भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.19

3.19.1

एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततो मृधे ।
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ॥

3.19.2

न मे भयं रौक्मिणेय सन्ग्रामे यच्छतो हयान् ।
युद्धज्ञोस्मि च वृष्णीनां नात्र किञ्चिदतोऽन्यथा ॥

3.19.3

आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः ।
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥

3.19.4

त्वं हि साल्वप्रयुक्तेन शरेणाभिहतो भृशम् ।
कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥

3.19.5

सत्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया ।
पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥

3.19.6

दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।
वीतभीः प्रविशाम्येतां साल्वस्य महतीं चमूम् ॥
वासुदेव उवाच ।

3.19.7

एवमुक्त्वा ततो वीरो हयान्सञ्चोद्य सन्गरे ।
रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत्तदा ॥

3.19.8

मण्डलानि विचित्राणि यमकानीतराणि च ।
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥

3.19.9

प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः ।
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ॥

3.19.10

ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् ।
उह्यमाना इव तदा नास्पृशंश्चरणैर्महीम् ॥

3.19.11

सोपसव्यां चमूं तस्य साल्वस्य भरतर्षभ ।
चकार नातियत्नेन तदद्भुतमिवाभवत् ॥

3.19.12

अमृष्यमाणोपसव्यं साल्वः समितिदारुणः ।
यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत् ॥

3.19.13

दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् ।
भूय एव महाबाहो प्रययावपसव्यतः ॥

3.19.14

ततो बाणान्बहुविधान्पुनरेव स सौभराट् ।
मुमोच तनये वीर मम रुक्मिणिनन्दने ॥

3.19.15

तानप्राप्ताञ्शितैर्ब्राणैश्चिच्छेद परवीरहा ।
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवं ॥

3.19.16

छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन च सौभराट् ।
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥

3.19.17

प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम् ।
ब्रह्मास्त्रेणान्तरा च्छित्त्वामुमोचान्यन्पतस्त्रिणः ॥

3.19.18

ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः ।
शिरस्युरसि वक्रे च स मुमोह पपात च ॥

3.19.19

तस्मिन्निपतिते क्षुद्रे साल्वे बाणप्रपीडिते ।
रौक्मिणेयोऽपरं बाणं सन्दधे शत्रतापनः ॥

3.19.20

तमर्चितं सर्वदाशार्हपूगै- राशीर्भिरर्कज्वलनप्रकाशम् ।
दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम् ॥

3.19.21

ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः ।
नारदं प्रेषयामासु- श्वसनं च मनोजवम् ॥

3.19.22

तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् ।
नैव वध्यस्त्वया वीर साल्वराजः कथञ्चन ॥

3.19.23

संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे ।
एतस्य च शरस्याजौ नावध्योस्ति पुमान्क्वचित् ॥

3.19.24

मृत्युरस्य महाबाहो रणे देवकिनन्दनः ।
कृष्णः सन्कल्पितो धात्रा तन्मिथ्या न भवेदिति ॥

3.19.25

ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् ।
सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ॥

3.19.26

तत उत्थाय राजेन्द्र साल्वः परमदुर्मनाः ।
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥

3.19.27

स द्वारकां परित्यज्य साल्वो वृष्णिभिरार्दितः । सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc