भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.193

3.193.1

युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् ।
पुन- पप्रच्छ सामात्यो भविष्यां जगतो गतिम् ॥
युधिष्ठिर उवाच ।

3.193.2

आश्चर्यभूतं भवतः श्रुतं नो वदतांवर ।
मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ॥

3.193.3

अस्मिन्कलियुगे त्वस्ति पुनः कौतूहलं मम ।
समाकुलेषु धर्मेषु किन्नु शेषं भविष्यति ॥

3.193.4

किंवीर्या मानवास्तत्रकिमाहारविहारिणः ।
किमायुषः किंवसना भविष्यन्ति युगक्षये ॥

3.193.5

कां च काष्ठां समासाद्य पुनः सम्पत्स्यते कृतम् ।
विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ॥

3.193.6

इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत ।
रमयन्वृष्णिशार्दूलं पाण्डवांस्च महानृषिः ॥

3.193.7

शृणु राजन्मया दृष्टं यत्पुरा श्रुतमेव च ।
अनुभूतं च राजेनद््रदेवदेवप्रसादजम् ॥

3.193.8

भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ ।
कलुषं कालमासाद्य कथ्यमानं निबोध मे ॥

3.193.9

कृते चतुष्पात्सकलो निर्व्याजोप्राधिवर्जितः ।
वृषः प्रतिष्ठितो धर्मो मनुष्ये भरतर्षभ ॥

3.193.10

अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः ।
त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ॥

3.193.11

त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति ।
तामसं युगमासाद्य तदा भरतसत्तम ॥

3.193.12

चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति ।
आयुर्वीर्यं मनो बुद्धिर्बलं तेजश्च पाण्डव ॥

3.193.13

मनुष्याणआमनुयुगं ह्रप्तन्तीति निबोध मे ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव युधिष्ठिर ॥

3.193.14

व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः ।
सत्यं सन्क्षेप्स्यते लोके नरैः पण्डितमानिभिः ॥

3.193.15

सत्यहान्या ततस्तेषामायुरल्पं भविष्यति ।
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् ॥

3.193.16

विद्याहीनानविज्ञानाल्लोभोप्यभिभविष्यति ।
लोभमोहपरा मूढाः कामासक्ताश् मानवाः ॥

3.193.17

वैरबद्धा भविष्यन्ति परस्परवधैषिणः ।
ब्राह्मणाः क्षत्रिया वैश्याः सन्कीर्यन्ते परस्परम् ॥

3.193.18

शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ।
अन्त्या मध्या भविष्यन्ति मध्याश्चान्त्या न संशयः ॥

3.193.19

ईदृशो भविता लोको युगान्ते पर्युपस्थिते ।
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूपकः ॥

3.193.20

भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये ।
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् ॥

3.193.21

गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः ।
तेऽपिलोभसमायुक्ता भविष्यन्ति युगक्षये ॥

3.193.22

अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः ।
अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ॥

3.193.23

सरित्तीरेषु कुद्दालैर्वापयिष्यनति चौपधीः ।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥

3.193.24

श्राद्धे दैवे च पुरुषा येऽपि नित्यं धृव्रताः ।
तेऽपिलोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ॥

3.193.25

पिता पुत्रस् भोक्ता च पितुः पुत्रस्तथैव च ।
अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ॥

3.193.26

न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः । न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः ।
निम्नेष्वीहां करिष्यनति हेतुवादविमोहिताः ॥

3.193.27

निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुक्राः ।
एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ॥

3.193.28

पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा । स्त्रियोऽपि पतिपुत्रादीन्वधिष्यनति युगक्षये ।
निरुद्वेगो बृहद्बादी न निन्दामुपलप्स्यते ॥

3.193.29

म्लेच्छभूतं जगत्सर्वं निष्क्रियं दानवर्जितम् ।
भविष्यति निरानन्दमनुत्सवमथो तथा ॥

3.193.30

प्रायशः कृपणानां हि तथा बन्धुमतामपि ।
विधवानां च वित्तानि हरिष्यन्तीह मानवाः ॥

3.193.31

स्वल्पवीर्यबलाः स्वाधा लोभमोहपरायणाः ।
तत्कथादानसन्तुष्ट शिष्टानामपि बान्धवाः ॥

3.193.32

परिग्रहन्करिष्यति मायाचारपरिग्रहाः ।
सन्घातयन्तः तय राजानः पापबुद्धयः ॥

3.193.33

परस्परवधोयुक्ता मूर्खाः पण्डितमानिनः ।
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ॥

3.193.34

अरक्षितारो लुब्धाश् मानाहन्कारदर्पिताः ।
केवलं दण्डरुचयो भविष्यन्ति युगक्षये ॥

3.193.35

आक्रम्याक्रम्य साधूनां दारांश्चापि धनानि च ।
भोक्ष्यन्ते निरनुक्रोसा रुदतामपि भारत ॥

3.193.36

न कन्यां याचे कश्चिन्नापि कन्या प्रदीयते ।
स्वयन्ग्रहा भविष्यन्ति युगान्ते समुपस्थिते ॥

3.193.37

राजानश्चाप्यसन्तुष्टाः परार्तान्मूढचेतसः ।
सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ॥

3.193.38

म्लेच्छीभूतं जगत्सर्वं भविष्यति न संशयः ।
हस्तो हस्तं परिमुषेद्युगान्ते समुपस्थिते ॥

3.193.39

सत्यं सन्क्षिप्यते लोके नरैः पण्डितमानिभिः ।
स्थविरा बालमतयो बालाः स्थविरबुद्धयः ॥

3.193.40

भीरुस्था शूरमानी शूरा भीरुविषादिनः ।
न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ॥

3.193.41

नैकभार्यं जगत्सर्वं लोभमोहव्यवस्थितम् ।
अधर्मो वर्धते तत्र न तु धर्मः प्रवर्तते ॥

3.193.42

ब्राह्मणाः क्षत्रिया वैश्या नशिष्यन्ति जनाधिप ।
एकवर्णस्तदा लोको भविष्यति युगक्षये ॥

3.193.43

न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा ।
बार्याश्च पतिशुश्रूषां न करिष्यन्ति सन्क्षये ॥

3.193.44

ये यवान्ना जनपदा गोधूमान्नास्तथैव च ।
तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥

3.193.45

स्वैराहाराश्च पुरुषा योपितश्च विशाम्पते ।
अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥

3.193.46

म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर ।
श्राद्धे न देवान्न पितॄस्तर्पयिष्यन्ति मानवाः ॥

3.193.47

न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः ।
तमोग्रस्तस्तदा लोको भविष्यति जनाधिप ॥

3.193.48

परमायुश्च भविता तदा वर्षाणि षोडश ।
ततः प्राणान्विमोक्ष्यन्ति युगान्ते समुपस्थिते ॥

3.193.49

पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते ।
सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ॥

3.193.50

पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति ।
युगान्ते राजशार्दूल न तोषमुपयास्यति ॥

3.193.51

अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति ।
न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ॥

3.193.52

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
केशशूलाः स्त्रियश्चापि भविष्यनति युगक्षये ॥

3.193.53

म्लेच्छाचाराः सर्वमभक्षा दारुणा सर्वकर्मसु ।
भाविन पश्चिमे काले मनुष्या नात्र संशयः ॥

3.193.54

क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् ।
युगान्ते भरतश्रेष्ठ वित्तलोभात्करिष्यति ॥

3.193.55

ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा ।
आत्मच्छन्देन वर्तन्ते युगान्ते समुपस्थिते ॥

3.193.56

स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशंसिनः ।
भवितारो जनाः सर्वे सम्प्राप्ते तु युगक्षये ॥

3.193.57

आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः ।
भविता संशयो लोके जीवितस्य हि देहिनाम् ॥

3.193.58

तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप ।
ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः ॥

3.193.59

हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः ।
त्रातारमलाभन्तो वै भ्रमिष्यनति महीमिमाम् ॥

3.193.60

जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसकाः ।
यदा भविष्यन्ति नरास्तदा सन्क्षेप्स्यते युगम् ॥

3.193.61

आश्रयिष्यन्ति च नदी पर्वतान्विषमाणि च ।
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ॥

3.193.62

दस्युभिः पीडिता राजन्काका इव द्विजोत्तमाः ।
कुराजभिश्च सततं करभारप्रपीडिताः ॥

3.193.63

धैर्यं त्यक्त्वा महीपाल दारुणे युगसन्क्षये ।
विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥

3.193.64

शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः ।
श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ॥

3.193.65

विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः । एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ।
शूद्राश्च प्रभविष्यन्ति न द्विजा युगसन्क्षये ॥

3.193.66

आश्रमेषुमहर्षीणां ब्राह्मणावसथेषु च ।
देवस्थानेषु चैत्येषु नागानामालयेषु च ॥

3.193.67

एडूकचिह्ना पृथिवी न देवगृहभूषिता ।
भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ॥

3.193.68

दा रौद्रा धर्महीना मांसादाः पानपास्तथा ।
भविष्यन्ति नरा नित्यं तदा सन्क्षेप्स्यते युगम् ॥

3.193.69

पुष्पं पुष्पे यदा राजन्फले वा फलमाश्रितम् ।
प्रजास्यति महाराज तदा सन्क्षेप्स्यते युगम् ॥

3.193.70

अकालवर्षी पर्जन्यो भविष्यति गते युगे ।
अक्रमेण मनुष्याणां भविष्यनति तदा क्रियाः ॥

3.193.71

विरोधमथ यास्यनति वृषला ब्राह्मणैः सह ।
मही म्लेच्छजनाकीर्णा भविष्यति ततोऽचिरात् ॥

3.193.72

करभारभयाद्विप्रा भजिष्यन्ति दिशो दश ।
अन्यायवर्तिनश्चापि भविष्यनति नराधिपाः ॥

3.193.73

निर्विशेषा जनपदास्तथा विष्टिकरार्दिताः ।
आश्रमानुपलप्स्यन्ति फलमूलोपजीविनः ॥

3.193.74

एवं पर्याकुले लोके मर्यादा न भविष्यति । ब्राह्मणःक्षत्रियावैश्याः परित्यक्ष्यन्ति सत्क्रियाम्
न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ॥

3.193.75

आचार्योपनिधिश्चैव भर्त्स्यते तदनन्तरम् ।
अर्थयुक्त्या प्रवात्स्यन्ति मित्रसम्बन्धिबान्धवाः ॥

3.193.76

अभावः सर्वभूतानां युगान्ते सम्भविष्यति ।
दिशः प्रज्वलिता सर्वा नक्षत्राण्यप्रभाणि च ॥

3.193.77

प्रधूपितानि ज्योतींषि वाताः पर्याकुलास्तथा ।
उल्कापाताश्च बहवो महाभयनिदर्शकाः ॥

3.193.78

षङ्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति । तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः ।
कबन्धान्तर्हितो भानुरुदयास्तमने तदा ॥

3.193.79

अकालवर्षी भगवान्भविष्यति सहस्रदृक् ।
सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥

3.193.80

अभीक्ष्णं क्रूरवादिन्यः परुषा रदितप्रियाः ।
भर्तॄणां वचने चैव न स्थास्यन्ति ततः स्त्रियः ॥

3.193.81

पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये ।
सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ॥

3.193.82

अपर्वणि महाराज सूर्यं राहुरुपैष्यति ।
युगान्ते हुतभुक्वापि सर्वतः प्रज्वलिष्यति ॥

3.193.83

पानीयं भोजनं चापि याचमानास्तदाऽध्वगाः ।
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥

3.193.84

निर्घातवायसा नागाः शकुनाः समृगद्विजाः ।
रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥

3.193.85

मित्रसम्बन्धिनश्चापि सन्त्यक्ष्यनति नरास्तदा ।
जनं परिजनं चापि यागान्ते पर्युपस्थिते ॥

3.193.86

अथ देशान्दिशश्चापि पत्तनान्यापणानि च ।
क्रमशः संलयिष्यन्ति युगान्ते पर्युपस्थिते ॥

3.193.87

हा तात हा सुतेत्येवं तदा वाच सुदारुणाः ।
विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ॥

3.193.88

मोवादिनस्तथा शूद्रा ब्राह्मणाः प्राकृतप्रियाः ।
पाषण्डजनसन्कीर्णा भविष्यन्ति युगक्षये ॥

3.193.89

ततस्तुमुलसन्घाते वर्तमाने युगक्षये ।
द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ॥

3.193.90

ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये ।
भविष्यति पुनर्दैवमनुकूलं यदृच्छया ॥

3.193.91

यदा सूर्यश्च चन्द्रश्च तथा तिष्यबृहस्पती ।
एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ॥

3.193.92

कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च । प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः ।
क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ॥

3.193.93

कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः ।
उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ॥

3.193.94

सम्भूतः सम्भलग्रामे ब्राह्मणावसथे शुभे ।
महात्मा वृत्तसम्पन्नः प्रजानां हितकृन्नृप ॥

3.193.95

मनसा तस्य सर्वाणि वाहनान्यायुधानि च ।
उपस्तास्यन्ति योधाश्च शस्त्राणि कवचानि च ॥

3.193.96

स धर्मविजयी राजा चक्रवर्ती भविष्यति ।
सचेमं सन्कुलं लोकं प्रसादमुपनेष्यति ॥

3.193.97

उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः ।
सन्क्षेपको हि सर्वस्य युगस्य परिवर्तकः ॥

3.193.98

स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः । उत्सादयिष्यति तदा सर्वम्लेच्छगणान्द्विजः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc