भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.203

3.203.1

श्रुत्वा स राजा राजर्षिरिन्द्रद्युम्नस्य तत्तदा ।
मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् ॥

3.203.2

युधिष्ठिरो महाराज पुनः पप्रच्छ तं मुनिम् । कीदृशीषु ह्यवस्थासु दत्त्वा दानं महामुने ।
इन्द्रलोकं त्वनुभवेत्पुरुषस्तद्ब्रवीहि मे ॥

3.203.3

गार्हस्थ्येऽप्यथवा बाल्ये यौवने स्थाविरेऽपि वा ।
यथा फलं समश्नाति तथा त्वं कथयस्व मे ॥
मार्कण्डेय उवाच ।

3.203.4

वृथा जन्मानि चत्वारि वृथा दानानि षोडश ।
वृथा जन्म ह्यपुत्रस् ये च धर्मबहिष्कृताः ॥

3.203.5

परपाकं च येऽश्नन्ति आत्मार्थं च पचेत्तु यः ।
पर्यश्नन्ति वृथा यत्र तदसत्यं प्रकीर्त्यते ॥

3.203.6

आरूढपतिते दत्तमन्यायोपहृतं च यत् ।
व्यर्थं तु पतिते दानं ब्राह्मणे तस्करे तथा ॥

3.203.7

गुरौ चानृतिके पापे कृतघ्ने ग्रामयाजके ।
वेदविक्रयिणे दत्तं तथा वृषलयाजके ॥

3.203.8

ब्रह्मबन्धुषु यद्दत्तं यद्दत्तं वृषलीपतौ ।
स्त्रीजितेषु च यद्दत्तं व्यालग्राहे तथैव च ॥

3.203.9

परिचारकेषु यद्दत्तं वृथा दानानि षोडश ।
तमोवृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च ॥

3.203.10

भुङ्क्ते च दानं तत्सर्वं गर्भस्थस्तु नरः सदा ।
ददद्दानं द्विजातिभ्यो वृद्धभावेन मानवः ॥

3.203.11

तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव ।
दातव्यानि द्विजातिभ्यः स्वर्गमार्गजिगीषया ॥
युधिष्ठिर उवाच ।

3.203.12

चातुर्वर्ण्यस्य सर्वस्य वर्तमानाः प्रतिग्रहे ।
केन विप्रा विशेषेण तारयन्ति तरन्ति च ॥
मार्कण्डेय उवाच ।

3.203.13

जपैर्मन्त्रैश्च होमैश्च स्वाध्यायाध्यायनेन च ।
नावं वेदमयीं कृत्वातारयन्ति तरन्ति च ॥

3.203.14

ब्राह्मणांस्तोषयेद्यस्तु तुष्यन्ते तस्य देवताः ।
वचनाच्चापि विप्राणां स्वर्गलोकमवाप्नुयात् ॥

3.203.15

अनन्तं पुण्यलोकं तु गन्ताऽसौ तु न संशयः ।
श्लेष्मादिभिर्व्याप्ततनुर्म्रियमाणोऽविचेतनः ॥

3.203.16

ब्राह्णा एव सम्पूज्याः पुण्यं स्वर्गमभीप्सता ।
श्राद्धकाले तु यत्नेन भोक्तव्या ह्यजुगुप्सिताः ॥

3.203.17

दुर्बलः कुनस्वी कुष्ठी मायावी कुण्डगोलकौ ।
वर्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः ॥

3.203.18

जुगुप्सितं हि यच्छ्राद्धं दहत्यग्निरिवेन्धनम् ॥

3.203.19

ये ये श्राद्धे न पूज्यन्ते मूकान्धबधिरादयः ।
तेऽपिसर्वे नियोक्तव्या मिश्रिता वेदपारगैः ॥

3.203.20

प्रतिग्रहश्च वै देयः शृणु यस् युधिष्ठिर ।
प्रदातारं तथाऽत्मानं यस्तारयति शक्तिमान् ॥

3.203.21

तस्मिन्देयं द्विजे दानं सर्वागमविजानता ।
प्रदातारं तथाऽत्मानं तारयेद्यः स शक्तिमान् ॥

3.203.22

न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः ।
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिभोजने ॥

3.203.23

तस्मात्त्वंसर्वयत्नेन यतस्वातिथिभोजने ॥

3.203.24

पादोदकम्पादघृतन्दीपमन्नं प्रतिश्रयम् ।
प्रयच्छन्ति तु ये राजन्नोपसर्पन्ति ते यमम् ॥

3.203.25

देवमाल्यापनयनं द्विजोच्छिष्टावमार्जनम् । आकल्पपरिचर्या च गात्रसंवाहनानि च ।
अत्रैकैकं नृपश्रेष्ठ गोदानाद्व्यतिरिच्यते ॥

3.203.26

कपिलायाः प्रदानात्तु मुच्यते नात्र संशयः ।
तस्मादलन्कृतां दद्यात्कपिलां तु द्विजातये ॥

3.203.27

श्रोत्रियाय दरिद्राय गृहस्थायाग्निहोत्रिणे ।
पुत्रदाराभिभूताय तथा ह्यनुपकारिणे ॥

3.203.28

एवंविधेषु दातव्या न समृद्धेषु भारत ।
को गुणो भरतश्रेष्ठ समृद्धेष्वभिवर्जितम् ॥

3.203.29

एकस्यैका प्रदातव्या न बहूनां कदाचन । सा गौर्विक्रयमापन्ना हन्यात्रिपुरुषं कुलम् ।
न तारयति दातारं ब्राह्मणं नैव नैव तु ॥

3.203.30

ब्राह्मणस्य विशुद्धस्य सुवर्णं यः प्रयच्छति ।
सुवर्णानां शतं तेन दत्तं भवति शाश्वतम् ॥

3.203.31

अनड्वाहं तु यो दद्याद्बलवन्तं धुरन्धरम् ।
स निस्तरति दुर्गाणि स्वर्गलोकं च गच्छति ॥

3.203.32

वसुन्धरां तु यो दद्याद्द्विजाय विदुषात्मने ।
दातारं ह्यनुगच्छन्ति सर्वे कामाभिवाञ्छिताः ॥

3.203.33

पृच्छन्ति चान्नदातारं वदन्ति पुरुषा भुवि ।
अध्वनि क्षीणगात्राश्च पांसुना चावकुण्ठिताः ॥

3.203.34

तेषामेव श्रमार्तानां यो ह्यन्नं कथयेद्बुधः ।
अन्नदातृसमः सोपि कीर्त्यते नात्र संशयः ॥

3.203.35

तस्मात्त्वं सर्वदानानि हित्वाऽन्नं सम्प्रयच्छ ह ।
न हीदृशं पुण्यफलं विचित्रामिह विद्यते ॥

3.203.36

यथाशक्ति च यो दद्यादन्नं विप्रेषु संस्कृतम् ।
स तेन कर्मणाऽप्नोति प्रजापतिसलोकताम् ॥

3.203.37

अन्नमेव विशिष्टं हि तस्मात्परतरं न च ।
अन्नं प्रजापतिश्चोक्तः स च संवत्सरो मतः ॥

3.203.38

संवत्सरस्तु यज्ञोऽसौ सर्वं यज्ञे प्रतिष्ठितम् ।
तस्मात्सर्वाणि भूतानि स्थावराणि चराणि च ॥

3.203.39

तस्मादन्नं विशिष्टं हि सर्वेभ्यैति विश्रुतम् ॥

3.203.40

येषां तटाकानि महोदकानि वाप्यश्चकूपाश्चप्रतिश्रयाश्च ।
अन्नस्य दानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति ॥

3.203.41

धान्यं श्रमेणार्जितवित्तसञ्चितं विप्रे सुशीले प्रतियच्छते यः ।
वसुन्धरा तस्य भवेत्सुतुष्टा धारां वसूनां प्रतिमुञ्चतीव ॥

3.203.42

अन्नदाः प्रथमं यान्ति सत्यवाक्यदनन्तरम् ।
अयाचितप्रदाता च समं यान्ति त्रयो जनाः ॥
वैशम्पायन उवाच ।

3.203.43

कौतूहलसमुत्पन्नः पर्यपृच्छद्युधिष्ठिरः ।
मार्कण्डेयं महात्मानं पुनरेव सहानुजः ॥

3.203.44

यमलोकस्य चाध्वानमन्तरं मानुषस्य च । कीदृशं किम्प्रमाणं वा कथं वा तन्महामुने ।
तरन्ति पुरुषाश्चैव केनोपायेन शंस मे ॥
मार्कण्डेय उवाच ।

3.203.45

सर्वगुह्यतनं प्रश्नं पवित्रमृषिसंस्तुतम् ।
कथयिष्यामि ते राजन्धर्मं धर्मभृतांवर ॥

3.203.46

षडशीतिसहस्राणि योजनानां नराधिप ।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥

3.203.47

आकाशं तदपानीयं घोरं कान्तारदर्शनम् ।
न तत्र वृक्षच्छाया वा पानीनं केतनानि च ॥

3.203.48

विश्रमेद्यत्र वै श्रान्तः पुरुषोऽध्वनि कर्शितः ।
नीयते यमदूतैस्तु यमस्वाज्ञाकरैर्बलात् ॥

3.203.49

नराः स्त्रियस्तथैवान्ये पृथिव्यां जीवसञ्ज्ञिताः ।
ब्रह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव ॥

3.203.50

हयादीनां प्रकृष्टानि तेऽध्वानं यान्ति वै नराः ।
सन्निवार्यातपं यानति च्छत्रेणैव हि च्छत्रदाः ॥

3.203.51

तृप्ताश्चैवान्नदातारो ह्यतृप्ताश्चाप्यनन्नदाः ।
वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः ॥

3.203.52

हिरण्यदाः सुखं यान्ति पुरुषास्त्वभ्यलन्कृताः ।
भूमिदास्तुसुखं यान्ति सर्वैः कामैः सुतर्पिताः ॥

3.203.53

यान्ति चैवापरिक्लिष्टा नरा सस्यप्रदावकाः ।
नराः सुखतरं यान्ति विमानेषु गृहप्रदाः ॥

3.203.54

पानीयदा ह्यतृषिताः प्रहृष्टमनसो नराः ।
पन्थानं द्योतयन्तश्च यान्ति दीपप्रदाः सुखम् ॥

3.203.55

गोप्रदास्तु सुखं यान्ति निर्मुक्ताः सर्वपातकैः ।
विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः ॥

3.203.56

तथा बर्हिप्रयुक्तैश्च षष्ठरात्रोपवासिनः ।
त्रिरात्रं क्षपते यस्तु एकभक्तेन पाण्डव ॥

3.203.57

अन्तरा चैव नाश्नाति तस्य लोका ह्यनामयाः ।
पानीयस्य गुणा दिव्याः प्रेतलोकसुखावहाः ॥

3.203.58

तत्र पुष्पोदका नाम नदी तेषां विधीयते ।
शीतलं सलिलं तत्रपिबन्ति ह्यमृतोपमम् ॥

3.203.59

ये चदृष्कृतकर्माणः पूयं तेषां विधीयते ।
एवं नदी महाराज सर्वकामप्रदा हि सा ॥

3.203.60

तस्मात्त्वमपि राजेन्द्र पूजयैनान्यथाविधि ।
अध्वनिं क्षीणगात्रश्च पथि पांशुसमन्वितः ॥

3.203.61

पृच्छते ह्यन्नदातारं गृहमायाति चाशया ।
तं पूजयाथ यत्नेन सोऽतिथिर्ब्राह्यणश्च सः ॥

3.203.62

तं यान्तमनुगच्छन्ति देवाः सर्वे सवासवाः ।
तस्मिन्सम्पूजिते प्रीता निराशा यान्त्यपूजिते ॥

3.203.63

तस्मात्त्वमपि राजेन्द्र पूजयैनं यथाविधि ।
एतत्ते शतशः प्रोक्तं किं भूयः श्रोतुमिच्छसि ॥
युधिष्ठिर उवाच ।

3.203.64

पुनः पुनरहं श्रोतुं कथां धर्मसमाश्रयाम् ।
पुण्यामिच्छामि धर्मज्ञ कथ्यमानां त्वया विभो ॥
मार्कण्डेय उवाच ।

3.203.65

धर्मान्तरं प्रति कथां कथ्यमानां मया नृप ।
सर्वपापहरां नित्यं शृणुष्वावहितो मम ॥

3.203.66

कपिलायां तु दत्तायां यत्फलञ्ज्येष्ठपुष्करे ।
तत्फलम्भरतश्रेष्ठ विप्राणां पादधावने ॥

3.203.67

द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपर्णेन पिबन्ति पितरो जलम् ॥

3.203.68

स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः ।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥

3.203.69

यावद्वत्सस्य पादौ द्वौ शिरश्चैव प्रदृश्यते ।
तस्मिन्काले प्रदातव्या प्रयतेनान्तरात्मना ॥

3.203.70

अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥

3.203.71

यावन्ति तस्यां रोमाणि वत्सस्य च युधिष्ठिर ।
तावद्युगसहस्राणि स्वर्लोके महीयते ॥

3.203.72

सुवर्णनासां यः कृत्वा सखुरां कृष्णधेनुकाम् ।
तिलैः प्रच्छादितां दद्यात्सर्वरत्नैरलन्कृताम् ॥

3.203.73

प्रतिग्रहं गृहीत्वा यः पुनर्ददति साधवे ।
फलानां फलमश्नाति तदा दत्त्वा च भारत ॥

3.203.74

ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥

3.203.75

अन्तर्जानुशयो यस्तु भुञ्जते सक्तभाजनः ।
यो द्विजः शब्दरहितं संयन्तुस्तारणाय वै ॥

3.203.76

ये पानीयानि ददति तथाऽन्ये ये द्विजातयः ।
जपन्ति संहितां सम्यक्ते नित्यं तारणक्षमाः ॥

3.203.77

हव्यन्कव्यं च यत्किञ्चित्सर्वं तच्छ्रोत्रियोऽर्हति ।
दत्तं हि श्रोत्रिये साधौज्यलितेऽग्नौ यथा हुतम् ॥

3.203.78

मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः ।
निहन्युर्मन्युना विप्रा वज्रपाणिरिवासुरान् ॥

3.203.79

धर्माश्रितेयं तु कथा कथिता हि तवानघ ।
यां श्रुत्वा मुनयः प्रीता नैमिषारण्यवासिनः ॥

3.203.80

वीतशोकभयक्रोधा विपाप्मानस्तथैव च ।
श्रुत्वेमां तु कथां राजन्भवन्तीह तु मानवाः ॥
युधिष्ठिर उवाच ।

3.203.81

किं तच्छौचं भवेद्येन विप्रः शुद्धः सदा भवेत् ।
तदिच्छामि महाप्राज्ञ श्रोतुं धर्मभृतांवर ॥
मार्कण्डेय उवाच ।

3.203.82

वाक्शौचं क्रमशौचं च यच्च शौचं जलात्मकम् ।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ॥

3.203.83

सायं प्रातश्च सन्ध्यां यो ब्राह्मणोऽभ्युपसेवते ।
प्रजपन्पावनीं देवीं गायत्रीं वेदमातरम् ॥

3.203.84

स तया पावितो देव्या ब्राह्मणो नष्टकिल्बिषः ।
न सीदेत्प्रतिगृह्णानो महीमपि ससागराम् ॥

3.203.85

ये चास् दारुणा केचिद्ग्रहाः सूर्यादयो दिवि ।
ते चास्य सौम्या जायन्ते शिवाः शिवतराः सदा ॥

3.203.86

सर्वेनानुगतं चैनं दारुणाः पिशिताशनाः ।
घोररूपा महाकाया धर्षयन्ति द्विजोत्तमम् ॥

3.203.87

नाध्यापनाद्याजनाद्वा अन्यायाद्वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलिताग्निससा द्विजाः ॥

3.203.88

दुर्वेदा वा सुवेदा वा प्राकृताः संस्कृतास्तथा ।
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ॥

3.203.89

यथा श्मशाने दीप्तौजाः पावको नैव दुष्यति ।
एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत् ॥

3.203.90

प्राकरैश्च पुरद्वारैः प्रासादैश्च पृथग्विधैः ।
नगराणि न शोभन्ते हीनानि ब्राह्मणोत्तमैः ॥

3.203.91

वेदाढ्ञा वृत्सम्पन्ना ज्ञानवन्तस्तपस्विनः ।
यत्रतिष्न्ति वै विप्रास्तन्नाम नगरं नृप ॥

3.203.92

व्रजे वाऽप्यथवाऽरण्ये यत्रसन्ति बहुश्रुताः ।
तत्तन्नगरमित्याहुः पार्थ तीर्थं च तद्भवेत् ॥

3.203.93

रक्षितारं च राजानं ब्राह्मणं च तपस्विनम् ।
अभिगम्याभिपूज्याथ सद्यः पापात्प्रमुच्यते ॥

3.203.94

पुण्यतीर्थाभिषेकं च पवित्राणां च कीर्तनम् ।
सद्भिः सम्भाषणं चैव प्रशस्तं कीर्त्यते बुधैः ॥

3.203.95

साधुसङ्गमपूतेन वाक्सुभाषितवारिणा ।
पवित्रीकृतमात्मानं सन्तो मन्न्ति नित्यशः ॥

3.203.96

त्रिदण्डधारणं मौनं जटाभारोऽथ मुण्डनम् ।
वल्कलाजिनसंवेष्टं व्रतचर्याऽभिषेचनम् ॥

3.203.97

अग्निहोत्रं वने वासः शरीरपरिशोषणम् ।
सर्वाण्येतानि मिथ्या स्युर्यदि भावो न निर्मलः ॥

3.203.98

विशुद्धिं चक्षुरादीनां षण्णामिन्द्रियगामिनाम् ।
विकारि तेषां राजेन्द्र सुदुष्करतरं मनः ॥

3.203.99

ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः ।
ते तपन्ति महात्मानो न शरीरस्य शोषणम् ॥

3.203.100

न ज्ञातिभ्यो दया यस्य शुक्लदेहोऽविकल्मषः ।
हिंसा सा तपसस्तस्य नानाशित्वं तपः स्मृतम् ॥

3.203.101

तिष्ठन्गृहे चैव मुनिर्नित्यं शुचिरलन्कृतः ।
यावज्जीवं दयावांश् सर्वपापैः प्रमुच्यते ॥

3.203.102

न हि पापानि कर्माणि शुद्ध्यन्त्यनशनादिभिः ।
सीदत्यनशनादेव मांसशोणितलेपनः ॥

3.203.103

अज्ञातं कर्म कृत्वा च क्लेशो नान्यत्प्रहीयते ।
नाग्निर्दहति कर्माणि भावशून्यस्य देहिनः ॥

3.203.104

पुण्यादेव प्रव्रजन्ति शुध्यन्त्यनशनानि च ।
न मूलफलभक्षित्वान्न मौनान्नानिलाशनात् ॥

3.203.105

शिरसो मुण्डनाद्वाऽपि न स्थानकुटिकासनात् । न जटाधारणाद्वाऽपिन तु स्थानकुटिकासनात् ।

3.203.106

नित्यं ह्यनशनाद्वाऽपि नाग्निशुश्रूषणादपि ।
न चोदकप्रवेशेन न च क्ष्माशयनादपि ॥

3.203.107

ज्ञानेन कर्मणा वापि जरामरणमेव च ।
व्याधयश्च प्रहीयन्ते प्राप्यते चोत्तमं पदम् ॥

3.203.108

बीजानि ह्यग्निदग्धानि न रोहन्ति पुनर्यथा ।
ज्ञानदग्धैस्तधा क्लेशैर्नात्मा सण्डुज्यते पुनः ॥

3.203.109

आत्मना विप्रहीणानि काष्ठकुण्ठोपमानि च ।
विनश्यन्ति न सन्देहः फेनानीव महार्णवे ॥

3.203.110

आत्मानं विन्दते येन सर्वभूतगुहाशयम् ।
श्लोकेन यदि वाऽर्धेन क्षीणं तस्य प्रयोजनम् ॥

3.203.111

द्व्यक्षरादभिसन्धाय केचिच्छ््लोकपदाङ्कितैः ।
शतैरन्यैः सहस्रैश्च प्रत्ययो मोक्षलक्षणम् ॥

3.203.112

नायं लोकोस्ति न परो न सुखं संशयात्मनः ।
ऊटुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम् ॥

3.203.113

विदितार्थस्तु वेदानां परिवेद प्रयोजनम् ।
उद्विजेत्स तु देवेभ्यो दावाग्नेरिव मानवः ॥

3.203.114

शुष्कं तर्कं परित्यज्यआश्रयस्व श्रुतिं स्मृतिम् । एकाराभिसम्बद्धं तत्त्वं हेतुभिरिच्छसि ।
बुद्धिर्न तस्य सिद्ध्येत साधनस्य विपर्ययात् ॥

3.203.115

वेद्यं पूर्वं वेदितव्यं प्रयत्ना- त्तद्धीर्वेदस्तस्य वेदः शरीरम् ।
वेदस्तत्त्वं तत्समासोपलब्धिः क्लीबस्त्वात्मा न स वेद्यं न वेदः ॥

3.203.116

वेदोक्तमायुर्देवानामाशिषश्चैव कर्मणाम् ।
फलत्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥

3.203.117

इन्द्रियाणां प्रसादेन तदेतत्परिवर्जयेत् ।
तस्मादनशनं दिव्यं निरुद्धेन्द्रियगोचरम् ॥

3.203.118

तपसा स्वर्गगमनं भोगो दानेन जायते ।
ज्ञानेन मोक्षो विज्ञेयस्तीर्थस्नानादघक्षयः ॥
वैशम्पायन उवाच ।

3.203.119

एवमुक्तस्तु राजेन्द्र प्रत्युवाच महायशाः ।
भगवञ्श्रोतुमिच्छामि प्रदानविधिमुत्तमम् ॥
मार्कण्डेय उवाच ।

3.203.120

यत्तत्पृच्छसि राजेन्द्रदानधर्मं युधिष्ठिर ।
इष्टं चेदं सदा मह्यं राजन्गौरवतस्तथा ॥

3.203.121

शृणु दानरहस्यानि श्रुतिस्मृत्युदितानि च । छायायां करिणः श्राद्धं तत्कर्म परिवीजितम् ।
दशकल्पायुतानीह न क्षीयेत युधिष्ठिर ॥

3.203.122

जीवनाय समाक्लिन्नं वसु दत्त्वा महीपते ।
विप्रं तु वासयेद्यस्तु सर्वयज्ञैः स इष्टवान् ॥

3.203.123

प्रतिस्रोतश्चित्रवाहाः पर्जन्योऽन्नानुसञ्चरन् । महाधुरि यथा नावा महापापैः प्रमुच्यते ।
विषुवे विप्रदत्तानि दधिमध्वक्षयाणि च ॥

3.203.124

पर्वसु द्विगुणं दानमृतौ दशगुणं भवेत् । 3-203-ब्124 अब्दे दशगुणं प्रोक्तमनन्तं विषुवे भवेत् ॥

3.203.125

अयने विषुवे चैवषडशीतिमुखेषु च ।
चन्द्रसूर्योपरागे च दत्तमक्षयमुच्यते ॥

3.203.126

ऋतुषु दशगुणं वदन्ति दत्तं शतगुणमृत्वयनादिषु ध्रुवम् ।
भवति सहस्रगुणं दिनस्य राहो- र्विषुवति चाक्षयमश्नुते फलम् ॥

3.203.127

नाभूमिदो भूमिमश्नाति राज- न्नायानदो यानमारुह्य याति ।
यान्यान्कामान्ब्राह्मणेभ्यो ददाति तांस्तान्कामाञ्जायमानः स भुङ्क्ते ॥

3.203.128

अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
लोकाश्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाश्च महीं च दद्यात् ॥

3.203.129

परंहि दानान्न बभूव शाश्वतं भव्यं त्रिलोके भवते कुतः पुनः ।
तस्मात्प्रधानं परमं हि दानं वदन्ति लोकेषु विशिष्टबुद्धयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc