भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.168

3.168.1

यथागतं गते शक्रे भ्रातृभिः सह सन्गतः ।
कृष्णया चैव बीभत्सुर्धर्मराजमपूजयत् ॥

3.168.2

अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम् ।
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ॥

3.168.3

कथमर्जुन कालोऽयं स्वर्गे रव्यतिगतस्तव ।
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ॥

3.168.4

सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव ।
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ॥

3.168.5

यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृत् ।
यथैवास्त्राण्यवाप्तानि यथैवाराधिताश्च ते ॥

3.168.6

यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिन्दम ।
कृतप्रियस्त्वयाऽस्मीति तस्य ते किं प्रियं कृतम् ॥

3.168.7

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।
यथा तुष्टो महादेवो देवराजस्तथाऽनघ ॥

3.168.8

यच्चापि वज्रपाणेस्तु प्रियं कृतमरिन्दम ।
एतदाख्याहि मे सर्वमखिलेन धनञ्जय ॥
अर्जुन उवाच ।

3.168.9

शृणु हन्त महाराज विधिना येन दृष्टवान् ।
शतक्रतुमहं देवं भगवन्तं च शन्करम् ॥

3.168.10

विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन ।
भवता च समादिष्टस्तपसे प्रस्थितो वनम् ॥

3.168.11

भृगुतुन्दमथो गत्वा काम्यकादास्थितस्तपः ।
एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि ॥

3.168.12

स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे ।
तस्मा अवितथं सर्वमब्रवं कुरुनन्दन ॥

3.168.13

स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम ।
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ॥

3.168.14

ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत ।
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिषम् ॥

3.168.15

ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् ।
तपोऽतप्यं महाराज मासं मूलफलाशनः ॥

3.168.16

द्वितीयश्चापि मे मासो जलं भक्षयतो गतः ।
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ॥

3.168.17

ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा ।
न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ॥

3.168.18

पञ्चमे त्वथ सम्प्राप्ते प्रथमे दिवसे गते ।
वराहसंस्थितं भूतं मत्समीपं समागमत् ॥

3.168.19

निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि ।
सम्मार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ॥

3.168.20

अनु तस्यापरं भूतं महत्कैरातसंस्थितम् ।
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ॥

3.168.21

ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी ।
अताडयं शरेणाथ तद्भूतं रोमहर्षणम् ॥

3.168.22

युपत्तं किरातस्तु विकृष्य बलवद्धनुः ।
अभ्याजघ्ने दृढतरं कम्पयन्निव मेदिनीम् ॥

3.168.23

सतु मामब्रवीद्राजन्मम पूर्वपरिग्रहः ।
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ॥

3.168.24

एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव ।
सन्घर्षवान्महाकायस्ततो मामभ्यधावत ॥

3.168.25

ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः ।
तं चाहं शरवर्षेण महता समवाकिरम् ॥

3.168.26

ततः शरैर्दीप्तमुखैर्यन्त्रितैरनु यन्त्रितैः ।
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ॥

3.168.27

तस्य तच्छतधा रूपमभवच्च सहस्रधा ।
तानि चास्य शरीराणि शरैरहमताडयम् ॥

3.168.28

पुनस्तानि शरीराणि एकीभूतानि भारत ।
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ॥

3.168.29

अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः ।
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ॥

3.168.30

यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे ।
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ ॥

3.168.31

न चैनमशकं हन्तुं तदद्भुतमिवाभवत् ।
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ॥

3.168.32

तत्रापि च महाराज सविशेषमहं ततः ।
अस्त्रपूगेन महता रणे भूतमवाकिरम् ॥

3.168.33

स्थूणाकर्णमथो जालं शरवर्षं शरोल्वणम् ।
शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम् ॥

3.168.34

जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप ।
तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम् ॥

3.168.35

ततः प्रज्वलितैर्बाणैः सर्वतश्चोपचीयत ।
उपचीयमानश्च तदा महास्त्रेण व्यवर्धत ॥

3.168.36

ततः सन्तापिता लोका मत्प्रसूतेन तेजसा ।
क्षणएन हि दिशः स्वं च सर्वतो हि विदीपितं ॥

3.168.37

तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत् ।
ब्र्हमास्त्रे तु हते राजन्भयं मां महदाविशत् ॥

3.168.38

ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी ।
सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥

3.168.39

एतेष्वस्त्रेषु भूतेन भक्षितेष्वायुधेषु च ।
मम तस् च भूतस्य बाहुयुद्धमवर्तत ॥

3.168.40

व्यायामं मुष्टिभिः कृत्वा तलैरभिसमाहतौ ।
अपायच्च तद्भूतमहं चापातयं महीम् ॥

3.168.41

ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत ।
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ॥

3.168.42

मुख्यं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः ।
दिव्यमेव महाराज वरानोऽद्भुतमम्बरम् ॥

3.168.43

हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः ।
स्वरूपं दिव्यमास्थाय तस्यौ महेश्वरः ॥

3.168.44

सोऽदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः ।
धनुर्गृह्यतदा पाणौ बहुरूपः पिनाकधृत् ॥

3.168.45

स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् ।
शूलपाणिरथोवाच तुष्टोस्मीति परन्तप ॥

3.168.46

ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ ।
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ॥

3.168.47

तुष्टोस्मि तव कौन्तेय ब्रूहि किं करवाणि ते । मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम् ।
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ॥

3.168.48

ततः प्राञ्डलिरेवाहमस्त्रेषु कृतमानसः ।
प्रणम्य शिरसा शर्वं ततो वचनमाददे ॥

3.168.49

भगवानमे प्रसन्नश्चेदीप्सितोऽयं वरो मम ।
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ॥

3.168.50

ददानीत्येव भगवानब्रवीत्र्यम्बकश्च माम् ।
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव ॥

3.168.51

प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ।
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् ॥

3.168.52

न प्रयोज्यम्भवेदेतन्मानुषेषु कथञ्चन ।
[जगद्विनिर्दहेदेवमल्पतेजसि पातितम् ॥

3.168.53

पीड्यमानन बलवत्प्रयोज्यंस्याद्धनञ्जय ।
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥

3.168.54

ततोऽप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् ।
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥

3.168.55

उत्सादनममित्राणां परसेनानिकर्तनम् ।
दुरासदं दुष्प्रसहं सुरदानवराक्षसैः ॥

3.168.56

अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् । प्रेक्षतश्चैवमे देवस्तत्रैवान्तरधीयत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc