भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.17

3.17.1

एवमुक्त्वा रौक्मिणेयो यादवान्यादवर्षभ ।
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ॥

3.17.2

उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् ।
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ॥

3.17.3

विक्षिपन्नादयंश्चापि धनुः श्रेष्ठं महाबलैः ।
तूणखङ्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥

3.17.4

सविद्युच्छुरितं चापं विहरन्वै तलात्तलम् ।
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ॥

3.17.5

तस्य विक्षिपतश्चापं सन्दधानस्य चासकृत् ।
नान्तरं ददृशे कश्चिन्नघ्नितः शात्रवान्रणे ॥

3.17.6

मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य ।
सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतवीर्यमग्र्यम् ॥

3.17.7

जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननः शत्रुबलप्रमाथी ।
वित्रासयन्राजति वाहमुख्ये साल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ॥

3.17.8

ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्शनः ।
साल्वमेवाभिदुद्राव विधित्सुः कलहं नृप ॥

3.17.9

अभियानं तु वीरेण प्रद्युम्नेन महारणे ।
नामर्षयत सन्क्रुद्वः साल्वः कुरुकुलोद्वह ॥

3.17.10

सरोषमहमत्तो वै कामगादवरुह्य च ।
प्रद्युम्नं योधयामास साल्वः परपुरञ्जयः ॥

3.17.11

तयोः सुतुमुलं युद्धं साल्ववृष्णिप्रवीरयोः ।
समेता ददृशुर्लोका बलिवासवयोरिव ॥

3.17.12

तस्य मायामयो वीर रथो हेमपरिष्कृतः ।
सपताकः सध्वजश्च सानुकर्षः स तूणवान् ॥

3.17.13

स तं रथवरं श्रीमान्समारुह्य किल प्रभो ।
मुमोच बाणान्कौख्य प्रद्युम्नाय महाबलः ॥

3.17.14

ततो बाणमयं वर्षं व्यसृजत्तरसा रणे ।
प्रद्युम्नो भुजवेगेन साल्वं सम्मोहयन्निव ॥

3.17.15

स तैरभिहतः सङ्ख्ये नामर्यत सौभराट् ।
शरान्दीप्ताग्निसन्काशान्मुमोच तनये मम ॥

3.17.16

तमापतन्तं बाणौधं स चिच्छेद महाबलः ।
ततश्चान्याञ्शरान्दीप्तान्प्रचिक्षेप सुते मम ॥

3.17.17

स साल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः ।
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ॥

3.17.18

तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः ।
विवेश हृदयं पत्री स पपात भृशहतः ॥

3.17.19

तस्मिन्निपतिते वीरे साल्वराजे विचेतसि ।
सम्प्रद्रबन्दानवेन्द्रा दारयन्तो वसुन्धराम् ॥

3.17.20

हाहाकृतमभूत्सैन्यं साल्वस्य पृथिवीपते ।
नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृपे ॥

3.17.21

तत उत्थाय राजेन्द्र प्रतिलभ्य च चेतनाम् ।
मुमोच बाणान्सहसा प्रद्युम्नाय महाबलः ॥

3.17.22

तेन बाणेन महता प्रद्युम्नः समरे स्थितः ।
जत्रुदेशे भृशं विद्धो व्यथितो ददृशे तदा ॥

3.17.23

तं स विद्ध्वा महाराज साल्वो रुक्मिणिनन्दनम् ।
ननाद सिंहनादं वै नादेनापूरयन्महीम् ॥

3.17.24

ततो मोहं समापन्ने तनये मम भारत ।
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरात्मवान् ॥

3.17.25

स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः । निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc