भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.175

3.175.1

निवर्तमानेन मया महद्दृष्टं ततोऽपरम् ।
पुरं कामगमं दिव्यं पावकार्कसमप्रभम् ॥

3.175.2

रत्नद्रुममयैश्चित्रैर्भास्वरैश्च पतत्रिभिः ।
पौलोमैः कालकेयैश्च रनित्यहृष्टैरधिष्ठिरतम् ॥

3.175.3

गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् ।
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ॥

3.175.4

द्रुमैः पुष्पलोपेतैः सर्वरत्नमयैर्वृतम् ।
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः ॥

3.175.5

असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ।
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥

3.175.6

तदहं प्रेक्ष्यदैत्यानां पुरमद्भुतदर्शनम् ।
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥
मातलिरुवाच ।

3.175.7

पुलोमा नाम दैतेयी कालका च महासुरी ।
दिव्यंवर्षसहस्रं ते चेरतुः परमं तपः ॥

3.175.8

तपसोन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ।
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् ॥

3.175.9

अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ।
पुरं सुरमणीयं च स्वचरं सुकृतप्रभम् ॥

3.175.10

सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ।
महर्षियक्षगन्धर्वपन्नगासुरराक्षसैः ॥

3.175.11

सर्वकामगुणोपेतं वीतशोकमनामयम् ।
ब्र्हमणो भवनाच्छ्रेष्ठं कालकेयकृतं विभो ॥

3.175.12

तदेतत्खपुरं दिव्यं चरत्यमरवर्जितम् ।
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥

3.175.13

हिरण्यपुरमित्येवं ख्यायते नगरं महत् ।
रक्षितन्कालकेयैश्च पौलोमैश्च महासुरैः ॥

3.175.14

त एतेमुदिता राजन्नवध्याः सर्वदैवतैः ।
निवसन्त्यत्रराजेन्द्र गतोद्वेगा निरुत्सुकाः ॥

3.175.15

सुरासुरैरवध्यानां दानवानां धनञ्जय ।
मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥

3.175.16

[एतानपि रणे पार्त कालकेयान्दुरासदान् ।
वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान्] ॥
अर्जुन उवाच ।

3.175.17

सुरासुरैरवध्यं तदहं ज्ञात्वा विशाम्पते ।
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥

3.175.18

त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् ।
न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः ॥

3.175.19

उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् ।
रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥

3.175.20

ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः ।
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥

3.175.21

ततो नालीकनाराचैर्भल्लैः शक्त्यृष्टितोमरैः ।
प्रत्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥

3.175.22

तदहं शस्त्रवर्षेण महता प्रत्यवारयम् ।
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥

3.175.23

व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे ।
तेऽन्योन्यमभिसम्मूढाः पातयन्ति स्म दानवाः ॥

3.175.24

तेषामेवं विमूढानामन्योन्यमभिधावताम् ।
शिरांसि विशिखैर्दीप्तैरच्छिन्दं शतसङ्घशः ॥

3.175.25

ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः ।
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥

3.175.26

ततोऽहं शरवर्षेण महता कुरुनन्दन ।
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥

3.175.27

तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् ।
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥

3.175.28

अन्तर्भूमौ निपतति पुनरूर्ध्वं प्रतिष्ठते ।
पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति ॥

3.175.29

अमरावतिसन्काशं तत्पुरं कामगं महत् ।
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णां परन्तप ॥

3.175.30

ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च ।
व्यगृह्णां सह दैतेयैस्तत्पुरं पुरुषर्षभ ॥

3.175.31

विक्षत चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः ।
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥

3.175.32

ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः ।
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥

3.175.33

ततो मातलिरारुह्यपुरस्तान्निपतन्निव ।
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥

3.175.34

ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् । युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ।
तान्यहं निशितैर्बाणैर्व्यधमं गार्ध्रराजितैः ॥

3.175.35

ते युद्धे सन्न्यवर्तन्त समुद्रस्य यथोर्मयः ।
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत् ॥

3.175.36

ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम् ॥

3.175.37

ततस्तानि सहस्राणै रथिनां चित्रयोधिनाम् ।
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्छनकैरिव ॥

3.175.38

रथमार्गान्विचित्रांस्ते विचरन्तो महाबलाः ।
प्रत्यदृश्यन्त सन्ग्रामे शतशोऽथ सहस्रशः ॥

3.175.39

विचित्रमुकुटापीडा विचित्रकवचध्वजाः ।
विचित्राभरणाश्चैव मम प्रीतिकराऽभवन् ॥

3.175.40

अहं तुशरवर्षैस्तानस्त्रप्रचुदितै रणे ।
नाशक्रुवं पीडयितुं ते तु मां प्रत्यपीडयन् ॥

3.175.41

तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि ।
व्यथितोस्मि महायुद्धे भयं चागान्महन्मम ॥

3.175.42

ततोहं परमायत्तो मातलिं परिपृष्टवान् ॥

3.175.43

किमेते मम बाणौघैर्दिव्यास्त्रप्रतिमन्त्रितैः ।
न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः ॥

3.175.44

स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ ।
तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर ॥

3.175.45

एतच्छ्रुत्वा तु राजेनद्रसम्प्रहृष्टस्तमूचिवान् ।
निवर्तय रथं शीघ्रं पश्य चैतान्निपातितान् ॥

3.175.46

एवमुक्तो रथं तत्र मातलिः पर्यवर्तयत् ॥

3.175.47

ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः ।
विचुक्रुशुर्महाराज स्वरेण महता मुहुः ॥

3.175.48

अभग्नः कैश्चिदप्येष पाण्डवो रणमूर्धनि ।
अस्माभिः समरे भग्न इत्येवं सन्घशस्तदा ॥

3.175.49

ततोहं देवदेवाय रुद्रायाव्यक्तमूर्तये । प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने ।
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥

3.175.50

यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ।
महत्पाशुपतं दिव्यं सर्वलोकनमस्कृतम् ॥

3.175.51

ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् । त्रिमुखं षङ्भुजं दीप्तमर्कज्वलनमूर्धजम् ।
लेलिहानैर्महानागैः कृतचिह्नममित्रहन् ॥

3.175.52

विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् ।
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ॥

3.175.53

नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे ।
मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥

3.175.54

मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः ।
मृगाणामथ सिंहानां व्याग्राणां च विशाम्पते ॥

3.175.55

ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् । शरभाणां गजानां च वानराणां च सङ्घशः ।
ऋषभाणां वराहाणां मार्जाराणां तथैव च ॥

3.175.56

सालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ।
गृध्राणां गरुडानां च चमराणां तथैव च ॥

3.175.57

देवानां च ऋषीणां रच गन्धर्वाणां च सर्वशः ।
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥

3.175.58

गुह्यकानां च सन्ग्रामे नैरृतानां तथैव च ।
झषाणां गजवक्राणामुलूकानां तथैव च ॥

3.175.59

मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम् ।
तथैव यातुधानानां गदामुद्गरधारिणाम् ॥

3.175.60

एतैस्चान्यैश्च बहुभिर्नानारूपधरैस्तदा ।
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥

3.175.61

त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः ।
अनेकरूपसंयुक्तैर्मांसमेदोवसास्तिभिः ॥

3.175.62

अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ।
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः ॥

3.175.63

अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः ।
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥

3.175.64

गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् ।
दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥

3.175.65

तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् ।
निशाम्य परमं हर्षमगमद्देवसारथिः ॥

3.175.66

तदसह्यं कृतं कर्म देवैरपि दुरासदम् ।
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥

3.175.67

उचाच वचनं चेदम्प्रीयमाणः कृताञ्जलिः ।
हतांस्तान्दानवान्दृष्ट्वा मया सङ्ख्ये सहस्रशः ॥

3.175.68

सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया । न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः ।
ध्रुवं धनञ्जय प्रीतस्त्वयि शक्रः पुरार्दन ॥

3.175.69

सुरासुरैरवध्यं हि पुरमेतत्खगं महत् ।
त्वया विमथितं वीर स्ववीर्यतपसो बलात् ॥
अर्जुन उवाच ।

3.175.70

विद्वस्ते खपुरे तस्मिन्दानवेषु हतेषु च ।
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥

3.175.71

प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः ।
पेतुः पुत्रान्पितृन्भ्रातॄञ्शोचमाना महीतले ॥

3.175.72

रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः ।
उरांसि पाणिभिर्घ्नन्त्यो विस्रस्तस्रग्विभूषणाः ॥

3.175.73

तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् ।
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥

3.175.74

गन्धर्वनगराकारं हृतनागमिव ह्रदम् ।
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥

3.175.75

मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् ।
देवराजस्य भवनं कृतकर्माणमाहवात् ॥

3.175.76

हिरण्यपुरमुत्सृज्य निहत्य च महासुरान् ।
निवातकवचांश्चैव ततोऽहंशक्रमागमम् ॥

3.175.77

मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् ।
सर्वं विश्रावयामास यथाभूतं महाद्युते ॥

3.175.78

हिरण्यपुरघातं च मायानां च निवारणम् । निवातकवचानां च वधं सङ्ख्ये महौजसाम् ।
कालकेयवधं चैव अद्भुतं रोमहर्षणम् ॥

3.175.79

तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरन्दरः । मरुद्भिः सहितः श्रीमान्साधुसाध्वित्यथाब्रवीत् ।
परिष्वज्य च मां प्रेम्णा मूर्ध्नि चाघ्राय सस्मितम् ॥

3.175.80

ततो मां देवराजो वै समाश्वास्य पुनः पुनः ।
अब्रवीद्विबुधैः सार्धमिदं समधुरं वचः ॥

3.175.81

अतिदेवासुरं कर्म कृतमेव त्वया रणे ।
गुर्वर्थश्च कृतः पार्थ महाशत्रून्घ्नता मम ॥

3.175.82

एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय ।
असम्मूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥

3.175.83

अविषह्यो रणे हि त्वं देवदानवराक्षसैः ।
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥

3.175.84

वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् । पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc