भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.205

3.205.1

इक्ष्वाकौ संस्तिते राजञ्शशादः पृथिवीमिमाम् ।
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥

3.205.2

शशादस्य तु दायाद ककुत्स्थो नाम वीर्यवान् ।
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ॥

3.205.3

विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रश्च जज्ञिवान् ।
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥

3.205.4

जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ॥

3.205.5

बृहदश्वस् दायादः कुवलाश्व इति स्मृतः ।
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंसतिः ॥

3.205.6

सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ।
कुवलाश्वश्च पितृतोगुणैरभ्यधिकोऽभवत् ॥

3.205.7

समये तं तदा राज्ये बृहदश्वोऽभ्यषेचयत् ।
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ॥

3.205.8

पुत्रसन्क्रामितश्रीस्तु बृहदश्वो महीपतिः ।
जगाम तपसे धीमांस्तपोवनममित्रहा ॥

3.205.9

अथ शश्वाव राजर्षिं तमुदङ्को नराधिप ।
वनं सम्प्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ॥

3.205.10

तमुदङ्को महातेजाः सर्वास्त्रविदुषांवरम् ।
न्यवारयदमेयात्मा समासाद्य पुरोत्तमे ॥
उदङ्क उवाच ।

3.205.11

भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि ।
निरुद्विग्रा वयं राजंस्त्वत्प्रदाद्वसेमहि ॥

3.205.12

त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥

3.205.13

पालन हि महान्धर्मः प्रजानामिह दृश्यते ।
न तथा दृश्यतेऽरण्ये माभूत्ते बुद्धिरीदृशी ॥

3.205.14

ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते ।
प्रजानां पालने यत्नः पुरा राजर्षिभिः कृतः ॥

3.205.15

रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ।
निरुद्विग्नस्तपस्तप्तुं न हि शक्नोमि पार्थिव ॥

3.205.16

ममाश्रमसमीपे वै समेषु मरुधन्वसु । समुद्रवालुकापूर्ण उज्जालक इति स्मृतः ।
बहुयोजनविस्तीर्णो बहुयोजनमायतः ॥

3.205.17

तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः । मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः ।
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः ॥

3.205.18

तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ॥

3.205.19

शेते लोकविनाशाय तप आस्थाय दारुणम् ।
त्रिदशानां विनाशाय लोकानां चापि पार्थिव ॥

3.205.20

अवध्यो दैवतानां हि दैत्यानामथ रक्षसाम् । नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः ।
अवाप्यस वरं राजन्सर्वलोकपितामहात् ॥

3.205.21

तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा ।
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ॥

3.205.22

क्रूरस्य तस्य स्वपतो वालुकान्तर्हितस्य च ।
संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते ॥

3.205.23

यदा तदा भूश्चलति सशैलवनकानना ।
तस्य निःश्वासवातेन रज उद्धूयते महत् ॥

3.205.24

आदित्यरथमाश्रित्य सप्ताहं भूमिकम्पनम् ।
सविस्फुलिङ्गं सज्वालं धूममिश्रं सुदारुणम् ॥

3.205.25

तेन राजन्न शक्नोमि तस्मिन्स्तातुं स्वआंश्रमे ॥

3.205.26

तं विनाशय राजेन्द्र लोकानां हितकाम्यया ।
लकाः स्वस्था भविष्यन्ति तस्मिन्विनिहतेऽसुरे ॥

3.205.27

धुन्धुनामानमत्युग्रं दानवं धोरविग्रहम् ।
समरे धोरतुमुले विनाशय महेषुणा ॥

3.205.28

त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः ।
तेजसा तव तेजश्च विष्णुराप्यायविष्यति ॥

3.205.29

विष्णुना च वरो दत्तः पूर्वं मम महीपते ॥

3.205.30

यस्तं महासुरं रौद्रं वधिष्यति महीपतिः ।
तेजस्तद्वैष्णवमिति प्रवेक्ष्यति दुरासदम् ॥

3.205.31

तत्तेजस्त्वंसमाधाय राजेन्द्र भुवि दुःसहम् ।
तं निषूदय सन्दिष्टो दैत्यं रौद्रपराक्रमम् ॥

3.205.32

न हि धुन्धुर्महातेजास्तेजसाऽल्पेन शक्यते । निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc