर्वसुरासुराणाम् ॥

3.233.14

त्वमेव सेनाधिपतिः प्रचण्डः प्रभुर्विभुश्चाप्यथ शक्रजेता ।
सहस्रपात्त्वं धरणी त्वमेव सहस्रतुष्टिश्च सहस्रभुक्व ॥

3.233.15

सहस्रशीर्षस्त्वमनन्तरूपः । सहस्रपात्त्वन्दशशक्तिधारी ।
गङ्गासुतस्त्वं स्वमतेन देव स्वाहामहीकृत्तिकानां तथैव ॥

3.233.16

त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी ।
दीक्षाऽसि सोमो मरुतः सदैव धर्मोऽसि वायुरचलेन्द्र इन्द्रः ॥

3.233.17

सनातनानामपि शाश्वतस्त्वं प्रभुः प्रभूणामपि चोग्रधन्वा ।
ऋतस्य कर्ता दितिजान्तकस्त्वं जता रिपूणां प्रवरः सुराणाम् ॥

3.233.18

सूक्ष्मं तपस्तत्परमं त्वमेव परावरज्ञोसि परावरस्त्वम् ।
धर्मस्य कामस्य परस्य चैव त्वत्तेजसा कत्स्नमिदं महात्मन् ॥

3.233.19

व्याप्तं जगत्सर्वसुरप्रवीर शक्त्या मया संस्तुत लोकनाथ ।
नमोस्तु ते द्वादशनेत्रबाहो अतः परं वेद्मि गतिं न तेऽहम् ॥

3.233.20

स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः ।
श्रावयेद्ब्राह्मणेभ्यो यः शृणुयाद्वा द्विजेरितम् ॥

3.233.21

धनमायुर्यशो दीप्तं पुत्राञ्शत्रुजयं तथा । स पुष्टितुष्टी सम्प्राप्य स्कन्दसालोक्यमाप्नुयात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc