भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.188

3.188.1

भूय एव तु माहात्म्यं ब्राह्मणआनां निबोध मे ।
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ॥

3.188.2

तमत्रिर्गन्तुमारेबे वित्तार्थमिति नः श्रुतम् ।
भूयोऽर्थं नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् ॥

3.188.3

स विचिन्त्य महातेजा वनमेवान्वरोचयत् ।
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥

3.188.4

प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् ।
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥

3.188.5

तं भार्या प्रत्युवाचाथ धनमेवानुरुन्धती ।
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहुः ॥

3.188.6

स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ।
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु ॥

3.188.7

भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ।
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥
अत्रिरुवाच ।

3.188.8

कथितो मे महाभागे गौतमेन महात्मना ।
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥

3.188.9

किन्त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः ।
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥

3.188.10

तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् ।
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम् ॥

3.188.11

गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव ।
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसञ्चयम् ॥

3.188.12

एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः ।
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥

3.188.13

वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद्वचः । राजन्धन्यस्त्वमीशश्च भुवि त्वं प्रथमो नृपः ।
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ॥

3.188.14

तमब्रवीदृषिः क्रुद्धो वचनं वै महातपाः ॥
गौतम उवाच ।

3.188.15

मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ।
अत्र नः प्रथमो धाता महेन्द्रो वै प्रजापतिः ॥
वैशम्पायन उवाच ।

3.188.16

अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत । अयमेव विधाता च तथैवेन्द्रः प्रजापतिः ।
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥
गौतम उवाच ।

3.188.17

जानामि नाहं मुह्यामि त्वंविवक्षुर्विमुह्यसे ।
स्तौषि त्वं दर्शनप्रेप्सू राजानं जनसंसदि ॥

3.188.18

न वेत्थ परमं धर्मं न चास्त्यत्र प्रयोजनम् ।
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥
वैशम्पायन उवाच ।

3.188.19

विवदन्तौ तथा तौ तु मुनीनां द्रशने स्थितौ ।
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥

3.188.20

प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि ।
उच्चैः समभिभाषन्तौ केन कार्येण धिष्ठितौ ॥

3.188.21

ततः परमधर्मात्मा काश्यपः सर्वधṟमवित् ।
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥

3.188.22

अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् । आवयोर्व्याहृतं प्रश्नं शृणुत द्विजसत्तमाः ।
वैन्यं विधातेत्याहात्रिरत्र नौ संशयो महान् ॥

3.188.23

ततस्तु गौतमेनोक्तं वाक्यं वैन्यस्य संसदि ।
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्दुतम् ॥

3.188.24

सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै ।
पप्रच्छुः प्रणताः सर्वे ब्रह्माणमिव सोमपाः ॥

3.188.25

स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः ।
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥

3.188.26

ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह ।
संयुक्तौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥

3.188.27

राजा वै प्रथितो धर्मः प्रजानां पतिरेव च ।
स एव शक्रः शुक्रश्च स धाता च बृहस्पतिः ॥

3.188.28

प्रजापतिर्विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥

3.188.29

पुरायोनिर्युधाजिच्च अभीष्टानचितो भवः । स्वर्णेता सहजिद्बभ्रुरिति राजाऽभिधीयते ।
सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः ॥

3.188.30

अधर्मादृषयो भीता बलं क्षत्रे समादधन् ।
तस्माद्धि ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म चाव्ययम् ॥

3.188.31

आदित्यो दिवि देवेषु तमो नुदति तेजसा ।
तथैव नृपतिर्भूमावधर्मान्नुदते भृशम् ॥

3.188.32

ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् ।
उत्तरः सिद्ध्यते पक्षो येन राजेति भाषितम् ॥
मार्कण्डे उवाच ।

3.188.33

ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः ।
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥

3.188.34

यस्मात्पूर्वं मनुष्येषु ज्यायांसं मामिहाब्रवीः ।
सर्वदेवैश्च विप्रर्षे सम्मितं श्रेष्ठमेव च ॥

3.188.35

तस्मात्तेऽहम्प्रदास्यामि विविधं वसु भूरि च ।
दासीसहस्रं श्यामानां सुवस्त्राणामलकृतम् ॥

3.188.36

दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश ।
एतद्ददामि विप्रर्षे सर्वज्ञस्त्वं मतो हि मे ॥

3.188.37

तदत्रिनर्न्यायतः सर्वं प्रतिगृह्याभिसत्कृतः ।
प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः ॥

3.188.38

प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् । ततः समभिसन्धाय वनमेवान्वपद्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc