महाभारत · अध्याय 3.200
देवानां कथा सञ्जाता महीतलं गत्वा महीपतिं शिबिमौशीनरं साध्वेनं शिबिं जिज्ञास्याम इति ॥ एवं भो इत्युक्त्वा अग्नीन्द्रावुपतिष्ठेताम् ॥
अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण ॥
अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं न्यपतत् ॥
अथ पुरोहितो राजानमब्रवीत् ॥ प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्यते ॥
वसु ददातु अन्तवान्पार्थिवोऽस्य निष्कृतिं कुर्यात् घोरं कपोतस्य निपातमाहुः ॥
अथ कपोतो राजानमब्रवीत् ॥ प्राणरक्षणार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्ये अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये ॥
स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि ॥ तपसा दमेन युक्तमाचार्यस्याप्रतिकूलभाषिणम् ॥ एवंयुक्तमपापं मां विद्धि ॥
गदामि वेदानविचिनोमि छन्दः सर्वेवेदा अक्षरशो मे अधीताः ।
न साधु दानं श्रोत्रियस्य प्रदानं मा प्रादाः श्येनाय न कपोतोऽस्मि ॥
अथ श्येनो राजानमब्रवीत् ॥
पर्यायेण वसतिर्वा भवेषु सर्गे जातः पूर्वमस्मात्कपोतात् ।
त्वमाददानोऽथ कपोतमेनं मा त्वं राजन्विघ्नकर्ता भवेथाः ॥
राजोवाच ।
केनेदृशी जातु परा हि दृष्टा वागुच्यमाना शकनेन संस्कृता ।
यां वै कपोतो वदते यां च श्येन उभौ विदित्वा कथमस्तु साधु ॥
नास्य वर्षं वर्षति वर्षकाले नास्य बीजं रोहति काल उप्तम् ।
भीतं प्रपन्नं यो हि ददाति शत्रवे न त्राणं लभेत्राणमिच्छन्स काले ॥
जाता ह्रस्वा प्रजा प्रमीयते सदा न वासं पितरोऽस्य कुर्वते ।
भीतं प्रपन्नं यो हि ददाति शत्रवे नास्य देवाः प्रतिगृह्णन्ति हव्यम् ॥
मोघमन्नं विन्दति चाप्रचेताः स्वर्गाल्लोकाद्धश्यति शीघ्रमेव ।
भीतं प्रपन्नं यो हि ददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥
उक्षाणं पक्त्वा सह ओदनेन अस्मात्कपोतात्प्रति ते नयन्तु ।
यस्मिन्देशे रमसेऽतीव श्येन तत्रमांसं शिवयस्ते वहन्तु ॥
श्येन उवाच ।
नोक्षाणो राजन्प्रार्थयेयं न चान्य दस्मान्मांसमधिकं वा कपोतात् ।
देवैर्दत्तः सोऽद्य ममैष भक्ष- स्तन्मे ददस्व शकुनानामभावात् ॥
राजोवाच ।
उक्षाणं वेहतमनूनं नयन्तु ते पश्यन्तु पुरुषा ममैव ।
भयाहितस् दायं ममान्तिकात्त्वां प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः ॥
त्यजे प्राणाननैव दद्यां कपोतं सौम्यो ह्ययं किं न जानासि श्येन ।
यथा क्लेशं मा कुरुष्वेह सौम्य नाहं कपोतमर्पयिष्ये कथञ्चित् ॥
यथा मां वै साधुवादैः प्रसन्नाः प्रशंसेयुः शिबयः कर्मणा तु ।
यथा श्येन प्रियमेव कुर्यां प्रशाधि मां यद्वदेस्तत्करोमि ॥
श्येन उवाच ।
ऊरोर्दक्षिणादुत्कृत्य स्वपिशितं तावद्राजन्यावन्मांसं कपोतेन समम् ॥ तथा तस्मात्साधु त्रातः कपोतः प्रशंसेयुश्च शिबय कृतं च प्रियं स्यान्ममेति ॥
अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलयाधारयत् ॥ गुरुतर एव कपोत आसीत् ॥
पुनरन्यमुच्चकर्त गुरुतर एव कपोतः ॥ एवं सर्वं समधिकृत्य शरीरं तुलायामारोपयामास रतत्तथापि गुरुतर एव कपोत आसीत् ॥
अथ राजा स्वयमेव तुलामारुरोह ॥ न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्टाव त्रात इत्युक्त्वा प्रालीयत श्येनः अथ राजा अब्रवीत् ॥
कपोतं विद्युः शिवयस्त्वां कपोत पृच्छामि ते शकुने को नु श्येनः ।
नानीश्वर ईदृशं जातु कुर्या- देतं प्रश्नं भगवन्मे विचक्ष्व ॥
कपोत उवाच ।
वैश्वानरोऽहं ज्वलनो धूमकेतु- रथैव श्येनो वज्रहस्तः शचीपतिः ।
साधु ज्ञातुं त्वामृषभं सौरथेय नौ जिज्ञासया त्वत्सकाशम्प्रपन्नौ ॥
यामेतां पेशीं मम निष्क्रयाय प्रादाद्भवानसिनोत्कृत्य राजन् ।
एतद्वो लक्ष्म शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम् ॥
एतासां प्रजानां पालयिता यशस्वी सुरर्षीणामथ सम्मतो भृशम् ।
एतस्मात्पार्श्वात्पुरुषो जनिष्यति कपोतरोमेति च तस्य नाम ॥
कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृपवृषसंहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौरथानाम् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0