भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.173

3.173.1

ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः ।
नगमात्रैः शिलाखण्डैस्तन्मां दृढमपीडयत् ॥

3.173.2

तदहं वज्रसन्काशैः शरैरिनद्रास्त्रचोदितैः ।
अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ॥

3.173.3

चूर्ण्यमानेऽश्मवर्षे तु यावकः समजायत ।
तत्राश्मचूर्णा न्यपतन्पावकप्रकरा इव ॥

3.173.4

ततोऽश्मवर्षे विहते जलवर्षं महत्तरम् ।
धाराभिरक्षमात्राभिः प्रादुरासीनममान्तिके ॥

3.173.5

नभस प्रच्युता धारास्तिग्मवीर्याः सहस्रशः ।
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ॥

3.173.6

धाराणां च निपातेन वायोर्विष्फूर्जितेन च ।
गर्जितेन च मेघानां न प्राज्ञायत किञ्चन ॥

3.173.7

धारा दिवि च सम्बद्धा वसुधायां च सर्वशः ।
व्यामोहयन्त मां तत्रनिपतन्त्योऽनिशं भुवि ॥

3.173.8

तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् ।
दीप्तं प्राहिणवं घोरमशुप्यत्तेन तज्जलम् ॥

3.173.9

हतेऽश्मवर्षे च मया जलवर्षे च शोषिते ।
मुमुचुर्दानवा मायामग्निं वायुं च भारत ॥

3.173.10

ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः ।
शैलेन च महास्त्रेण वायोरवेगमधारयम् ॥

3.173.11

तस्यां प्रतिहतायां ते दानवा युद्धदुर्मदाः ।
प्राकुर्वन्विविधां मायां यौगपद्येन भारत ॥

3.173.12

ततो वर्षं प्रादुरभूत्सुमहद्रोमहर्षणम् ।
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाऽश्मनाम् ॥

3.173.13

सा तु मायामयी वृष्टिः पीडयामास मां युधि ।
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ॥

3.173.14

तमसा संवृतेलोके घोरेण परुषेण च ।
हरयो विमुखाश्चासन्प्रास्खलच्चापि मातलिः ॥

3.173.15

हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि ।
असकृच्चाह मां भीतः किं करिष्याव इत्यपि ॥

3.173.16

मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि ।
स च मां विगतज्ञानः सन्त्रस्तमिदमब्रवीत् ॥

3.173.17

सुराणामसुराणां च सन्ग्रामः सुमहानभूत् ।
अमृतार्थं पुरा पार्त स च दृष्टो मयाऽनघ ॥

3.173.18

शम्बरस्य वधे घोरः सन्ग्रामः सुमहानभूत् ।
सारथ्यं देवराजस्य तत्रापि कृतवानहम् ॥

3.173.19

तथैव वृत्रस्य वधे सन्गृहीता हया मया ।
वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ॥

3.173.20

एते मया महाघोरः सन्ग्रामाः पर्युपासिताः ।
न चापि विगतज्ञानो भूतपूर्वोस्मि पाण्डव ॥

3.173.21

पितामहेन संहारः प्रजानां विहितो ध्रुवम् ।
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् ॥

3.173.22

तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना ।
मोहयिष्यन्दानवानामहं मायाबलं महत् ॥

3.173.23

अब्रुवं मातलिं भीतं पश्य मे बुजयोर्बलम् ।
अस्त्राणां च प्रभावं वै धनुषो गाण्डिवस्य च ॥

3.173.24

अद्यास्त्रमाययैतैषां मायामेतां सुदारुणाम् ।
विनिहन्मि तमश्चोग्रं मा भैः सूत स्तिरो भव ॥

3.173.25

एवमुक्त्वाहमसृजमस्त्रमायां नराधिप ।
मोहनीं सर्वभूतानां हिताय त्रिदिवौकसाम् ॥

3.173.26

पीड्यमानासु मायासु तासु तास्वसुरोत्तमाः ।
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः ॥

3.173.27

पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः ।
भवत्यदर्शनो लोकः पुनरप्सु निमज्जति ॥

3.173.28

सुसन्गृहीतैर्हरिभिः प्रकाशे सति मातलिः ।
व्यचरत्स्यन्दनाग्र्येण सन्ग्रामे रोमहर्षणे ॥

3.173.29

ततः पर्यपतन्नुग्रा निवातकवचा मयि ।
तानहं विवरं दृष्ट्वा प्राहण्वं यमसादनम् ॥

3.173.30

वर्तमाने तथा युद्धे निवातकवचान्तके ।
नापश्यं सहसा सर्वान्दानवान्मायया वृतान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc